भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.16

5.16.1

केशी चापि बलोदग्रः कंसदूतप्रचोदितः
कृष्णस्य निधनाकाङ्क्षी वृन्दावनम् उपागमत् ॥

5.16.2

स खुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः
प्लुतविक्रान्तचन्द्रार्क मार्गो गोपान् उपाद्रवत् ॥

5.16.3

तस्य हेषितशब्देन गोपाला दैत्यवाजिनः
गोप्यश् च भयसंविग्ना गोविन्दं शरणं ययुः ॥

5.16.4

त्राहि त्राहीति गोविन्दः श्रुत्वा तेषां तदा वचः
सतोयजलदध्वान गम्भीरम् इदम् उक्तवान् ॥

5.16.5

अलं त्रासेन गोपालाः केशिनः किं भयातुरैः
भवद्भिर् गोपजातीयैर् वीरवीर्यं विलोप्यते ॥

5.16.6

किम् अनेनाल्पसारेण हेषिताटोपकारिणा
दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥

5.16.7

एह्य् एहि दुष्ट कृष्णो ऽहं पूष्णोर् इव पिनाकधृत्
पातयिष्यामि दशनान् वदनाद् अखिलांस् तव ॥

5.16.8

इत्य् उक्त्वास्फोट्य गोविन्दः केशिनः संमुखं ययौ
विवृतास्यस् तु सो ऽप्य् एनं दैतेयाश्व उपाद्रवत् ॥

5.16.9

बाहुम् आभोगिनं कृत्वा मुखे तस्य जनार्दनः
प्रवेशयाम् आस तदा केशिनो दुष्टवाजिनः ॥

5.16.10

केशिनो वदनं तेन विशता कृष्णबाहुना
शातिता दशनाः पेतुः सिताभ्रावयवा इव ॥

5.16.11

कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विज
विनाशाय यथा व्याधिर् आसंभूतेर् उपेक्षितः ॥

5.16.12ab

विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन् ॥

5.16.12cd

सो ऽक्षिणी विवृते चक्रे निःसृते मुक्तबन्धने ॥

5.16.13

जघान धरणीं पादैः शकृन्मूत्रं समुत्सृजन्
स्वेदार्द्रगात्रः श्रान्तश् च निर्यत्नः सो ऽभवत् ततः ॥

5.16.14

व्यादितास्यो महारौद्रः सो ऽसुरः कृष्णबाहुना
निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः ॥

5.16.15

द्विपादपृष्ठपुच्छार्ध श्रवणैकाक्षिनासिके
केशिनस् ते द्विधाभूते शकले द्वे विरेजतुः ॥

5.16.16

हत्वा तु केशिनं कृष्णो गोपालैर् मुदितैर् वृतः
अनायस्ततनुः स्वस्थो हसंस् तत्रैव तस्थिवान् ॥

5.16.17

ततो गोप्यश् च गोपाश् च हते केशिनि विस्मिताः
तुष्टुवुः पुण्डरीकाक्षम् अनुरागमनोरमम् ॥

5.16.18

अथाहान्तरितो विप्रो नारदो जलदे स्थितः
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥

5.16.19

साधु साधु जगन्नाथ लीलयैव यद् अच्युत
निहतो ऽयं त्वया केशी क्लेशदस् त्रिदिवौकसाम् ॥

5.16.20

युद्धोत्सुको ऽहम् अत्यर्थं नरवाजिमहाहवम्
अवृत्तपूर्वम् अन्यत्र द्रष्टुं स्वर्गाद् उपागतः ॥

5.16.21

स्वकर्माण्य् अवतारे ते कृतानि मधुसूदन
यानि तैर् विस्मितं चेतस् तोषम् एतेन मे गतम् ॥

5.16.22

तुरगस्यास्य शक्रो ऽपि कृष्ण देवाश् च बिभ्यति
धूतकेसरजालस्य ह्रेषतो ऽभ्रावलोकिनः ॥

5.16.23

यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन
तस्मात् केशवनाम्ना त्वं लोके ख्यातो भविष्यसि ॥

5.16.24

स्वस्त्य् अस्तु ते गमिष्यामि कंसयुद्धे ऽधुना पुनः
परश्वो ऽहं समेष्यामि त्वया केशिनिषूदन ॥

5.16.25

उग्रसेनसुते कंसे सानुगे विनिपातिते
भारावतारकर्ता त्वं पृथिव्याः पृथिवीधर ॥

5.16.26

तत्रानेकप्रकाराणि युद्धानि पृथिवीक्षिताम्
द्रष्टव्यानि मया युष्मत् प्रणीतानि जनार्दन ॥

5.16.27

सो ऽहं यास्यामि गोविन्द देवकार्यं महत् कृतम्
त्वया सभाजितश् चाहं स्वस्ति ते ऽस्तु व्रजाम्य् अहम् ॥

5.16.28

नारदे तु गते कृष्णः सह गोपैर् अविस्मितः
विवेश गोकुलं गोपी नेत्रपानैकभाजनम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc