भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 181200

क्षत्रियो वाथवा वैश्यो__व्ध_057.001
निसर्गाद् एव जायते__व्ध_057.001
दुष्कृतेन तु दुष्टात्मा__व्ध_057.002
स्थानाद् भ्रश्यति मानवः__व्ध_057.002
श्रेष्ठं स्थानं समासाद्य__व्ध_057.002
तस्माद् रक्षेत पण्डितः__व्ध_057.002
यस् तु विप्रत्वम् उत्सृज्य__व्ध_057.003
क्षत्रियत्वं निषेवते__व्ध_057.003
ब्राह्मण्यात् स परिभ्रष्टः__व्ध_057.003
क्षत्रयोन्यां प्रसूयते__व्ध_057.003
वैश्यकर्माणि वा कुर्वन्__व्ध_057.004
वैश्ययोनौ प्रजायते__व्ध_057.004
शूद्रकर्माणि कुर्वाणः__व्ध_057.004
शूद्रत्वम् उपपद्यते__व्ध_057.004
स तत्र दुर्गतिं प्राप्य__व्ध_057.005
स्थानाद् भ्रष्टो युधिष्ठिर__व्ध_057.005
शूद्रयोनिम् अनुप्राप्तो__व्ध_057.005
यदि धर्मं न सेवते__व्ध_057.005
मानुष्यात् स परिभ्रष्टस्__व्ध_057.006
तिर्यग्योनौ प्रजायते__व्ध_057.006
अधर्मसेवनान् मूढस्__व्ध_057.006
तमोपहतचेतनः__व्ध_057.006
जात्यन्तरसहस्राणि__व्ध_057.007
तत्रैव परिवर्तते__व्ध_057.007
तस्मात् प्राप्य शुभं स्थानं__व्ध_057.007
प्रमादान् न तु नाशयेत्__व्ध_057.007
शूद्रान्नेनावशेषेण__व्ध_057.008
यो म्रियेज् जठरे द्विजः__व्ध_057.008
आहिताग्निस् तथा यज्वा__व्ध_057.008
स शूद्रगतिभाग् भवेत्__व्ध_057.008
क्षत्रान्नेनावशेषेण__व्ध_057.009
क्षत्रत्वम् उपपद्यते__व्ध_057.009
वैश्यान्नेनावशेषेण__व्ध_057.009
वैश्यत्वम् उपपद्यते__व्ध_057.009
तां योनिं लभते विप्रो__व्ध_057.009
भुक्त्वान्नं यस्य वै मृतः__व्ध_057.009
ब्राह्मणत्वं शुभं प्राप्य__व्ध_057.010
दुर्लभं यो ऽवमन्यते__व्ध_057.010
भोज्याभोज्यं न जानाति__व्ध_057.010
स भवेत् क्षत्रियो द्विजः__व्ध_057.010

कर्मणा येन मेधावी__व्ध_057.011
शूद्रो वैश्यो ऽभिजायते__व्ध_057.011
तत् ते वक्ष्यामि निखिलं__व्ध_057.011
येन वर्णोत्तमो भवेत्__व्ध_057.011
शूद्रकर्म यथोद्दिष्टं__व्ध_057.012
शूद्रो भूत्वा समाचरेत्__व्ध_057.012
यथावत् परिचर्यां तु__व्ध_057.012
त्रिषु वर्णेषु नित्यदा__व्ध_057.012
कुरुते ऽविमना यस् तु__व्ध_057.012
स शूद्रो वैश्यतां व्रजेत्__व्ध_057.012
क्षत्रियत्वं यथा वैश्यस्__व्ध_057.013
तद् वक्ष्याम्य् अनुपूर्वशः__व्ध_057.013
चौक्षः पापजनद्वेष्टा__व्ध_057.013
शेषान्नकृतभोजनः__व्ध_057.013
अग्निहोत्रम् उपादाय__व्ध_057.014
जुह्वानश् च यथाविधि__व्ध_057.014
स वैश्यः क्षत्रियकुले__व्ध_057.014
जायते नात्र संशयः__व्ध_057.014
क्षत्रियो ब्रह्मयोन्यां तु__व्ध_057.015
जायते शृणु तद् यथा__व्ध_057.015
ददाति यजते यज्ञैर्__व्ध_057.015
विधिवच् चाप्तदक्षिणैः__व्ध_057.015
अधीते स्वर्गम् अन्विच्छंस्__व्ध_057.015
त्रेताग्निशरणः सदा__व्ध_057.015
आर्तहस्तप्रदो नित्यं__व्ध_057.016
प्रजा धर्मेण पालयन्__व्ध_057.016
ऋतुकाले तु स्वां भार्याम्__व्ध_057.016
अभिगच्छन् विधानतः__व्ध_057.016
सर्वातिथ्यं त्रिवर्गस्य__व्ध_057.017
दीयतां भुज्यताम् इति__व्ध_057.017
शूद्राणां याचकानां च__व्ध_057.017
नित्यं सिद्धिम् इति ब्रुवन्__व्ध_057.017
गोब्राह्मणस्य चार्थाय__व्ध_057.018
रणे चाभिमुखो हतः__व्ध_057.018
त्रेताग्निमन्त्रपूतात्मा__व्ध_057.018
क्षत्रियो ब्राह्मणो भवेत्__व्ध_057.018
विधिज्ञः क्षत्रियकुले__व्ध_057.018
याजकः स तु जायते__व्ध_057.018
प्राप्यते ऽविकलः स्वर्गो__व्ध_057.019
वर्णैः सत्पथम् आस्थितैः__व्ध_057.019

ब्राह्मणत्वं सुदुष्प्रापं__व्ध_057.019
कृच्छ्रेणासाद्यते नरैः__व्ध_057.019
तस्मात् सर्वप्रयत्नेन__व्ध_057.019
रक्षेद् ब्राह्मण्यम् उत्तमम्__व्ध_057.019
सुवर्णं परमं दानं__व्ध_058.001
सुवर्णं दक्षिणा परा__व्ध_058.001
एतत् पवित्रं परमम्__व्ध_058.001
एतत् स्वस्त्ययनं महत्__व्ध_058.001
दश पूर्वापरान् वंशान्__व्ध_058.002
आत्मानं च विशाम्यते__व्ध_058.002
अपि पापशतं कृत्वा__व्ध_058.002
दत्त्वा विप्रेषु तारयेत्__व्ध_058.002
सुवर्णं ये प्रयच्छन्ति__व्ध_058.003
नराः शुद्धेन चेतसा__व्ध_058.003
देवतास् ते प्रयच्छन्ति__व्ध_058.003
समस्ता इति नः श्रुतम्__व्ध_058.003
अग्निर् हि देवताः सर्वाः__व्ध_058.004
सुवर्णं च हुताशनः__व्ध_058.004
तस्मात् सुवर्णं ददता__व्ध_058.004
दत्ताः सर्वाश् च देवताः__व्ध_058.004
अग्न्यभावे च कुर्वन्ति__व्ध_058.005
वह्निस्थानेषु काञ्चनम्__व्ध_058.005
सर्ववेदप्रमाणज्ञा__व्ध_058.005
वेदश्रुतिनिदर्शनात्__व्ध_058.005
ये त्व् एनं ज्वालयित्वाग्निम्__व्ध_058.006
आदित्योदयनं प्रति__व्ध_058.006
दद्युर् वै व्रतम् उद्दिश्य__व्ध_058.006
सर्वान् कामान् अवाप्नुयुः__व्ध_058.006
सुवर्णदः स्वर्गलोके__व्ध_058.007
कामान् इष्टान् उपाश्नुते__व्ध_058.007
विरजाम्बरसंवीतः__व्ध_058.007
परियाति यतस् ततः__व्ध_058.007
विमानेनार्कवर्णेन__व्ध_058.008
भास्वरेण विराजता__व्ध_058.008
अप्सरोगणसंकीर्णे__व्ध_058.008
भास्वता स्वेन तेजसा__व्ध_058.008
हंसबर्हिणयुक्तेन__व्ध_058.009
कामगेन नरोत्तमः__व्ध_058.009
दिव्यगन्धवहः स्वर्गे__व्ध_058.009
परिगच्छेद् इतस् ततः__व्ध_058.009

तस्मात् स्वशक्त्या दातव्यं__व्ध_058.010
काञ्चनं मानवैर् भुवि__व्ध_058.010
न ह्य् अतः परमं लोके__व्ध_058.010
सद्यः पापविमोचनम्__व्ध_058.010
सुवर्णस्य तु शुद्धस्य__व्ध_058.011
सुवर्णं यः प्रयच्छति__व्ध_058.011
बहून्य् अब्दसहस्राणि__व्ध_058.011
स्वर्गलोके महीयते__व्ध_058.011
लोकांस् तु सृजता पूर्वं__व्ध_059.001
गावः सृष्टाः स्वयंभुवा__व्ध_059.001
प्रीत्यर्थं सर्वभूतानां__व्ध_059.001
तस्मात् ता मातरः स्मृताः__व्ध_059.001
तास् तु दत्त्वा सौरभेयीः__व्ध_059.002
स्वर्गलोके महीयते__व्ध_059.002
तस्मात् ता वर्णयिष्यामि__व्ध_059.002
दानं चासां यथाविधि__व्ध_059.002
यादृशी विधिना येन__व्ध_059.003
दातव्या यादृशाय च__व्ध_059.003
द्विजाय पोषणार्थं तु__व्ध_059.003
होमधेनुकृते न वै__व्ध_059.003
प्रथमा गौरकपिला__व्ध_059.*(70)
द्वितीया गौरपिङ्गला__व्ध_059.*(70)
तृतीया रक्तकपिला__व्ध_059.*(70)
चतुर्थी नीलपिङ्गला__व्ध_059.*(70)
पञ्चमी शुक्लपिङ्गाक्षी__व्ध_059.*(70)
षष्ठी तु शुक्लपिङ्गला__व्ध_059.*(70)
सप्तमी चित्रपिङ्गाक्षी__व्ध_059.*(70)
अष्टमी बभ्रुरोहिणी__व्ध_059.*(70)
नवमी श्वेतपिङ्गाक्षी__व्ध_059.*(70)
दशमी श्वेतपिङ्गला__व्ध_059.*(70)
तादृशा ये ऽप्य् अनड्वाहः__व्ध_059.*(70)
कपिलास् ते प्रकीर्तिताः__व्ध_059.*(70)
ब्राह्मणो वाहयेत् तांस् तु__व्ध_059.*(70)
नान्यो वर्णः कदाचन__व्ध_059.*(70)
धेनुं दत्त्वा सुव्रतां सोपधानां__व्ध_059.004
कल्याणवत्सां च पयस्विनीं च__व्ध_059.004
यावन्ति रोमाणि भवन्ति धेन्वा__व्ध_059.004
दुह्येत कामान् नृप वर्षाणि तावत्__व्ध_059.004
प्रयच्छते यः कपिलां सवत्सां__व्ध_059.005
कांस्योपदोहां कनकाग्रशृङ्गीम्__व्ध_059.005

तैस् तैर् गुणैः काम्दुघा हि भूत्वा__व्ध_059.005
नरं प्रदातारम् उपैति सा गौः__व्ध_059.005
गोसहस्रं तु यो दद्यात्__व्ध_059.006
सर्वकामैर् अलंकृतम्__व्ध_059.006
परां वृद्धिं श्रियं प्राप्य__व्ध_059.006
स्वर्गलोके महीयते__व्ध_059.006
दश चोभयतः प्रेत्य__व्ध_059.007
मातामहपितामहैः__व्ध_059.007
गच्छेत् सुकृतिनां लोकान्__व्ध_059.007
गावो दत्त्वा यथाविधि__व्ध_059.007
दायादलब्धैर् अर्थैर् यो__व्ध_059.008
गवाः क्रीत्वा प्रयच्छति__व्ध_059.008
तस्यापि चाक्षया लोका__व्ध_059.008
भवन्तीह परत्र च__व्ध_059.008
यो द्यूतेन धनं जित्वा__व्ध_059.009
क्रीत्वा गावः प्रयच्छति__व्ध_059.009
स गच्छेद् विरजांल् लोकान्__व्ध_059.009
गोप्रदानफलार्जितान्__व्ध_059.009
प्रतिगृह्य तु यो दद्याद्__व्ध_059.010
गावः शुद्धेन चेतसा__व्ध_059.010
स गत्वा दुर्गमं स्थानम्__व्ध_059.010
अमरैः सह मोदते__व्ध_059.010
यश् चात्मविक्रयं कृत्वा__व्ध_059.011
गावो दद्याद् यथाविधि__व्ध_059.011
स गत्वा विरजांल् लोकान्__व्ध_059.011
सुखं वसति देववत्__व्ध_059.011
संग्रामे यस् तनुं त्यक्त्वा__व्ध_059.012
गावः क्रीत्वा प्रयच्छति__व्ध_059.012
देहविक्रयमूल्यस् ताः__व्ध_059.012
शाश्वताः कामदोहनाः__व्ध_059.012
रूपान्विताः शीलवयोपपन्नाः__व्ध_059.013
सर्वाः प्रशस्ता हि सुगन्धवत्यः__व्ध_059.013
यथा हि गङ्गा सरितां वरिष्ठा__व्ध_059.013
तथार्जुनीनां कपिला वरिष्ठा__व्ध_059.013
अन्तर्जाताः सुक्रयज्ञानलब्धाः__व्ध_059.014
प्राणांस् त्यक्त्वा सोदकाः सोद्वहाश् च__व्ध_059.014
कृच्छ्रोत्सृष्टाः पोषणायाभ्युपेता__व्ध_059.014
द्वारैर् एतैर् गोविशेषा वरिष्ठाः__व्ध_059.014
तिस्रो रात्र्यश् चाप्य् उपोष्येह दाता__व्ध_059.015
तृप्ता गा वै तर्पितेभ्यः प्रयच्छेत्__व्ध_059.015

वत्सैः पीताः सोपधानास् त्र्यहं च__व्ध_059.015
दत्त्वा गा वै गोरसैर् वर्तितव्यम्__व्ध_059.015
लोके ज्येष्ठा लोकवृत्तान्तवृत्ता__व्ध_059.016
वेदैर् गीताः सोमनिष्यन्दभूताः__व्ध_059.016
सौम्याः पुण्याः कामदाः प्राणदाश् च__व्ध_059.016
गावो दत्त्वा सर्वदा सन्ति सन्तः__व्ध_059.016
न चैवासां दानमात्रं प्रशस्तं__व्ध_059.017
पात्रं कालो गोविशेषो विधिश् च__व्ध_059.017
दृष्ट्वा गावः पावकादित्यभूताः__व्ध_059.017
स्वाध्यायाढ्ये पात्रवर्ये विशिष्टे__व्ध_059.017
वैतानस्थं सत्यवाक्यं कृतज्ञं__व्ध_059.018
गोषु क्षान्तं गोशरण्यं सुवृत्तं__व्ध_059.018
शस्तं पात्रं गोप्रदानस्य भूमेस्__व्ध_059.018
तथा सुवर्णस्य च सर्वकालम्__व्ध_059.018
भिक्षादानं चाधिकं संप्रशस्तं__व्ध_059.*(71)
पाथोदानं चान्नदानं तथा च__व्ध_059.*(71)
भिक्षते बहुभृत्याय__व्ध_059.019
श्रोत्रियायाहिताग्नये__व्ध_059.019
दातव्या गौः प्रयत्नेन__व्ध_059.019
एकाप्य् अतिफला हि सा__व्ध_059.019
तां चेद् विक्रीणते राजन्__व्ध_059.020
वचसा कलुषीकृताम्__व्ध_059.020
नासौ प्रशस्यते विप्रो__व्ध_059.020
ब्राह्मणो नैव स स्मृतः__व्ध_059.020
तस्याधर्मप्रवृत्तस्य__व्ध_059.021
लुब्धस्यानृतवादिनः__व्ध_059.021
हव्यकव्यव्यपेतस्य__व्ध_059.021
न देया गौः कथंचन__व्ध_059.021
जीर्णां चैवोपभुक्तां च__व्ध_059.022
जरत्कूपम् इवाफलाम्__व्ध_059.022
तमः प्रविशते दाता__व्ध_059.022
द्विजं क्लेशेन योजयन्__व्ध_059.022
दुष्टाः कृशाश् चैव पालयतीश् च__व्ध_059.023
नैतादृशा दानयोग्या भवन्ति__व्ध_059.023
क्लेशैर् विप्रं यो ऽफलैः संयुनक्ति__व्ध_059.023
गच्छेत् स तिर्यग् विफलांश् च लोकान्__व्ध_059.023
अनड्वाहं सुव्रतं यो ददाति__व्ध_059.024
हलस्य वोढारम् अनन्तवीर्यम्__व्ध_059.024
युगंधरं बलवन्तं युवानं__व्ध_059.024
प्राप्नोति लोकान् दशधेनुदस्य__व्ध_059.024

प्रयच्छते यः पुरुषो द्विजाय__व्ध_059.025
स्वाध्यायचारित्रगुणान्विताय__व्ध_059.025
बलेन युक्तं वृषभं तु नीलं__व्ध_059.025
षडाङ्गवं प्रीतिकरं सुरूपम्__व्ध_059.025
युवानं बलिनं श्यामं__व्ध_059.026
शतेन सह यूथपम्__व्ध_059.026
गवेन्द्रं ब्राह्मणेन्द्राय__व्ध_059.026
भूरिशृङ्गम् अलंकृतम्__व्ध_059.026
वृषभं ये प्रयच्छन्ति__व्ध_059.027
श्रोत्रियायाहिताग्नये__व्ध_059.027
ते गत्वा तद्गवां लोकं__व्ध_059.*(72)
देवलोकान् महत्तरम्__व्ध_059.*(72)
तत्र स्थित्वा तु सुचिरं__व्ध_059.*(72)
सर्वकामैः सुतर्पिताः__व्ध_059.*(72)
ऐश्वर्ये ते ऽभिजायन्ते__व्ध_059.027
जायमानाः पुनः पुनः__व्ध_059.027
सदक्षिणां काञ्चनरूप्यशृङ्गीं__व्ध_059.028
कांस्योपदोहां कनकोत्तरीयाम्__व्ध_059.028
धेनुं तिलानां कनकोत्तरीयाम्__व्ध_059.028
लोका वसूनाम् अचला भवन्ति__व्ध_059.028
तिलालाभे तु यो दद्याद्__व्ध_059.029
घृतधेनुं यतव्रतः__व्ध_059.029
स दुर्गात् तारितो धेन्वा__व्ध_059.029
ब्रह्मलोके महीयते__व्ध_059.029
घृतालाभे तु यो दद्याज्__व्ध_059.030
जलधेनुं यतव्रतः__व्ध_059.030
स सर्वं तरते दुर्गं__व्ध_059.030
जलं दिव्यं समश्नुते__व्ध_059.030
ब्राह्मणाश् चैव गावश् च__व्ध_059.031
कुलम् एकं द्विधाकृतम्__व्ध_059.031
एकत्र मन्त्रास् तिष्ठन्ति__व्ध_059.031
हविर् एकत्र तिष्ठति__व्ध_059.031
उपगम्य तु यो दद्याद्__व्ध_059.032
गावः शुद्धेन चेतसा__व्ध_059.032
यावन्ति तासां रोमाणि__व्ध_059.032
तावत् स्वर्गे महीयते__व्ध_059.032
शृणु त्वं मे गवां लोका__व्ध_059.033
यादृशा यत्र वा स्थिताः__व्ध_059.033
मनोज्ञा रमणीयाश् च__व्ध_059.033
सर्वकामदुघाः सदा__व्ध_059.033

पुण्याः पापहराश् चैव__व्ध_059.034
गवां लोका न संशयः__व्ध_059.034
अत्यन्तसुखिनस् तत्र__व्ध_059.034
सर्वपापविवर्जिताः__व्ध_059.034
प्रमोदन्ते महास्थाने__व्ध_059.035
नरा विगतकल्मषाः__व्ध_059.035
ते व्रजन्ते विमानेषु__व्ध_059.035
ग्रहा दिवि गता इव__व्ध_059.035
एवं यैर् दत्तसत्काराः__व्ध_059.036
सुरभ्यश् चार्चिताः सदा__व्ध_059.036
कामरूपा महात्मानः__व्ध_059.036
पूता विगतकिल्बिषाः__व्ध_059.036
तुल्यप्रभावा देवैस् ते__व्ध_059.037
मोदन्ते ऽप्सरसां गणैः__व्ध_059.037
गन्धर्वैर् उपगीयन्ते__व्ध_059.037
गोशरण्या न संशयः__व्ध_059.037
ब्रह्मण्याः साधुवृत्ताश् च__व्ध_059.038
दयावन्तो ऽनुकम्पिनः__व्ध_059.038
घृणिनः शुभकर्माणो__व्ध_059.038
मोदन्ते ते ऽमरैः सह__व्ध_059.038
यथैव सलिले मत्स्यः__व्ध_059.039
सलिलेन सहोह्यते__व्ध_059.039
गोभिः पापकृतं कर्म__व्ध_059.039
दृढम् एव मयोह्यते__व्ध_059.039
मातरः सर्वभूतानां__व्ध_059.040
प्रजासंरक्षणे स्मृताः__व्ध_059.040
ब्रह्मणा लोकसारेण__व्ध_059.040
गावः पापभयापहाः__व्ध_059.040
तासु दत्तासु राजेन्द्र__व्ध_059.041
किं न दत्तं भवेद् इह__व्ध_059.041
कृशाय तु विशेषेण__व्ध_059.041
वृत्तिग्लानाय सीदते__व्ध_059.041
भूदानेन समं दानं__व्ध_060.001
न भूतं न भविष्यति__व्ध_060.001
इति धर्मविदः प्राहुस्__व्ध_060.001
तन् मे निगदतः शृणु__व्ध_060.001
षष्टिं वर्षसहस्राणि__व्ध_060.002
स्वर्गे वसति भूमिदः__व्ध_060.002
आच्छेत्ता चानुमन्ता च__व्ध_060.002
तान्य् एव नरके वसेत्__व्ध_060.002

अतिदानं तु सर्वेषां__व्ध_060.003
भूमिदानम् इहोच्यते__व्ध_060.003
अचला ह्य् अक्षया भूमिः__व्ध_060.003
सर्वान् कामान् प्रयच्छति__व्ध_060.003
भूमिदः स्वर्गम् आरुह्य__व्ध_060.004
शाश्वतीर् एधति समाः__व्ध_060.004
पुनश् च जन्म संप्राप्य__व्ध_060.004
भवेद् भूमिपतिर् ध्रुवम्__व्ध_060.004
यथा भूमिः सदा देवी__व्ध_060.005
दातारं कुरुते पतिम्__व्ध_060.005
एवं सदक्षिणा दत्ता__व्ध_060.005
कुरुते गौर् जनाधिपम्__व्ध_060.005
अपि पापकृतं प्राप्य__व्ध_060.006
प्रतिगृह्णीत भूमिदम्__व्ध_060.006
महीं ददन् पवित्री स्यात्__व्ध_060.006
पुण्या हि जगती यतः__व्ध_060.006
नाम वै प्रियदत्तेति__व्ध_060.007
गुह्यम् एतत् सनातनम्__व्ध_060.007
तद् अस्याः सततं प्रीत्यै__व्ध_060.007
कीर्तनीयं प्रयच्छता__व्ध_060.007
यत् किंचित् कुरुते पापं__व्ध_060.008
पुरुषो वृत्तिकर्षितः__व्ध_060.008
अपि गोचर्ममात्रेण__व्ध_060.008
भूमिदानेन शुध्यति__व्ध_060.008
सुवर्णं रजतं ताम्रं__व्ध_060.009
मणिमुक्तावसूनि च__व्ध_060.009
सर्वान् एतान् महाप्राज्ञ__व्ध_060.009
ददाति वसुधां ददन्__व्ध_060.009
तपो यज्ञाः श्रुतं शीलम्__व्ध_060.010
अलोभः सत्यवादिता__व्ध_060.010
गुरुदैवतपूजा च__व्ध_060.010
नातिक्रमन्ति भूमिदम्__व्ध_060.010
भर्तुर् निःश्रेयसे युक्तास्__व्ध_060.011
त्यक्तात्मानो रणे हताः__व्ध_060.011
ब्रह्मलोकगताः सन्तो__व्ध_060.011
नातिक्रामन्ति भूमिदम्__व्ध_060.011
फलकृष्टां महीं दत्त्वा__व्ध_060.012
सोदकां सफलान्विताम्__व्ध_060.012
सोदकं वापि शरणं__व्ध_060.012
प्राप्नोति मम संपदम्__व्ध_060.012

रत्नोपकीऋणां वसुधां__व्ध_060.013
यो ददाति द्विजातये__व्ध_060.013
मुक्तः स कलुषैः सर्वैः__व्ध_060.013
स्वर्गलोके महीयते__व्ध_060.013
इक्षुभिः संततां भूमिं__व्ध_060.014
यवगोधूमशाड्बलाम्__व्ध_060.014
ये प्रयच्छन्ति विप्रेभ्यो__व्ध_060.014
नोपसर्पन्ति ते यमम्__व्ध_060.014
सर्वकामदुघां धेनुं__व्ध_060.015
सर्वसस्यसमुद्भवाम्__व्ध_060.015
यो ददाति द्विजेन्द्राय__व्ध_060.015
ब्रह्मलोकं स गच्छति__व्ध_060.015
भूमिदानं नरः कुर्वन्__व्ध_060.016
मुच्यते महतो भयात्__व्ध_060.016
न भूयो भूमिदानाद् धि__व्ध_060.016
दानम् अन्यद् विशिष्यते__व्ध_060.016
पुण्यां सर्वरसां भूमिं__व्ध_060.017
यो ददाति नरर्षभ__व्ध_060.017
न तस्य लोकाः क्षीयन्ते__व्ध_060.017
भूमिदस्य महात्मनः__व्ध_060.017
यथा जनित्री पुष्णाति__व्ध_060.018
क्षीरेण स्वसुतं नृप__व्ध_060.018
एवं सर्वगुणा भूमिर्__व्ध_060.018
दातारम् अनुपुष्यति__व्ध_060.018
अग्निष्टोमादिभिर् यज्ञैर्__व्ध_060.019
इष्ट्वा विपुलदक्षिणैः__व्ध_060.019
न तत् फलं अवाप्नोति__व्ध_060.019
यद् दत्त्वा वसुधां नृप__व्ध_060.019
मृत्योर् हि किंकरा दण्डा ह्य्__व्ध_060.020
अग्नितापाः सुदारुणाः__व्ध_060.020
घोराश् च वारुणाः पाशा__व्ध_060.020
नोपसर्पन्ति भूमिदम्__व्ध_060.020
पितरः पितृलोकस्था__व्ध_060.021
देवलोके दिवौकसः__व्ध_060.021
संतर्पयन्ति दातारं__व्ध_060.021
भूमेः प्रभवतां वर__व्ध_060.021
कृशाय कृशभृत्याय__व्ध_060.022
वृत्तिक्षीणाय सीदते__व्ध_060.022
भूमिं वृत्तिकारीं दत्त्वा__व्ध_060.022
सत्त्री भवति मानवः__व्ध_060.022

सिंहासनं तथा च्छत्त्रं__व्ध_060.023
वराश्वा वरवारणाः__व्ध_060.023
भूमिदानस्य पुष्पाणि__व्ध_060.023
फलं स्वर्गं तथैव च__व्ध_060.023
आदित्या इव दीप्यन्ते__व्ध_060.024
तेजसा दिवि मानवाः__व्ध_060.024
ये प्रयच्छन्ति वसुधां__व्ध_060.024
ब्राह्मणायाहिताग्नये__व्ध_060.024
यथा बीजानि रोहन्ति__व्ध_060.025
प्रकीर्णानि महीतले__व्ध_060.025
तथा कामाधिरोहन्ति__व्ध_060.025
भूमिदानगुणार्जिताः__व्ध_060.025
आस्फोटयन्ति पितरः__व्ध_060.026
प्रवल्गन्ति पितामहाः__व्ध_060.026
भूमिदो नः कुले जातः__व्ध_060.026
स नः संतारयिष्यति__व्ध_060.026
आदित्या वसवो रुद्रा ह्य्__व्ध_060.027
अश्विनौ वसुभिः सह__व्ध_060.027
शूलपाणिश् च भगवान्__व्ध_060.027
अभिनन्दन्ति भूमिदम्__व्ध_060.027
स नः कुलस्य पुरुषः__व्ध_060.028
स नो बन्धुः स नो गतिः__व्ध_060.028
स दाता स च विक्रान्तो__व्ध_060.028
यो ददाति वसुंधराम्__व्ध_060.028
दातारम् अनुगृह्णाति__व्ध_060.029
यथा दत्तेन रोचते__व्ध_060.029
पूर्वदत्तां हरन् भूमिं__व्ध_060.029
नरकायोपपद्यते__व्ध_060.029
विन्ध्याटवीष्व् अतोयासु__व्ध_060.030
शुष्ककोटरवासिनः__व्ध_060.030
कृष्णसर्पा हि जायन्ते__व्ध_060.030
ये हरन्ति वसुंधराम्__व्ध_060.030
पतन्त्य् अश्रूणि रुदतां__व्ध_060.031
दीनानाम् अवसीदताम्__व्ध_060.031
ब्राह्मणानां हृतं क्षेत्रं__व्ध_060.031
हन्यात् त्रिपुरुषं कुलम्__व्ध_060.031
साधुभ्यो भूमिम् आक्षिप्य__व्ध_060.032
न भूतिं विन्दते क्वचित्__व्ध_060.032
दत्त्वा हि भूमिं साधुभ्यो__व्ध_060.032
विन्दते भूतिम् उत्तमाम्__व्ध_060.032

पूर्वदत्तां द्विजातिभ्यो__व्ध_060.033
यत्नाद् रक्ष युधिष्ठिर__व्ध_060.033
महीं महीभृतां श्रेष्ठ__व्ध_060.033
दानाच् छ्रेयो ऽनुपालनम्__व्ध_060.033
यत्रैषः पठ्यते श्राद्धे__व्ध_060.034
भूमिदानस्य संस्तवः__व्ध_060.034
न तत्र रक्षसां भागो__व्ध_060.034
नासुराणां कथंचन__व्ध_060.034
अक्षयं तु भवेच् छ्राद्धं__व्ध_060.035
पितॄणां नात्र संशयः__व्ध_060.035
तस्माद् विश्रावयेद् एनं__व्ध_060.035
श्राद्धेषु ब्राह्मणान् सदा__व्ध_060.035
एवम् एतद् यथोद्दिष्टं__व्ध_060.036
पितॄणां दत्तम् अक्षयम्__व्ध_060.036
भूमिदानं महाराज__व्ध_060.036
सर्वपापापहं शुभम्__व्ध_060.036
अग्निष्टोमादिभिर् यज्ञैर्__व्ध_061.001
इष्ट्वा विपुलदक्षिणैः__व्ध_061.001
न तत् फलम् अवाप्नोति__व्ध_061.001
संग्रामे यद् अवाप्नुयात्__व्ध_061.001
इति यज्ञविदः प्राहुर्__व्ध_061.002
यज्ञकर्मविशारदाः__व्ध_061.002
तस्मात् तत् ते प्रवक्ष्यामि__व्ध_061.002
यत् फलं शस्त्रजीविनाम्__व्ध_061.002
धर्मलाभो ऽर्थलाभश् च__व्ध_061.003
यशोलाभस् तथैव च__व्ध_061.003
यः शूरो वध्यते युद्धे__व्ध_061.003
विमृदन् परवाहिनीम्__व्ध_061.003
तस्य धर्मार्थकामाश् च__व्ध_061.003
यज्ञाश् चैवाप्तदक्षिणाः__व्ध_061.003
परं ह्य् अभिमुखं हत्वा__व्ध_061.004
तद्यानं यो ऽधिरोहति__व्ध_061.004
विष्णुक्रान्तं स यजत__व्ध_061.004
एवं युध्यन् रणाजिरे__व्ध_061.004
अश्वमेधान् अवाप्नोति__व्ध_061.004
चतुरस् तेन कर्मणा__व्ध_061.004
यस् तु शस्त्रम् अनुत्सृज्य__व्ध_061.005
वीर्यवान् वाहिनीमुखे__व्ध_061.005
संमुखो वर्तते शूरः__व्ध_061.005
स स्वर्गान् न विवर्तते__व्ध_061.005

राजानं राजपुत्रं वा__व्ध_061.006
सेनापतिम् अथापि वा__व्ध_061.006
हन्यात् क्षत्रेण यः शूरस्__व्ध_061.006
तस्य लोको ऽक्षयो ध्रुवः__व्ध_061.006
यावन्ति तस्य शस्त्राणि__व्ध_061.007
भिन्दन्ति त्वचम् आहवे__व्ध_061.007
तावतो लभते लोकान्__व्ध_061.007
सर्वकामदुघो ऽक्षयान्__व्ध_061.007
वीरासनं वीरशय्या__व्ध_061.008
वीरस्थानस्थितिः स्थिरा__व्ध_061.008
गवार्थे ब्राह्मणार्थे वा__व्ध_061.008
स्वाम्यर्थे तु कृतं च यैः__व्ध_061.008
ते गच्छन्त्य् अमलं स्थानं__व्ध_061.008
यथा सुकृतिनस् तथा__व्ध_061.008
अभग्नं यः परं हन्याद्__व्ध_061.009
भग्नं च परिरक्षति__व्ध_061.009
यस्मिन् स्थिते पलायन्ति__व्ध_061.009
सो ऽपि प्राप्नोति स्वर्गतिम्__व्ध_061.009
ऊर्ध्वं तिर्यक् च यश् चार्वाक्__व्ध_061.010
प्राणान् संत्यजते युधि__व्ध_061.010
हताश्वश् च पतेद् युद्धे__व्ध_061.010
स स्वर्गान् न निवर्तते__व्ध_061.010
यस्य चिह्नीकृतं गात्रं__व्ध_061.011
शरशक्त्यृष्टितोमरैः__व्ध_061.011
देवकन्यास् तु तं वीरं__व्ध_061.011
रमयन्ति रमन्ति च__व्ध_061.011
वराप्सरःसहस्राणि__व्ध_061.012
शूरम् आयोधने हतम्__व्ध_061.012
त्वरितान्य् अभिधावन्ति__व्ध_061.012
मम भर्ता ममेति च__व्ध_061.012
हतस्याभिमुखस्याजौ__व्ध_061.013
पतितस्यानिवर्तिनः__व्ध_061.013
ह्रियते यत् परैर् द्रव्यं__व्ध_061.013
नरमेधफलं तु तत्__व्ध_061.013
भूयो गतिं प्रवक्ष्यामि__व्ध_061.014
रणे ये ऽभिमुखा हताः__व्ध_061.014
शक्यं त्व् इह समृद्धैस् तु__व्ध_061.015
यष्टुं क्रतुशतैर् नरैः__व्ध_061.015
आत्मदेहं तु विप्रार्थे__व्ध_061.015
त्यक्तुं युद्धे सुदुष्करम्__व्ध_061.015

यां यज्ञसंघैस् तपसा च विप्राः__व्ध_061.016
स्वर्गैषिणस् तत्र चयैः प्रयान्ति__व्ध_061.016
क्षणेन ताम् एव गतिं प्रयान्ति__व्ध_061.016
महाहवे स्वां तनुं संत्यजन्तः__व्ध_061.016
सर्वांश् च वेदान् सह षड्भिर् अङ्गैः__व्ध_061.017
सांख्यं च योगं च वने च वासम्__व्ध_061.017
एतान् गुणान् एक एवातिशेते__व्ध_061.017
संग्रामधाम्न्य् आत्मतनुं त्यजेद् यः__व्ध_061.017
इमां गिरं चित्रपदां शुभाक्षरां__व्ध_061.018
सुभाषितां वृतभिदां दिवौकसाम्__व्ध_061.018
चमूमुखे यः स्मरते दृढस्मृतिर्__व्ध_061.018
न हन्यते हन्ति च सो ऽरणे रिपून्__व्ध_061.018
एष पुण्यतमः स्वर्ग्यः__व्ध_061.019
सुयज्ञः सर्वतोमुखः__व्ध_061.019
सर्वेषाम् एव वर्णानां__व्ध_061.019
क्षत्रियस्य विशेषतः__व्ध_061.019
भूयश् चैव प्रवक्ष्यामि__व्ध_061.020
भीष्मवाक्यम् अनुत्तमम्__व्ध_061.020
यादृशाय प्रहर्तव्यं__व्ध_061.020
यादृशं परिवर्जयेत्__व्ध_061.020
आततायिनम् आयान्तम्__व्ध_061.021
अपि वेदान्तगं रणे__व्ध_061.021
जिघांसन्तं जिघांसीयान्__व्ध_061.021
न तेन ब्रह्महा भवेत्__व्ध_061.021
हताश्वश् च न हन्तव्यः__व्ध_061.022
पानीयं यश् च याचते__व्ध_061.022
व्याधितो दुर्बलश् चैव__व्ध_061.022
रथहीनस् तथैव च__व्ध_061.022
भग्नधन्वाच्छिनगुणः__व्ध_061.023
प्राणेप्सुः कृपणं ब्रुवन्__व्ध_061.023
विमुक्तकेशो धावेद् यो__व्ध_061.023
यश् चोन्मत्ताकृतिर् भवेत्__व्ध_061.023
पर्णशाखातृणग्राही__व्ध_061.024
तवास्मीति च यो वदेत्__व्ध_061.024
ब्राह्मणो ऽस्मीति यश् चाह__व्ध_061.024
बालो वृद्धो नपुंसकः__व्ध_061.024
तस्माद् एतान् परिहरेद्__व्ध_061.025
यथोद्दिष्टान् रणाजिरे__व्ध_061.025
हतो न हन्यते सद्भिर्__व्ध_061.025
हता एव हि भीरवः__व्ध_061.025

अमांसभक्षणे राजन्__व्ध_062.001
यो धर्मः कुरुपुङ्गव__व्ध_062.001
तन् मे शृणु यथातथ्यं__व्ध_062.001
यश् चास्य विधिर् उत्तमः__व्ध_062.001
मासि मास्य् अश्वमेधेन__व्ध_062.002
यो यजेत शतं समाः__व्ध_062.002
न च खादति यो मांसं__व्ध_062.002
समम् एतद् युधिष्ठिर__व्ध_062.002
सदा यजति सत्त्रेण__व्ध_062.003
सदा दानं प्रयच्छति__व्ध_062.003
सदा तपस्वी भवति__व्ध_062.003
मधुमांसविवर्जनात्__व्ध_062.003
सर्ववेदा न तत् कुर्युः__व्ध_062.004
सर्वदानानि चैव हि__व्ध_062.004
यो मांसरसम् आस्वाद्य__व्ध_062.004
सर्वमांसानि वर्जयेत्__व्ध_062.004
दुष्करं हि रसज्ञेन__व्ध_062.005
मांसस्य परिवर्जनम्__व्ध_062.005
चतुर्व्रतम् इदं श्रेष्ठं__व्ध_062.005
प्राणिनां मृत्युभीरुणाम्__व्ध_062.005
तदा भवति लोके ऽस्मिन्__व्ध_062.006
प्राणिनां जीवितैषिणाम्__व्ध_062.006
विश्वास्यश् चोपगम्यश् च__व्ध_062.006
न हि हिंसारुदिर् यदा__व्ध_062.006
दुष्टरांस् तरते म....आं__व्ध_062.*(74)
मांसस्य परिवर्जनात्__व्ध_062.*(74)
प्राणा यथात्मनो ऽभीष्टा__व्ध_062.007
भूतानाम् अपि ते तथा__व्ध_062.007
आत्मौपम्येन गन्तव्यं__व्ध_062.007
बुद्धिमद्भिर् महात्मभिः__व्ध_062.007
अहिंसा परमो धर्मः__व्ध_062.008
सत्यम् एव च पाण्डव__व्ध_062.008
अहिंसा चैव सत्यं च__व्ध_062.008
धर्मो हि परमः स्मृतः__व्ध_062.008
न हि मांसं तृणात् काष्ठाद्__व्ध_062.009
उपलाद् वापि जायते__व्ध_062.009
जीवाद् उत्पद्यते मांसं__व्ध_062.*(75)
तस्माद् गर्हन्ति तद् बुधाः__व्ध_062.*(75)
यदि वै खादको न स्यान्__व्ध_062.009
न तदा घातको भवेत्__व्ध_062.009

लोभाद् वा बुद्धिमोहाद् वा__व्ध_062.010
यो मांसान्य् अत्ति मानवः__व्ध_062.010
निर्घृणः स हि मन्तव्यः__व्ध_062.010
सद्धर्मपरिवर्जितः__व्ध_062.010
स्वमांसं परमांसेन__व्ध_062.011
यो वर्धयितुम् इच्छति__व्ध_062.011
उद्विग्नवासे वसति__व्ध_062.011
यत्रतत्राभिजायते__व्ध_062.011
धनेन क्रायको हन्ति__व्ध_062.012
उपभोगेन खादकः__व्ध_062.012
घातको वधबन्धाभ्याम्__व्ध_062.012
इत्य् एष त्रिविधो वधः__व्ध_062.012
भक्षयित्वा तु यो मांसं__व्ध_062.013
पश्चाद् अपि निवर्तते__व्ध_062.013
तस्यापि सुमहान् धर्मो__व्ध_062.013
यः पापाद् विनिवर्तते__व्ध_062.013
वरम् एकस्य सत्त्वस्य__व्ध_062.*(76)
दद्याद् अक्षयदक्षिणाम्__व्ध_062.*(76)
न तु विप्रसहस्रस्य__व्ध_062.*(76)
गोसहस्रं सकाञ्चनम्__व्ध_062.*(76)
यो दद्यात् काञ्चनं मेरुं__व्ध_062.*(76)
कृत्स्नां वापि वसुंधराम्__व्ध_062.*(76)
अभक्षणं च मांसस्य__व्ध_062.*(76)
न तु तुल्यं युधिष्ठिर__व्ध_062.*(76)
इदम् अन्यत् प्रवक्ष्यामि__व्ध_062.013
पुराणम् ऋषिनिर्मितम्__व्ध_062.013
श्रूयते च पुराकल्पे ह्य्__व्ध_062.014
ऋषीणां व्रीहयः पशुः__व्ध_062.014
यजन्ते येन वै यज्ञान्__व्ध_062.014
ऋषयः पुण्यकर्मिणः__व्ध_062.014
ऋषिभिः संशयं पृष्टो__व्ध_062.015
वसू राजा ततः पुरा__व्ध_062.015
अभक्ष्यं भक्ष्यम् इति वै__व्ध_062.015
मांसम् आह नराधिप__व्ध_062.015
आकाशान् मेदिनीं प्राप्तस्__व्ध_062.016
ततः स पृथिवीपतिः__व्ध_062.016
एतद् एव पुनश् चोक्त्वा__व्ध_062.016
विवेश धरणीतलम्__व्ध_062.016
कौमुदं तु विशेषेण__व्ध_062.017
शुक्लपक्षे नराधिप__व्ध_062.017

वर्जयेत् सर्वमांसानि__व्ध_062.017
धर्मो ह्य् अत्र विधीयते__व्ध_062.017
चतुरो वार्षिकान् मासान्__व्ध_062.018
यो मांसं परिवर्जयेत्__व्ध_062.018
चत्वारि भद्राण्य् आप्नोति__व्ध_062.018
कीर्तिर् आयुर् यशो बलम्__व्ध_062.018
अप्य् एकम् इह यो मासं__व्ध_062.019
सर्वमांसानि वर्जयेत्__व्ध_062.019
अतीत्य सर्वदुःखानि__व्ध_062.019
सुखं जीवेन् निरामयः__व्ध_062.019
यो हि वर्षशतं पूर्णं__व्ध_062.020
तपस् तप्येत् सुदारुणम्__व्ध_062.020
अप्य् एकं वर्जयेन् मासं__व्ध_062.020
मांसम् एतत् समं मतम्__व्ध_062.020
यो वर्जयति मांसानि__व्ध_062.021
मासं पक्षम् अथापि वा__व्ध_062.021
स वै हिंसानिवृत्तस् तु__व्ध_062.021
ब्रह्मलोके महीयते__व्ध_062.021
सर्वकालं तु मांसानि__व्ध_062.022
वर्जितानि महर्षिभिः__व्ध_062.022
मन्वा क्षुपेण श्वेतेन__व्ध_062.022
तथैवेक्ष्वाकुनापि च__व्ध_062.022
भृगुणा नलरामाभ्यां__व्ध_062.023
दिलीपरघुपौरवैः__व्ध_062.023
आयुषा चैव गार्ग्येण__व्ध_062.023
जनकैश् चक्रवर्तिभिः__व्ध_062.023
धुन्धुमाराम्बरीषाभ्यां__व्ध_062.024
नहुषेण च धीमता__व्ध_062.024
गाधिना पुरुकुत्सेन__व्ध_062.024
कुरुणा पुरुणा तथा__व्ध_062.024
मुचुकुन्देन मान्धात्रा__व्ध_062.025
सगरेण महात्मना__व्ध_062.025
शिबिना चाश्वपतिना__व्ध_062.025
वीरसेनादिभिस् तथा__व्ध_062.025
संजयेनाथ भीष्मेण__व्ध_062.026
पुष्करेणाथ पाण्डुना__व्ध_062.026
सुवर्णष्ठीविना चैव__व्ध_062.026
दुष्वन्तनृगरोहितैः__व्ध_062.026
एतैश् चान्यैश् च बहुभिः__व्ध_062.027
सर्वैर् मांसं न भक्षितम्__व्ध_062.027

शरत्कौमुदिकं मासं__व्ध_062.027
ततः स्वर्गं गता नृपाः__व्ध_062.027
सर्वकामसमृद्धास् ते__व्ध_062.027
वसन्ति दिवि संस्थिताः__व्ध_062.027
ब्रह्मलोके च पूज्यन्ते__व्ध_062.028
ज्वलमानाः श्रियावृताः__व्ध_062.028
उपास्यमाना गान्धर्वैः__व्ध_062.028
स्त्रीसहस्रसमन्विताः__व्ध_062.028
तद् एवम् उत्तमं धर्मम्__व्ध_062.029
अहिंसालक्षणं शुभन्__व्ध_062.029
ये रक्षन्ति महात्मानो__व्ध_062.029
नाकपृष्ठे वसन्ति ते__व्ध_062.029
मधु मांसं च ये नित्यं__व्ध_062.030
वर्जयन्तीह मानवाः__व्ध_062.030
जन्मप्रभृति मद्यं च__व्ध_062.030
सर्वे ते मुनयः स्मृताः__व्ध_062.030
आपन्नश् चापदो मुच्येद्__व्ध_062.031
बद्धो मुच्येत बन्धनात्__व्ध_062.031
व्याधितो मुच्यते रोगाद्__व्ध_062.031
दुःखान् मुच्येत दुःखितः__व्ध_062.031
यश् चैनं पठते नित्यं__व्ध_062.032
प्रयत्नाद् भरतर्षभ__व्ध_062.032
घोरं संतरते दुर्गं__व्ध_062.032
स्वर्गवासं च विन्दति__व्ध_062.032
तिर्यग्योनिं न गच्छेच् च__व्ध_062.032
रूपवांश् चैव जायते__व्ध_062.032
एतत् ते कथितं राजन्__व्ध_062.033
मांसस्य परिवर्जनम्__व्ध_062.033
प्रवृत्तौ च निवृत्तौ च__व्ध_062.033
प्रमाणम् ऋषिसत्तमैः__व्ध_062.033
गोब्राह्मणहितार्थाय__व्ध_063.001
चातुर्वर्ण्यहिताय च__व्ध_063.001
अशिष्टनिग्रहार्थाय__व्ध_063.001
शिष्टानां रक्षणाय च__व्ध_063.001
युधिष्ठिरस्य राजर्षेर्__व्ध_063.001
एवं नारायणो ऽब्रवीत्__व्ध_063.001
पञ्च रूपाणि राजानो__व्ध_063.002
धारयन्त्य् अमितौजसः__व्ध_063.002
अग्नेर् इन्द्रस्य सोमस्य__व्ध_063.002
यमस्य वरुणस्य च__व्ध_063.002

तान् न हिंसेन् न चाक्रोशेन्__व्ध_063.003
नाक्षिपेन् नाप्रियं वदेत्__व्ध_063.003
देवा मानुषरूपेण__व्ध_063.003
चरन्ति पृथिवीम् इमाम्__व्ध_063.003
इन्द्रात् प्रभुत्वं ज्वलनात् प्रतापं__व्ध_063.004
क्रौर्यं यमाद् वैश्रवणात् प्रभावम्__व्ध_063.004
सत्त्वस्थितिं रामजनार्दनाभाम्__व्ध_063.004
आदाय राज्ञः क्रियते शरीरम्__व्ध_063.004
न चापि राजा मन्तव्यो__व्ध_063.005
मनुष्यो ऽयम् इति प्रभो__व्ध_063.005
महती देवता ह्य् एषा__व्ध_063.005
नररूपेण तिष्ठति__व्ध_063.005
स्वयम् इन्द्रो नरो भूत्वा__व्ध_063.006
पृथिवीम् अनुशासति__व्ध_063.006
न हि पालयितुं शक्तो__व्ध_063.006
मनुष्यः पृथिवीम् इमाम्__व्ध_063.006
यत् प्रजापालनैः पुण्यं__व्ध_063.007
प्राप्नुवन्तीह पार्थिवाः__व्ध_063.007
न तत् क्रतुसहस्रेण__व्ध_063.007
प्राप्नुवन्ति द्विजोत्तमाः__व्ध_063.007
अधीतहुततप्तस्य__व्ध_063.008
कर्मणः सुकृतस्य च__व्ध_063.008
षष्ठं लभति भागं तु__व्ध_063.008
प्रजा धर्मेण पालयन्__व्ध_063.008
ग्रामाधिपत्यं नगराधिपत्यं__व्ध_063.009
देशाधिपत्यं पृथिवीपतित्वम्__व्ध_063.009
न प्राप्नुवन्तीह मनुष्यमात्रा__व्ध_063.009
ये देवतानां न भवन्ति भागाः__व्ध_063.009
न तद् अस्ति व्रतं लोके__व्ध_063.010
यद् राज्ञश् चरितोपमम्__व्ध_063.010
न तद् वेदरहस्यं वा__व्ध_063.010
यद् राज्ञः फलतो ऽधिकम्__व्ध_063.010
एवंवृत्तास् तु राजानो__व्ध_063.010
देवभागा न मानुषाः__व्ध_063.010
चतुर्वेद्यं हुतच..न__व्ध_063.*(77)
यो हिंसेत नराधिपः__व्ध_063.*(77)
दण्डस्यैते भयाद् भीता__व्ध_063.*(77)
न खादन्ति परस्परम्__व्ध_063.*(77)
ज..दण्डभयात् के...__व्ध_063.*(77)
न दुर्वन्ति हि पातकम्__व्ध_063.*(77)

यमदण्डभयाद् अन्ये__व्ध_063.*(77)
न दुर्वन्ति परस्परम्__व्ध_063.*(77)
नाभीतो यजते कांश्चन् (?)__व्ध_063.*(77)
नाभीतो दण्डम् इच्छति__व्ध_063.*(77)
य एव देवा हन्तारस्__व्ध_063.011
तांल् लोको ऽर्चयते भृशम्__व्ध_063.011
हन्ता शक्रश् च रुद्रश् च__व्ध_063.011
हन्ता वैश्रवणो यमः__व्ध_063.011
वरुणो वायुर् आदित्यः__व्ध_063.011
पर्जन्यो ऽग्निर् बृहस्पतिः__व्ध_063.011
एतान् देवान् नमस्यन्ति__व्ध_063.012
प्रतापप्रणता जनाः__व्ध_063.012
न ब्रह्माणं न धातारं__व्ध_063.012
न पूषाणं कथंचन__व्ध_063.012
दण्डग्रस्तं जगत् सर्वं__व्ध_063.013
वश्यत्वम् अनुगच्छति__व्ध_063.013
नायं क्लीबस्य लोको ऽस्ति__व्ध_063.013
न परः पार्थिवोत्तम__व्ध_063.013
न हि पश्यामि जीवन्तं__व्ध_063.014
राजन् कंचिद् अहिंसया__व्ध_063.014
उदके जन्तवो नित्यं__व्ध_063.014
पृथिव्यां च फलेषु च__व्ध_063.014
न हत्वा लिप्यते राजा__व्ध_063.014
प्रजा धर्मेण पालयन्__व्ध_063.014
यदि दण्डो न विद्येत__व्ध_063.015
दुर्विनीतास् तथो नराः__व्ध_063.015
हन्युः पशून् मनुष्यांश् च__व्ध_063.015
याज्ञियानि हविंषि च__व्ध_063.015
वृकवत् क्षपयेयुश् च__व्ध_063.*(78)
यो यस्य बलवत्तरः__व्ध_063.*(78)
तस्मात् प्राणिहिते दण्डे__व्ध_063.*(79)
हिंसादोषो न बाधते__व्ध_063.*(79)
नैवोस्त्रा न बलीवर्दा__व्ध_063.016
नाश्वाश्वतरगर्दभाः__व्ध_063.016
युक्ता वहेयुर् यानानि__व्ध_063.016
दण्डश् चेन् नोद्यतो भवेत्__व्ध_063.016
सत्यं किलैतद् यद् उवाच शक्रो__व्ध_063.017
दण्डः प्रजा रक्षति साधुवृत्तः__व्ध_063.017
यस्याग्नयः प्रतिमासस्य भीताः__व्ध_063.017
संतर्जिता दण्डभयाज् ज्वलन्ति__व्ध_063.017

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc