भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 30

30.43

लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा
आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ॥

30.44

उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥

30.45

कामान् माता पिता चैनं यद् उत्पादयतो मिथः
संभूतिं तस्य तां विद्याद् यद् योनाव् इह जायते ॥

30.46

आचार्यस् त्व् अस्य यां जातिं विधिवद् वेदपारगः
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥

30.47

य आवृणोत्य् अवितथेन कर्णाव् अदुःखं कुर्वन्न् अमृतं संप्रयच्छन्
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत् कृतम् अस्य जानन् ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc