भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 59

59.25

देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः
न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥

59.26

ब्रह्मचारी यतिर् भिक्षुर् जीवन्त्य् एते गृहाश्रमात्
तस्माद् अभ्यागतान् एतान् गृहस्थो नावमानयेत् ॥

59.27

गृहस्थ एव यजते गृहस्थस् तप्यते तपः
प्रददाति गृहस्थश् च तस्माच् छ्रेष्ठो गृहाश्रमी ॥

59.28

ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा
आशासते कुडुम्बिभ्यस् तस्माच् छ्रेष्ठो गृहाश्रमी ॥

59.29

त्रिवर्गसेवां सततान्नदानं सुरार्चनं ब्राह्मणपूजनं च
स्वाध्यायसेवां पितृतर्पणं च कृत्वा गृही शक्रपदं प्रयाति ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc