भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.25

5.25.1

वने विचरतस् तस्य सह गोपैर् महात्मनः
मानुषछद्मरूपस्य शेषस्य धरणीभृतः ॥

5.25.2

निष्पादितोरुकार्यस्य कार्येणोर्वीविचारिणः
उपभोगार्थम् अत्यर्थं वरुणः प्राह वारुणीम् ॥

5.25.3

अभीष्टा सर्वदा यस्य मदिरे त्वं महौजसः
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥

5.25.4

इत्य् उक्ता वारुणी तेन संनिधानम् अथाकरोत्
वृन्दावनवनोत्पन्न कदम्बतरुकोटरे ॥

5.25.5

विचरन् बलदेवो ऽपि मदिरागन्धम् उत्तमम्
आघ्राय मदिरातर्षम् अवापाथ पुरातनम् ॥

5.25.6

ततः कदम्बात् सहसा मद्यधारां स लाङ्गली
पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥

5.25.7

पपौ च गोपगोपीभिः समवेतो मुदान्वितः
प्रगीयमानो ललितं गीतवाद्यविशारदैः ॥

5.25.8

स मत्तो ऽत्यन्तघर्माम्भः कणिकामौक्तिकोज्ज्वलः
आगच्छ यमुने स्नातुम् इच्छामीत्य् आह विह्वलः ॥

5.25.9

तस्य वाचं नदी सा तु मत्तोक्ताम् अवमन्य वै
नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ॥

5.25.10

गृहीत्वा तां तटे तेन चकर्ष मदविह्वलः
पापे नायासि नायासि गम्यताम् इच्छयान्यतः ॥

5.25.11

साकृष्टा सहसा तेन मार्गं संत्यज्य निम्नगा
यत्रास्ते बलभद्रो ऽसौ प्लावयाम् आस तद् वनम् ॥

5.25.12

शरीरिणी तथोपेत्य त्रासविह्वललोचना
प्रसीदेत्य् अब्रवीद् रामं मुञ्च मां मुसलायुध ॥

5.25.13

सो ऽब्रवीद् अवजानासि मम शौर्यबले नदि
सो ऽहं त्वां हलपातेन विनेष्यामि सहस्रधा ॥

5.25.14

इत्य् उक्तयातिसंत्रासात् तया नद्या प्रसादितः
भूभागे प्लाविते तस्मिन् मुमोच यमुनां बलः ॥

5.25.15

ततः स्नातस्य वै कान्तिर् आजगाम महात्मनः
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ॥

5.25.15*46:1

ततो व्यमुञ्चद् यमुनां याचितो भगवान् बलः ॥

5.25.15*46:2

विजगाह जलं स्त्रीभिः करौर(करिणी)भिर् इवेभराट् ॥

5.25.15*46:3

कामं विहृत्य सलिलाद् उत्तीर्णायासिताम्बरे ॥

5.25.15*46:4

भूषणानि महार्घाणि ददौ कान्तिशुभां स्रजम् ॥

5.25.16

वरुणप्रहितां चास्मै मालाम् अम्लानपङ्कजाम्
समुद्राभे तथा वस्त्रे नीले लक्ष्मीर् अयच्छत ॥

5.25.17

कृतावतंसः स तदा चारुकुण्डलभूषितः
नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः ॥

5.25.18

इत्थं विभूषितो रेमे तत्र रामस् तदा व्रजे
मासद्वयेन यातश् च पुनः स द्वारकां पुरीम् ॥

5.25.19

रेवतीं नाम तनयां रैवतस्य महीपतेः
उपयेमे बलस् तस्यां जज्ञाते निशठोल्मुकौ ॥

5.25.19*47:1

वसित्वा वाससी नीले मालाम् आमुच्यकाञ्चनीम् ॥

5.25.19*47:2

रेजे स्वलंकृतिलिप्तो माहेन्द्र इव वारणः ॥

5.25.19*47:3

अद्यापि दृश्यते राजन् यमुनाकृष्टवर्त्मना ॥

5.25.19*47:4

बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥

5.25.19*47:5

एवं सर्वा निशा याता एकैव रमरो ((रेमिरे)) व्रजे ॥

5.25.19*47:6

रामस्याक्षिप्तचित्तस्य माधुर्यैर् व्रजयोषिताम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc