विष्वक्सेनसंहिता · अध्याय 12
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [वर्णायुधविन्यासविधिर्नाम] एकादेशो ऽध्यायः
द्वादशो ऽध्यायः
द्वादशो ऽध्यायः विष्वक्सेनः---
शृणु देवमुनिश्रेष्ठ मन्त्रानुक्रमणं परम् ।
सोद्धारणं ऋषिश्छन्दो दैवं वर्णादिमेव च
संक्षेपेण प्रवक्ष्यामि यथामति महामुने ।
अन्यं तथागताद्यं स्यादग्निमायुधसंहृतिः
परमात्मा द्वितीयं तु तृतीयं वासुदेवकम् ।
संकर्षणं ततो मन्त्रं प्रद्युम्नस्य तथैव च
अनिरुद्धस्य विद्या च मत्स्यमन्त्रमनन्तरम् ।
कूर्मविद्या ततः क्रोडं दशमं नारसिंहकम्
पश्चाद्वामनमन्त्रं च जामदग्न्यमतः परम् ।
विद्या दाशरथेरूर्ध्वं बलराममनन्तरम्
कृष्णं च कल्कीविष्णोश्च केशवस्य पुनः पुनः ।
नारायणस्य विद्यां तां माधवस्य पुनः क्रमात्
गोविन्दस्यापि विष्णोश्च मधुसूदनविद्यया ।
त्रैविक्रमं वामनं च श्रीधराख्यमथो मुने
हृषीकेशं च मन्त्रं च पद्मनाभमतः परम् ।
ब्रह्ममन्त्रं तथा चैव दामोदरमनुक्रमात्
विश्वरूपस्य मन्त्रं च यज्ञमूर्तेरतः परम् ।
वेदमूर्तेरथो मुद्रामन्त्रं श्रीमन्त्रमेव च
पुष्टिविद्या तथा मेधाविद्या सरस्वती तथा ।
दुर्गाविघ्नेशयोश्चापि विद्या या परमेष्ठिनः
पुरुषस्य च विद्या च विश्वमन्त्रमतः परम् ।
निवृत्तिसर्वैश्वर्ययोर्मन्त्रं मन्त्रविदां वर
यथोक्तमुद्धरिष्यामि भक्तानां हितकाम्यया ।
मन्त्रोद्धारं प्रवक्ष्यामि यथावदनुपूर्वशः
शृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने ।
विष्णुपञ्चकमुद्धृत्य भानुमन्तमतः परम्
यजुषामान्तलान्तं च सान्तमान्तेन योजयेत् ।
प्रणवेन पुटीकृत्य द्वितीयं बिन्दुना युतम्
नमसा भगवानेकादशयुक्तं परः परम् ।
णान्तमान्तात्मने विश्वेशान्तणान्तं सलान्तकम्
एकादशद्वितीयेन वासुदेवात् समुद्धरेत् ।
सेनायुताद्यलान्तेन यनांघ्रिमनेर्युताम्
मन्त्राद्यामुद्धरेद्विद्वान् गुह्यं गुह्यार्थसाधकम् ।
आद्यन्तं प्रणवं कृत्वा नमः शब्दमनन्तरम्
प्रथमान्तं तथा मादि मकारान्तं कलान्तकम् ।
तुरीयादि सहैहारं सचूडामणिषान्तकम्
वर्गादिमन्यकारेण शान्तणोनन्तरं तथा ।
मान्तमान्तं तथाकारमुद्धरेत् साधकोत्तमः
अमित्याद्युपरतं मे कुर्यान्नमः शब्दमनन्तरम् ।
भगवन्तं चतुर्थ्यन्तं पञ्चमानिलमातियुक्
चतुर्थस्य तृतीयेन वायुपञ्चमभेदितम् ।
पञ्चमान्तं चतुर्थ्यन्तं द्विकलं वायुमादिना
सविसर्गमकारं च प्रणवं च नमस्तथा ।
पञ्चमं च चतुर्थं च प्रथमस्य तृतीयकम्
लान्तं तु तुर्यपूर्वा च स्वरैकादशसंयुतम् ।
विष्णुं च तुर्यवर्गान्तं तृतीयं स्वरभूषितम्
पञ्चमस्वरयुक्त्या तु तुरीयं त्रिचतुर्थकम् ।
आन्तान्तमनिलं पश्चात् षोडशस्वरमुद्धरेत्
अनिलादिमथाद्धृत्यानलमौकारमेव च ।
पिबन्तं तु नमः शब्दं स्वैः पूर्वैः समस्वरम्
कान्तान्तलान्ततेवी च यषथादिचतुर्थकम् ।
एकादशं द्वितीयेन लान्तं पञ्चमयोजितम्
वान्तदेवायमत्पूर्वं षान्तवायुं तथायकः ।
ततो वायुं च रूपाय मन्त्रादींश्च ततोद्धरेत्
द्वितीयं बिन्दुशीर्षेण लान्तो नाथोपरि न्यसेत् ।
नमसा भगवच्छब्दं विष्णुशब्दं च पूर्ववत्
षट्शिखं कं च वह्निं च मकारेणाथ कूर्परम् ।
षष्ठस्वरं च पान्तेयमुद्धरेन्मन्त्रवित्तमः
निकामादिबकारान्तं षष्ठस्वरविभूषितम् ।
सविसर्गं नमः शब्दं भगवच्छब्दमुद्धरेत्
एकारान्तं शकारादि मकारान्तं च यान्तकम् ।
सान्तं द्वितीयसंयुक्तं वायुमान्तं च भूरिति
आन्तायं मुखमुद्धृत्य लान्तं बिन्दुचतुर्दशैः ।
यथामतौ तथान्तेपि नमो भगवते तथा
प्रथमेन तु यान्तानि वियदादीनि बिन्दुयुक् ।
द्वितीयेन वियच्चापि वायुसादिमथो ऽम्बरे
अनलादि तुरीयान्तं बिन्दुनादविभूषितम् ।
त्रयोदशान्तं स्वान्तादि वान्तं गवमतः परम्
एकादशे च णान्तं च णान्तं शान्तं च वै परम् ।
एकादशद्वितीयेन लान्तं भान्तमनन्तरम्
नान्तं मान्तं समुद्धृत्य चरमे प्रथमं लिखेत् ।
मन्त्रस्यास्य मुनिश्रेष्ठ जामदग्न्यमथो शृणु
यान्तमीश्वरबिन्दू च आदावन्ते नमस्तथा ।
भगवद्विष्णुशब्दौ च तुर्यान्तौ[तु]पुनः पुनः
वान्तं भूतलकायुक्तमनलं भास्करं तथा ।
द्वितीयया प्रथमया कलया वायुमुद्धरेत्
पञ्चमान्तेन सहितं रान्तं समणियोजितम् ।
पादे च शिखरे चैव नमश्च सकलं तथा
लोकाय श्रिया राममनिलानललान्तकान् ।
प्रथमद्वितीयवाद्येन णान्तं कान्तयकं तथा
रक्षात्मजायां सर्वं च रक्षोघ्नायेत्यनन्तरम् ।
तस्य संधाय विश्वापि शाणान्तेन वे प्रभात्
परतो विषतांघ्रश्च सहैकादशकलं तथा ।
लान्तं न्यसेन्मुनिश्रेष्ठ बलविद्योद्धृतिं शृणु
ओं पदं प्रथमं कृत्वा विधाय तच्छ्रिया पुनः ।
वाभ्रं तयादावन्ते च नमो भगवते पुनः
गानाद्यं तु नाद्येन वहिमानं च वायुयुक् ।
उद्धरेत् कृष्णविद्याया संशृणुतः परम्
मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0