विष्णुस्मृति · अध्याय 86
वृषो हि भगवान् धर्मश् चतुष्पादः प्रकीर्तितः
वृणोमि तम् अहं भक्त्या स मे रक्षतु सर्वतः ॥
एतं युवानं पतिं वो ददाम्य् अनेन क्रीडन्तीश् चरत प्रियेण
मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥
वृषं वत्सतरीयुक्तम् ऐशान्यां कारयेद् दिशि
होतुर् वस्त्रयुगं दद्यात् सुवर्णं कांस्यम् एव च ॥
अयस्कारस्य दातव्यं वेतनं मनसेप्सितम्
भोजनं बहुसर्पिष्कं ब्राह्मणांश् चात्र भोजयेत् ॥
उत्सृष्टो वृषभो यस्मिन् पिबत्य् अथ जलाशये
जलाशयं तत् सकलं पितॄंस् तस्योपतिस्ठति ॥
शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः
पितॄणाम् अन्नपानं तत् प्रभूतम् उपतिष्ठति ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0