भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 20

20.22

एवम् अस्मिन् निरालम्बे काले सततयायिनि
न तद्भूतं प्रपश्यामि स्थितिर् यस्य भवेद् ध्रुवा ॥

20.23

गङ्गायाः सिकता धारास् तथा वर्षति वासवे
शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥

20.24

चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः
सर्वलोकप्रधानाश् च मनवश् च चतुर्दश ॥

20.25

बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च
विनष्तानीह कालेन मनुजेष्व् अथ का कथा ॥

20.26

राजर्षयश् च बहवः सर्वैः समुदिता गुणैः
देवा ब्रह्मर्षयश् चैव कालेन निधनं गताः ॥

20.27

ये समर्था जगत्य् अस्मिन् सृष्टिसंहारकारणे
ते ऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः ॥

20.28

आक्रम्य सर्वः कालेन परलोकं च नीयते
कर्मपाशवशो जन्तुस् तत्र का परिदेवना ॥

20.29

जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च
अर्थे दुष्परिहार्ये ऽस्मिन् नास्ति लोके सहायता ॥

20.30

शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः
अतो न रोदितव्यं हि क्रिया कार्या स्वशक्तितः ॥

20.31

सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः
बान्धवैस् तस्य किं कार्यं शोचद्भिर् अथ वा न वा ॥

20.32

बान्धवानाम् अशौचे तु स्थितिं प्रेतो न विन्दति
अतस् त्व् अभ्येति तान् एव पिण्डतोयप्रदायिनः ॥

20.33

अर्वाक् सपिण्दीकरणात् प्रेतो भवति यो मृतः
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥

20.34

पितृलोकगतश् चान्नं श्राद्धे भुङ्क्ते स्वधासमम्
पितृलोकगतस्यास्य तस्माच् छ्राद्धं प्रयच्छत ॥

20.35

देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च
मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः ॥

20.36

प्रेतस्य श्राद्धकर्तुश् च पुष्टिः श्राद्धे कृते ध्रुवम्
तस्माच् छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥

20.37

एतावद् एव कर्तव्यं सदा प्रेतस्य बन्धुभिः
नोपकुर्यान् नरः शोचन् प्रेतस्यात्मन एव च ॥

20.38

दृष्ट्वा लोकम् अनाक्रन्दं म्रियमाणांश् च बान्धवान्
धर्मम् एकं सहायार्थं वरयध्वं सदा नराः ॥

20.39

मृतो ऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम्
जायावर्जं हि सर्वस्य याम्यः पन्था विरुध्यते ॥

20.40

धर्म एको ऽनुयात्य् एनं यत्र क्वचन गामिनम्
नन्व् असारे नृलोके ऽस्मिन् धर्मं कुरुत मा चिरम् ॥

20.41

श्वः कार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
न हि प्रतीक्षते मृत्युः कृतं वास्य न वाकृतम् ॥

20.42

क्षेत्रापणगृहासक्तम् अन्यत्र गतमानसम्
वृकीवोरणम् आसाद्य मृत्युर् आदाय गच्छति ॥

20.43

न कालस्य प्रियः कश्चिद् द्वेष्यश् चास्य न विद्यते
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥

20.44

नाप्राप्तकालो म्रियते विद्धः शरशतैर् अपि
कुशाग्रेणापि संष्पृष्टः प्राप्तकालो न जीवति ॥

20.45

नौशधानि न मन्त्राश् च न होमा न पुनर् जपाः
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ॥

20.46

आगामिनम् अनर्थं हि प्रविधानशतैर् अपि
न निवारयितुं शक्तस् तत्र का परिदेवना ॥

20.47

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्
तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ॥

20.48

अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्य् अथ
अव्यक्तनिधनान्य् एव तत्र का परिदेवना ॥

20.49

देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा
तह्ता देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति ॥

20.50

गृह्णातीह यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः
गृह्णात्य् एवं नवं देही देहं कर्मनिबन्धनम् ॥

20.51

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥

20.52

अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च
नित्यः सततगः स्थाणुर् अचलो ऽयं सनातनः ॥

20.53

अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते
तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हथ ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc