विष्णुस्मृति · अध्याय 97
पुरम् आक्रम्य सकलं शेते यस्मान् महाप्रभुः
तस्मात् पुरुष इत्य् एवं प्रोच्यते तत्त्वचिन्तकैः ॥
प्राग्रात्रापररात्रेषु योगी नित्यम् अतन्द्रितः
ध्यायेत पुरुषं विष्णुं निर्गुणं पञ्चविंशकम् ॥
तत्त्वात्मानम् अगम्यं च सर्वतत्त्वविवर्जितम्
अशक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च ॥
बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च
सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥
अविभक्तं च भूतेन विभक्तम् इव च स्थितम्
भूतभव्यभवद्रूपं ग्रसिष्णु प्रभविष्णु च ॥
ज्योतिषाम् अपि तज्ज्योतिस् तमसः परम् उच्यते
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0