भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 57

57.11

आहूयाभ्युद्यतां भिक्षां पुरस्ताद् अनुचोदिताम्
ग्राह्यां प्रजापतिर् मेने अपि दुष्कृतकर्मणः ॥

57.12

नाश्नन्ति पितरस् तस्य दश वर्षाणि पञ्च च
न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ॥

57.13

गुरून् भृत्यान् उज्जिहीर्षुर् अर्चिष्यन् पितृदेवताः
सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥

57.14

एतेष्व् अपि च कार्येषु समर्थस् तत्प्रतिग्रहे
नादद्यात् कुलटाषण्ढ पतितेभ्यस् तथा द्विषः ॥

57.15

गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन्
आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ॥

57.16

अर्धिकः कुलमित्रं च दासगोपालनापिताः
एते शूद्रेषु भोज्यान्ना यश् चात्मानं निवेदयेत् ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc