भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 28

28.47

एवं चरति यो विप्रो ब्रह्मचर्यम् अतन्द्रितः
स गच्छत्य् उत्तमं स्थानं न चेहाजायते पुनः ॥

28.48

कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः
अतिक्रमं व्रतस्याहुर् धर्मज्ञा ब्रह्मचारिणः ॥

28.49

एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम्
सप्तागारं चरेद् भैक्षं स्वकर्म परिकीर्तयन् ॥

28.50

तेभ्यो लब्धेन भैक्ष्येण वर्तयन्न् एककालिकम्
उपस्पृशंस् त्रिषवणम् अब्देन स विशुध्यति ॥

28.51

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः
स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥

28.52

अकृत्वा भैक्षचरणम् असमिद्ध्य च पावकम्
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥

28.53

तं चेद् अभ्युदियात् सूर्यः शयानं कामकारतः
निम्लोचेद् वाप्य्+अविज्ञानाज् जपन्न् उपवसेद् दिनम् ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc