भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 23

23.38

पक्षिजग्धं गवा घ्रातम् अवधूतम् अवक्षुतम्
दूषितं केशकीटैश् च मृत्प्रक्षेपेण शुध्यति ॥

23.39

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः
तावन् मृद्वारि देयं स्यात् सर्वासु द्रव्यशुद्धिषु ॥

23.40

अजाश्वं मुखतो मेध्यं न गौर् न नरजा मलाः
पन्थानश् च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥

23.41

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥

23.42

प्राणिनाम् अथ सर्वेषां मृद्भिर् अद्भिश् च कारयेत्
अत्यन्तोपहतानां च शौचं नित्यम् अतन्द्रितम् ॥

23.43

भूमिष्ठम् उदकं पुण्यं वैतृष्ण्यं यत्र गोर् भवेत्
अव्याप्तं चेद् अमेध्येन तद्वद् एव शिलागतम् ॥

23.44

मृतपञ्चनखात् कूपाद् अत्यन्तोपहतात् तथा
अपः समुद्धरेत् सर्वाः शेषं वस्त्रेण शोधयेत् ॥

23.45

वह्निप्रज्वालनं कुर्यात् कूपे पक्वेष्टकाचिते
पञ्चगव्यं न्यसेत् पश्चान् नवतोयसमुद्भवे ॥

23.46

जलाशयेष्व् अथाल्पेषु स्थावरेषु वसुंधरे
कूपवत् कथिता शुद्धिर् महत्सु च न दूषणम् ॥

23.47

त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन्
अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥

23.48

नित्यं शुद्धः कारुहस्तः पण्यं यच् च प्रसारितम्
ब्राहमणान्तरितं भैक्ष्यम् आकराः सर्व एव च ॥

23.49

नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फलपातने
प्रस्रवे च शुचिर् वत्सः श्वा मृगग्रहणे शुचिः ॥

23.50

श्वभिर् हतस्य यन् मांसं शुचि तत् परिकीर्तितम्
क्रव्याद्भिश् च हतस्यान्यैश् चण्डालाद्यैश् च दस्युभिः ॥

23.51

ऊर्ध्वं नाभेर् यानि खानि तानि मेध्यानि निर्दिशेत्
यान्य् अधस्तान्य् अमेध्यानि देहाच् चैव मलाश् च्युताः ॥

23.52

मक्षिका विप्रुषश् छाया गौर् गजाश्वमरीचयः
रजो भूर् वायुर् अग्निश् च मार्जारश् च सदा शुचिः ॥

23.53

नोच्छिष्टं कुर्वते मुख्या विप्रुषो ऽङ्गे न यान्ति याः
न श्मश्रूणि गतान्य् आस्यं न दन्तान्तरवेष्टितम् ॥

23.54

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान्
भौमिकैस् ते समा ज्ञेया न तैर् अप्रयतो भवेत् ॥

23.55

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन
अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥

23.56

मार्जनोपाञ्जनैर् वेश्म प्रोक्षणेनैव पुस्तकम्
संमार्जनेनाञ्जनेन सेकेनोल्लेखनेन च ॥

23.57

दाहेन च भुवः शुद्धिर् वासेनाप्य् अथ वा गवाम्
गावः पवित्रमङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ॥

23.58

गावो वितन्वते य्ज्ञं गावः सर्वाघसूदनाः
गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ॥

23.59

षडङ्गम् एतत् परमं मङ्गल्यं परमं गवाम्
शृङ्गोदकं गवां पुण्यं सर्वाघविनिषूदनम् ॥

23.60

गवाम् कण्डूयनं चैव सर्वकल्मषनाशनम्
गवां ग्रासप्रदानेन स्वर्गलोके महीयते ॥

23.61

गवां हि तीर्थे वसतीह गङ्गा पुष्टिस् तथासां रजसि प्रवृद्धा
लक्ष्मीः करीषे प्रणतौ च धर्मस् तासां प्रणामं सततं च कुर्यात् ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc