विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.15
ककुद्मिनि हते ऽरिष्टे धेनुके विनिपातिते
प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥
दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये
हतायां पूतनायां च शकटे परिवर्तिते ॥
कंसाय नारदः प्राह यथावृत्तम् अनुक्रमात्
यशोदादेवकीगर्भ परिवर्ताद्य् अशेषतः ॥
श्रुत्वा तत् सकलं कंसो नारदाद् देवदर्शनात्
वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः ॥
सो ऽतिकोपाद् उपालभ्य सर्वयादवसंसदि
जगर्ह यादवांश् चैव कार्यं चैतद् अचिन्तयत् ॥
यावन् न बलम् आरूढौ रामकृष्णौ सुबालकौ
तावद् एव मया वध्याव् असाध्यौ रूढयौवनौ ॥
चाणूरो ऽत्र महावीर्यो मुष्टिकश् च महाबलः
एताभ्यां मल्लयुद्धेन घातयिष्यामि दुर्मदौ ॥
धनुर्महमहायाग व्याजेनानीय तौ व्रजात्
तथा तथा यतिष्यामि यास्येते संक्षयं यथा ॥
श्वफल्कतनयं सो ऽहम् अक्रूरं यदुपुंगवम्
तयोर् आनयनार्थाय प्रेषयिष्यामि गोकुलम् ॥
वृन्दावनचरं घोरम् आदेक्ष्यामि च केशिनम्
तत्रैवासाव् अतिबलस् ताव् उभौ घातयिष्यति ॥
गजः कुवलायापीडो मत्समीपम् उपागतौ
घातयिष्यति वा गोपौ वसुदेवसुताव् उभौ ॥
इत्य् आलोच्य स दुष्टात्मा कंसो रामजनार्दनौ
हन्तुं कृतमतिर् वीरम् अक्रूरं वाक्यम् अब्रवीत् ॥
भो भो दानपते वाक्यं क्रियतां प्रीतये मम
इतः स्यन्दनम् आरुह्य गम्यतां नन्दगोकुलम् ॥
वसुदेवसुतौ तत्र विष्णोर् अंशसमुद्भवौ
नाशाय किल संभूतौ मम दुष्टौ प्रवर्धतः ॥
धनुर्महो ममाप्य् अत्र चतुर्दश्यां भविष्यति
आनेयौ भवता गत्वा मल्लयुद्धाय ताव् उभौ ॥
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम
ताभ्यां सहानयोर् युद्धं सर्वलोको ऽत्र पश्यतु ॥
नागः कुवलयापीडो महामात्रप्रचोदितः
स वा हनिष्यते पापौ वसुदेवात्मजौ शिशू ॥
तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम्
हनिष्ये पितरं चेमम् उग्रसेनं च दुर्मतिम् ॥
ततः समस्तगोपानां गोधनान्य् अखिलान्य् अहम्
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥
त्वाम् ऋते यादवाश् चैते दुष्टा दानपते मयि
एतेषां च वधायाहं यतिष्ये ऽनुक्रमात् ततः ॥
ततो निष्कण्टकं सर्वं राज्यम् एतद् अयादवम्
प्रशासिष्ये त्वया तस्मान् मत्प्रीत्या वीर गम्यताम् ॥
यथा च माहिषं सर्पिर् दधि चाप्य् उपहार्य वै
गोपाः समानयन्त्य् आशु त्वया वाच्यास् तथा तथा ॥
इत्य् आज्ञप्तस् तदाक्रूरो महाभागवतो द्विज
प्रीतिमान् अभवत् कृष्णं श्वो द्रक्ष्यामीति सत्वरः ॥
तथेत्य् उक्त्वा च राजानं रथम् आरुह्य शोभनम्
निश्चक्राम तदा पुर्या मथुराया मधुप्रियः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0