विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.4
कंसस् ततौद्विग्नमनाः प्राह सर्वान् महासुरान्
प्रलम्बकेशिप्रमुखान् आहूयासुरपुंगवान् ॥
हे प्रलम्ब महाबाहो केशिन् धेनुक पूतने
अरिष्टाद्यैस् तथा चान्यैः श्रूयतां वचनं मम ॥
मां हन्तुम् अमरैर् यत्नः कृतः किल दुरात्मभिः
मद्वीर्यतापितैर् वीरा न त्व् एतान् गणयाम्य् अहम् ॥
किम् इन्द्रेणाल्पवीर्येण किं हरेणैकचारिणा
हरिणा वापि किं साध्यं छिद्रेष्व् असुरघातिना ॥
किम् आदित्यैः सवसुभिर् अल्पवीर्यैः किम् अग्निभिः
किं वान्यैर् अमरैः सर्वैर् मद्बाहुबलनिर्जितैः ॥
किं न दृष्टो ऽमरपतिर् मया संयुगम् एत्य सः
पृष्ठेनैव वहन् बाणान् अपागच्छन् न वक्षसा ॥
मद्राष्ट्रे वारिता वृष्टिर् यदा शक्रेण किं तदा
मद्बाणभिन्नैर् जलदैर् आपो मुक्ता यथेप्सिताः ॥
किम् उर्व्याम् अवनीपाला मद्बाहुबलभीरवः
न सर्वे सन्नतिं याता जरासंधम् ऋते गुरुम् ॥
अमरेषु ममावज्ञा जायते दैत्यपुंगवाः
हास्यं मे जायते वीरास् तेषु यत्नपरेष्व् अपि ॥
तथापि खलु दुष्टानां तेषाम् अभ्यधिकं मया
अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥
तद् ये तपस्विनः केचित् पृथिव्यां ये च यज्विनः
कार्यो देवापकाराय तेषां सर्वात्मना वधः ॥
उत्पन्नश् चापि मृत्युर् मे भूतपूर्वश् च मे किल
इत्य् एतद् बालिका प्राह देवकीगर्भसंभवा ॥
तस्माद् बालेषु परमो यत्नः कार्यो महीतले
यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥
इत्य् आज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः
मुमोच वसुदेवं च देवकीं च निरोधतः ॥
युवयोर् घातिता गर्भा वृथैवैते मयाधुना
को ऽप्य् अन्य एव नाशाय बालो मम समुद्गतः ॥
तद् अलं परितापेन नूनं तद् भाविनो हि ते
अर्भका युवयोः को वा नायुषो ऽन्ते विहन्यते ॥
इत्य् आश्वास्य विमुक्त्वा च कंसस् तौ परिशङ्कितः
अन्तर्गृहं द्विजश्रेष्ठ प्रविवेश पुनः स्वकम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0