विष्णुस्मृति · अध्याय 100
धर्मशास्त्रम् इदं श्रेष्ठं स्वयं देवेन भाषितम्
ये द्विजा धारयिष्यन्ति तेषां स्वर्गे गतिः परा ॥
इदं पवित्रं मङ्गल्यं स्वर्ग्यम् आयुष्यम् एव च
ज्ञानं चैव यशस्यं च धनसौभाग्यवर्धनम् ॥
अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यम् एव च
श्राद्धेषु श्रावणीयं च भूतिकामैर् नरैः सदा ॥
य इदं पठते नित्यं भूतिकामो नरः सदा
इदं रहस्यं परमं कथितं च धरे तव ॥
मया प्रसन्नेन जगद्धितार्थं सौभाग्यम् एतत् परमं यशस्यम्
दुःस्वप्ननाशं बहुपुण्ययुक्तं शिवालयं शाश्वतधर्मशास्त्रम् ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0