भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 67

67.33

अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते
तस्मात् सुकृतम् आदाय दुष्कृतं तु प्रयच्छति ॥

67.34

एकरात्रं हि निवसन्न् अतिथिर् ब्राह्मणः स्मृतः
अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥

67.35

नैकग्रामीणम् अतिथिं विप्रं सांगतिकं तथा
उपस्थितं गृहे विन्द्याद् भार्या यत्राग्नयो ऽपि वा ॥

67.36

यदि त्व् अतिथिधर्मेण क्षत्रियो गृहम् आगतः
भुक्तवत्सु च विप्रेसु कामं तम् अपि भोजयेत् ॥

67.37

वैश्यशूद्राव् अपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ
भोजयेत् सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन् ॥

67.38

इतरान् अपि सख्यादीन् संप्रीत्या गृहम् आगतान्
प्रकृतान्नं यथाशक्ति भोजयेत् सह भार्यया ॥

67.39

स्ववासिनीं कुमारीं च रोगिणीं गुर्विणीं तथा
अतिथिभ्यो ऽग्र एवैतान् भोजयेद् अविचारयन् ॥

67.40

अदत्त्वा यस् तु एतेभ्यः पूर्वं भुङ्क्ते ऽविचक्षणः
भुञ्जानो न स जानाति श्वगृध्रैर् जग्धिम् आत्मनः ॥

67.41

भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि
भुञ्जीयातां ततः पश्चाद् अवशिष्टं तु दंपती ॥

67.42

देवान् पितॄन् मनुष्यांश् च भृत्यान् गृह्याश् च देवताः
पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ॥

67.43

अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात्
यज्ञशिष्टाशनं ह्य् एतत् सताम् अन्नं विधीयते ॥

67.44

स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा
न चाप्नोति गृही लोकान् यथा त्व् अतिथिपूजनात् ॥

67.45

सायं प्रातस् त्व् अतिथये प्रदद्याद् आसनोदके
अन्नं चैव यथाशक्त्या सत्कृत्य विधिपूर्वकम् ॥

67.46

प्रतिश्रयं तथा शय्यां पादाभ्यङ्गं सदीपकम्
प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc