विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.10
अशीतिमण्डलशतं काष्ठयोर् अन्तरं द्वयोः
आरोहणावरोहाभ्यां भानोर् अब्देन या गतिः ॥
स रथो ऽधिष्ठितो देवैर् आदित्यै ऋषिभिस् तथा
गन्धर्वैर् अप्सरोभिश् च ग्रामणीसर्पराक्षसैः ॥
धाता कृतस्थला चैव पुलस्त्यो वासुकिस् तथा
रथकृद् ग्रामणीर् हेतिस् तुम्बुरुश् चैव सप्तमः ॥
एते वसन्ति वै चैत्रे मधुमासे सदैव हि
मैत्रेय स्यन्दने भानोः सप्त मासाधिकारिणः ॥
अर्यमा पुलहश् चैव रथौजाः पुञ्जिकस्थला
प्रहेतिः कच्छनीरश् च नारदश् च रथे रवेः ॥
माधवे निवसन्त्य् एते शुचिसंज्ञे निबोध मे ॥
मित्रो ऽत्रिस् तक्षको रक्षः पौरुषेयो ऽथ मेनका
हाहा रथस्वनश् चैव मैत्रेयैते वसन्ति वै ॥
वरुणो वसिष्ठो रम्भा सहजन्या हुहू रथः
रथचित्रस् तथा शुक्रे वसन्त्य् आषाढसंज्ञिते ॥
इन्द्रो विश्वावसुः स्रोत एलापत्रस् तथाङ्गिराः
प्रम्लोचा च नभस्य् एते सर्पश् चार्के वसन्ति वै ॥
विवस्वान् उग्रसेनश् च भृगुर् आपूरणस् तथा
उम्लोचा शङ्खपालश् च व्याघ्रो भाद्रपदे तथा ॥
पूषा च सुरुचिर् वातो गौतमो ऽथ धनंजयः
सुषेणो ऽन्यो घृताची च वसन्त्य् आश्वयुजे रवौ ॥
विश्वावसुर् भरद्वाजः पर्जन्यैरावतौ तथा
विश्वाची सेनजिच् चापि कार्त्तिके चाधिकारिणः ॥
अंशुकाश्यपतार्क्ष्यास् तु महापद्मस् तथोर्वशी
चित्रसेनस् तथा विद्युन् मार्गशीर्षाधिकारिणः ॥
क्रतुर् भगस् तथोर्णायुः स्फूर्जः कर्कोटकस् तथा
अरिष्टनेमिश् चैवान्या पूर्वचित्तिर् वराप्सराः ॥
पौषमासे वसन्त्य् एते सप्त भास्करमण्डले
लोकप्रकाशनार्थाय विप्रवर्याधिकारिणः ॥
त्वष्टा च जमदग्निश् च कम्बलो ऽथ तिलोत्तमा
ब्रह्मापेतो ऽथ ऋतजिद् धृतराष्ट्रश् च सप्तमः ॥
माघमासे वसन्त्य् एते सप्त मैत्रेय भास्करे
श्रूयतां चापरे सूर्ये फाल्गुने निवसन्ति ये ॥
विष्णुर् अश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित्
विश्वामित्रस् तथा रक्षो यज्ञोपेतो महामुने ॥
मासेष्व् एतेषु मैत्रेय वसन्त्य् एते तु सप्तकाः
सवितुर् मण्डले ब्रह्मन् विष्णुशक्त्युपबृंहिताः ॥
स्तुवन्ति मुनयः सूर्यं गन्धर्वैर् गीयते पुरः
नृत्यन्त्य् अप्सरसो यान्ति सूर्यस्यानु निशाचराः ॥
वहन्ति पन्नगा यक्षैः क्रियते ऽभीषुसंग्रहः ॥
वालखिल्यास् तथैवैनं परिवार्य समासते ॥
सो ऽयं सप्तगणः सूर्य मण्डले मुनिसत्तम
हिमोष्णवारिवृष्टीनां हेतुः स्वसमयं गतः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0