विष्णुस्मृति · अध्याय 22
अनौरसेषु पुत्रेषु जातेषु च मृतेषु च
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥
वसा शुक्रम् असृङ् मज्जा मूत्रं विट् कर्णविण्नखाः
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा
यथैवैका तथा सर्वा न पातव्या द्विजातिभिः ॥
माधूकम् ऐक्षवं टाङ्कं कौलं खार्जूरपानसे
मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् ॥
अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य च
राजन्यश् चैव वैश्यश् च स्पृष्ट्वैतानि न दुष्यतः ॥
गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरन्
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥
आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम्
निर्हृत्य तु व्रती प्रेतान् न व्रतेन वियुज्यते ॥
आदिष्टी नोदकं कुर्याद् आ व्रतस्य समापनात्
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥
ज्ञानं तपो ऽग्निर् आहारो मृन्मनो वार्युपाञ्जनम्
वायुः कर्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम् ॥
सर्वेषाम् एव शौचानाम् अन्नशौचं परं स्मृतम्
यो ऽन्ने शुचिः स हि शुचिर् न मृद्वारिशुचिः शुचिः ॥
क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥
मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥
अद्भिर् गात्राणि शुध्यन्ति मनः सत्येन शुध्यति
विद्यातपोभ्यां भूतात्मा बुद्धिर् ज्ञानेन शुध्यति ॥
एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः
नानाविधानां द्रव्याणां शुद्धेः शृणु विनिर्णयम् ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0