विष्णुस्मृति · अध्याय 29
अधर्मेण च यः प्राह यश् चाधर्मेण पृच्छति
तयोर् अन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा
तत्र विद्या न वक्तव्या शुभं बीजम् इवोषरे ॥
विद्या ह वै ब्रह्मणम् आजगाम गोपाय मा शेवधिष्टे ऽहम् अस्ति
असूयकायानृजवे ऽयताय न मां ब्रूया अवीर्यवती तथा स्याम् ॥
यम् एव विद्याः शुचिम् अप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम्
यस् ते न द्रुह्येत् कतमच् च नाह तस्मै मां ब्रूया निधिपाय ब्रह्मन् ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0