ग्रंथ पाठ
विष्णुस्मृति · अध्याय 58
58.9
क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया
अविशेषेण सर्वेषां धनं शुक्लम् उदाहृतम् ॥
58.10
उत्कोचशुल्कसंप्राप्तम् अविक्रेयस्य विक्रयैः
कृतोपकाराद् आप्तं च शबलं समुदाहृतम् ॥
58.11
पार्श्विकद्यूतचौर्याप्त प्रतिरूपकसाहसैः
व्याजेनोपार्जितं यच् च तत् कृष्णं समुदाहृतम् ॥
58.12
यथाविधेन द्रव्येण यत् किंचित् कुरुते नरः
तथाविधम् अवाप्नोति स फलं प्रेत्य चेह च ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0