ग्रंथ पाठ
विष्णुस्मृति · अध्याय 85
85.69
कुले ऽस्माकं स जन्तुः स्याद् यो नो दद्याज् जलाञ्जलीन्
नदीषु बहुतोयासु शीतलासु विशेषतः ॥
85.70
अपि जायेत सो ऽस्माकं कुले कश्चिन् नरोत्तमः
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात् समाहितः ॥
85.71
एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत् ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0