भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 99

99.1

दृष्ट्वा श्रियं देवदेवस्य विष्णोर् गृहीतपादां तपसा ज्वलन्तीम्
सुतप्तजाम्बूनदचारुवर्णां पप्रच्छ देवीं वसुधा प्रहृष्टा ॥

99.2

उन्निद्रकोकनदचारुकरे वरेण्ये उन्निद्रकोकनदनाभिगृहीतपादे
उन्निद्रकोकनदसद्मसदास्थितीते उन्निद्रकोकनदमध्यसमानवर्णे ॥

99.3

नीलाब्जनेत्रे तपनीयवर्णे शुक्लाम्बरे रत्नविभूषिताङ्गि
चन्द्रानने सूर्यसमानभासे महाप्रभावे जगतः प्रधाने ॥

99.4

त्वम् एव निद्रा जगतः प्रधाना लक्ष्मीर् धृतिः श्रीर् विरतिर् जया च
कान्तिः प्रभा कीर्तिर् अथो विभूतिः सरस्वती वाग् अथ पावनी च ॥

99.5

स्वधा तितिक्षा वसुधा प्रतिष्ठा स्थितिः सुदीक्षा च तथा सुनीतिः
ख्यातिर् विशाला च तथानसूया स्वाहा च मेधा च तथैव बुद्धिः ॥

99.6

आक्रम्य सर्वं तु यथा त्रिलोकीं तिष्ठत्य् अयं देववरो ऽसिताक्षि
तथा स्थिता त्वं वरदे तथापि पृच्छाम्य् अहं ते वसतिं विभूतेः ॥

99.7

इत्य् एवम् उक्ता वसुधां बभाषे लक्ष्मीस् तदा देववराग्रतःस्था
सदा स्थिताहं मधुसूदनस्य देवस्य पार्श्वे तपनीयवर्णे ॥

99.8

अस्याज्ञया यं मनसा स्मरामि श्रिया युतं तं प्रवदन्ति सन्तः
संस्मारणे चाप्य् अथ यत्र चाहं स्थिता सदा तच् छृणु लोकधात्रि ॥

99.9

वसाम्य् अथार्के च निशाकरे च तारागणाढ्ये गगने विमेघे
मेघे तथा लम्बपयोधरे च शक्रायुधाढ्ये च तडित्प्रकाशे ॥

99.10

तथा सुवर्णे विमले च रूप्ये रत्नेषु वस्त्रेष्व् अमलेषु भूमे
प्रासादमालासु च पाण्डुरासु देवालयेषु ध्वजभूषितेषु ॥

99.11

सद्यः कृते चाप्य् अथ गोमये च मत्ते गजेन्द्रे तुरगे प्रहृष्टे
वृषे तथा दर्पसमन्विते च विप्रे तथैवाध्ययनप्रपन्ने ॥

99.12

सिंहासने चामलके च बिल्वे छत्रे च शङ्खे च तथैव पद्मे
दीप्ते हुताशे विमले च ख्ड्ग आदर्शबिम्बे च तथा स्थिताहम् ॥

99.13

पूर्णोदकुम्भेषु सचामरेषु सतालवृन्तेषु विभूषितेषु
भृङ्गारपात्रेषु मनोहरेषु मृदि स्थिताहं च नवोद्धृतायाम् ॥

99.14

क्षीरे तथा सर्पिषि शाद्बले च क्षौद्रे तथा दध्नि पुरंध्रिगात्रे
देहे कुमार्याश् च तथा सुराणां तपस्विनां यज्ञहुतां च देहे ॥

99.15

शरे च संग्रामविनिर्गते च स्थिता मृते स्वर्गसदःप्रयाते
वेदध्वनौ चाप्य् अथ शङ्खशब्दे स्वाहास्वधायाम् अथ वाद्यशब्दे ॥

99.16

राज्याभिषेके च तथा विवाहे यज्ञे वरे स्नातशिरस्य् अथापि
पुष्पेषु शुक्लेषु च पर्वतेषु फलेषु रम्येषु सरिद्वरासु ॥

99.17

सरःसु पूर्णेषु तथा जलेषु सशाद्वलायां भुवि पद्मखण्डे
वने च वत्से च शिशौ प्रहृष्टे साधौ नरे धर्मपरायणे च ॥

99.18

आचारसेविन्य् अथ शास्त्रनित्ये विनीतवेषे च तथा सुवेषे
सुशुद्धदान्ते मलवर्जिते च मृष्टाशने चातिथिपूजके च ॥

99.19

स्वदारतुष्टे निरते च धर्मे धर्मोत्कटे चात्यशनाद् विमुक्ते
सदा सपुष्पे ससुगन्धिगात्रे सुगन्धलिप्ते च विभूषिते च ॥

99.20

सत्ये स्थिते भूतहिते निविष्टे क्षमान्विते क्रोधविवर्जिते च
स्वकार्यदक्षे परकार्यदक्षे कल्याणचित्ते च सदा विनीते ॥

99.21

नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु
अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु बलिप्रियासु ॥

99.22

संमृष्टवेश्मासु जितेन्द्रियासु कलिव्यपेतास्व् अविलोलुपासु
धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं मधुसूदने च ॥

99.23

निमेषमात्रं च विना कृताहं न जातु तिष्ठे पुरुषोत्तमेन ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc