विष्णुस्मृति · अध्याय 54
पञ्चगव्यं पिबेच् छूद्रो ब्राह्मणस् तु सुरां पिबेत्
उभौ तौ नरकं यातो महारौरवसंज्ञितम् ॥
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः
मासं गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥
अयाज्ययाजनं कृत्वा परेषाम् अन्त्यकर्म च
अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ॥
येषां द्विजानां सावित्री नानूच्येत यथाविधि
तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास् तु ये द्विजाः
ब्राह्मण्याच् च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत् ॥
यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसा तथा ॥
वेदोदितानां नित्यानां कर्मणां समतिक्रमे
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥
अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥
एनस्विभिर् निर्णिक्तैर् नार्थं किंचित् समाचरेत्
कृतनिर्णेजनांश् चैतान् न जुगुप्सेत धर्मवित् ॥
बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः
शरणागतहन्तॄंश् च स्त्रीहन्तॄंश् च न संवसेत् ॥
अशीतिर् यस्य वर्षाणि बालो वाप्य् ऊनषोडशः
प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो रोगिण एव च ॥
अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्प्येत् ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0