भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.3

5.3.1

एवं संस्तूयमाना सा देवैर् देवम् अधारयत्
गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम् ॥

5.3.2

ततो ऽखिलजगत्पद्म बोधायाच्युतभानुना
देवकीपूर्वसंध्यायाम् आविर्भूतं महात्मना ॥

5.3.3

तज्जन्मदिनम् अत्यर्थम् आह्लाद्य् अमलदिङ्मुखम्
बभूव सर्वलोकस्य कौमुदी शशिनो यथा ॥

5.3.4

सन्तः संतोषम् अधिकं प्रशमं चण्डमारुताः
प्रसादं निम्नगा याता जायमाने जनार्दने ॥

5.3.5

सिन्धवो निजशब्देन वाद्यं चक्रुर् मनोहरम्
जगुर् गन्धर्वपतयो ननृतुश् चाप्सरोगणाः ॥

5.3.6

ससृजुः पुष्पवर्षाणि देवा भुव्य् अन्तरिक्षगाः
जज्वलुश् चाग्नयः शान्ता जायमाने जनार्दने ॥

5.3.7

मध्यरात्रे ऽखिलाधारे जायमाने जनार्दने
मन्दं जगर्जुर् जलदाः पुष्पवृष्टिमुचो द्विज ॥

5.3.8

फुल्लेन्दीवरपत्राभं चतुर्बाहुम् उदीक्ष्य तम्
श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥

5.3.9

अभिष्टूय च तं वाग्भिः प्रसन्नाभिर् महामतिः
विज्ञापयाम् आस तदा कंसाद् भीतो द्विजोत्तम ॥

5.3.10

ज्ञातो ऽसि देवदेवेश शङ्खचक्रगदाधरम्
दिव्यं रूपम् इदं देव प्रसादेनोपसंहर ॥

5.3.11

अद्यैव देव कंसो ऽयं कुरुते मम यातनाम्
अवतीर्णम् इति ज्ञात्वा त्वम् अस्मिन् मम मन्दिरे ॥

5.3.12

यो ऽनन्तरूपो ऽखिलविश्वरूपो गर्भे ऽपि लोकान् वपुषा बिभर्ति
प्रसीदताम् एष स देवदेवः स्वमाययाविष्कृतबालरूपः ॥

5.3.13

उपसंहर सर्वात्मन् रूपम् एतच् चतुर्भुजम्
जानातु मावतारं ते कंसो ऽयं दितिजात्मजः ॥

5.3.14

स्तुतो ऽहं यत् त्वया पूर्वं पुत्रार्थिन्या तद् अद्य ते
सफलं देवि संजातं जातो ऽहं यत् तवोदरात् ॥

5.3.15

इत्य् उक्त्वा भगवांस् तूष्णीं बभूव मुनिसत्तम
वसुदेवो ऽपि तं रात्राव् आदाय प्रययौ बहिः ॥

5.3.16

मोहिताश् चाभवंस् तत्र रक्षिणो योगनिद्रया
मथुराद्वारपालाश् च व्रजत्य् आनकदुन्दुभौ ॥

5.3.17

वर्षतां जलदानां च तोयम् अत्युल्बणं निशि
संच्छाद्यानुययौ शेषः फणैर् आनकदुन्दुभिम् ॥

5.3.18

यमुनां चातिगम्भीरां नानावर्तशताकुलाम्
वसुदेवो वहन् विष्णुं जानुमात्रवहां ययौ ॥

5.3.19

कंसस्य करम् आदाय तत्रैवाभ्यागतांस् तटे
नन्दादीन् गोपवृद्धांश् च यमुनायां ददर्श सः ॥

5.3.20

तस्मिन् काले यशोदापि मोहिता योगनिद्रया
ताम् एव कन्यां मैत्रेय प्रसूता मोहिते जने ॥

5.3.21

वसुदेवो ऽपि विन्यस्य बालम् आदाय दारिकाम्
यशोदाशयने तूर्णम् आजगामामितद्युतिः ॥

5.3.22

ददृशे च प्रबुद्धा सा यशोदा जातम् आत्मजम्
नीलोत्पलदलश्यामं ततो ऽत्यर्थं मुदं ययौ ॥

5.3.23

आदाय वसुदेवो ऽपि दारिकां निजमन्दिरे
देवकीशयने न्यस्य यथापूर्वम् अतिष्ठत ॥

5.3.24

ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः
कंसायावेदयाम् आसुर् देवकीप्रसवं द्विज ॥

5.3.25

कंसस् तूर्णम् उपेत्यैनां ततो जग्राह बालिकाम्
मुञ्च मुञ्चेति देवक्या सन्नकण्ठ्या निवारितः ॥

5.3.26

चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम्
अवाप रूपं च महत् सायुधाष्टमहाभुजम् ॥

5.3.27

प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत्
किं मया क्षिप्तया कंस जातो यस् त्वां वधिष्यति ॥

5.3.28

सर्वस्वभूतो देवानाम् आसीन् मृत्युः पुरा स ते
तद् एतत् संप्रधार्याशु क्रियतां हितम् आत्मनः ॥

5.3.29

इत्य् उक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा
पश्यतो भोजराजस्य स्तुता सिद्धैर् विहायसा ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc