ग्रंथ पाठ
विष्णुस्मृति · अध्याय 68
68.46
नाश्नीयाद् भार्यया सार्धं नाकाशे न तथोत्थितः
बहूनां प्रेक्षमाणानां नैकस्मिन् बहवस् तथा ॥
68.47
शून्यालये वह्निगृहे देवागारे कथंचन
पिबेन् नाञ्जलिना तोयं नातिसौहित्यम् आचरेत् ॥
68.48
न तृतीयम् अथाश्नीत न चापथ्यं कथंचन
नातिप्रगे नातिसायं न सायं प्रातर् आशितः ॥
68.49
न भावदुष्टम् अश्नीयान् न भाण्डे भावदूषिते
शयानः प्रौढपादश् च कृत्वा चैवावसक्थिकाम् ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0