ग्रंथ पाठ
विष्णुस्मृति · अध्याय 96
96.23
वास्यैकं तक्षतो बाहुं चन्दनेनैकम् उक्षतः
नाकल्याणं न कल्याणं तयोर् अपि च चिन्तयेत् ॥
96.97
इदं शरीरं वसुधे क्षेत्रम् इत्य् अभिधीयते
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञम् इति तद्विदः ॥
96.98
क्षेत्रज्ञम् अपि मां विद्धि सर्वक्षेत्रेषु भाविनि
क्षेत्रक्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0