विष्णुस्मृति · अध्याय 55
यथाश्वमेधः क्रतुराट् सर्वपापापनोदकः
तथाघमर्षणं सूक्तं सर्वपापापनोदकम् ॥
प्राणायामं द्विजः कुर्यात् सर्वपापापनुत्तये
दह्यन्ते सर्वपापानि प्राणायामैर् द्विजस्य तु ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह
त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥
अकारं चाप्य् उकारं च मकारं च प्रजापतिः
वेदत्रयान् निरदुहद् भूर् भुवः स्वर् इतीति च ॥
त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत्
तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥
एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्विकाम्
संध्ययोर् वेदविद् विप्रो वेदपुण्येन युज्यते ॥
सहस्रकृत्वस् त्व् अभ्यस्य बहिर् एतत् त्रिकं द्विजः
महतो ऽप्य् एनसो मासात् त्वचेवाहिर् विमुच्यते ॥
एतत्त्रयविसंयुक्तः काले च क्रियया स्वया
विप्रक्षत्रियविड्जातिर् गर्हणां याति साधुषु ॥
ओंकारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः
त्रिपदा चैव गायत्री विज्ञेया ब्राह्मणो मुखम् ॥
यो ऽधीते ऽहन्य् अहन्य् एतां त्रीणि वर्षाण्य् अतन्द्रितः
स ब्रह्म परम् अभ्येति वायुभूतः खमूर्तिमान् ॥
एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः
सावित्र्यास् तु परं नान्यन् मौनात् सत्यं विशिष्यते ॥
क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः
अक्षरं त्व् अक्षरं ज्ञेयं ब्रह्मा चैव प्रजापतिः ॥
विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः
उपांशुः स्याच् छतगुणः सहस्रो मानसः स्मृतः ॥
ये पाकयज्ञाश् चत्वारो विधियज्ञसमन्विताः
ते सर्वे जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥
जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः
कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0