ग्रंथ पाठ
विष्णुस्मृति · अध्याय 19
19.22
ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः
ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते क्वचित् ॥
19.23
यद् ब्राह्मणास् तुष्टतमा वदन्ति तद् देवताः प्रत्यभिनन्दयन्ति
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥
19.24
दुःखान्वितानां मृतबान्धवानाम् आश्वासनं कुर्युर् अदीनसत्त्वाः
वाक्यैस् तु यैर् भूमि तवाभिधास्ये वाक्यान्य् अहं तानि मनो ऽभिरामे ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0