विष्णुधर्म · भाग 201220
यत्र श्यामो लोहिताक्षो__व्ध_063.018
दण्डश् चरति पापहा__व्ध_063.018
प्रजास् तत्र न मुह्यन्ते__व्ध_063.018
नेता चेत् साधु पश्यति__व्ध_063.018
दण्डनीतौ सुनीतायां__व्ध_063.019
सर्वे सिध्यन्त्य् उपक्रमाः__व्ध_063.019
दण्डश् चेन् न प्रवर्तेत__व्ध_063.019
विनश्येयुर् इमाः प्रजाः__व्ध_063.019
वृकवद् भक्षयेयुश् च__व्ध_063.020
यो यस्य बलवत्तरः__व्ध_063.020
काकाद्याश् च पुरोदाशं__व्ध_063.020
श्वा चैवावलिहेद् धविः__व्ध_063.020
स्वाम्यं च न स्यात् कस्मिंश्चित्__व्ध_063.021
प्रवर्तेताधरोत्तरम्__व्ध_063.021
चातुर्वर्ण्यविमोक्षाय__व्ध_063.021
दुर्विनीतभयाय च__व्ध_063.021
दण्डेन नियतो लोको__व्ध_063.022
धर्मस्थानं च रक्षति__व्ध_063.022
सर्वो दण्डजितो लोको__व्ध_063.022
दुर्लभो हि शुचिर् जनः__व्ध_063.022
दण्डस्य हि भयाद् भीता__व्ध_063.023
नरास् तिष्ठन्ति शासने__व्ध_063.023
ति ऽपि भोगाय कल्पन्ते__व्ध_063.023
दण्डेनोपरिपीडिताः__व्ध_063.023
गुरुर् आत्मवतां शास्ता__व्ध_063.024
शास्ता राजा दुरात्मनां__व्ध_063.024
इहप्रच्छन्नपापानां__व्ध_063.024
शास्ता वैवस्वतो यमः__व्ध_063.024
पापानाम् अथ मूढानां__व्ध_063.025
परद्रव्यापहारिणाम्__व्ध_063.025
परदाररता ये च__व्ध_063.025
ये च पातकसंज्ञिताः__व्ध_063.025
तेषां तु शासनार्थाय__व्ध_063.025
मयैतत् समुदाहृतम्__व्ध_063.025
ब्राह्मण्यं दुष्करं ज्ञात्वा__व्ध_063.026
तस्य दण्डं निपातयेत्__व्ध_063.026
कर्मानुरूपो दण्डः स्याद्__व्ध_063.026
गोहिरण्यादिको भवेत्__व्ध_063.026
अवध्यो ब्राह्मणो राजन्__व्ध_063.026
स्त्री वृद्धो बाल एव च__व्ध_063.026
यश् चरेद् अशुभं कर्म__व्ध_063.027
पापं राजविगर्हितम्__व्ध_063.027
पातकेषु च वर्तेत__व्ध_063.027
निग्रहं तस्य कारयेत्__व्ध_063.027
शिरसो मुण्डनं कृत्वा__व्ध_063.028
गोमयेनानुलेपयेत्__व्ध_063.028
खरयानेन नगरं__व्ध_063.028
डिण्डिमेन तु भ्रामयेत्__व्ध_063.028
राजनिर्दिष्टदण्डस्य__व्ध_063.028
प्रायश्चित्तं न विद्यते__व्ध_063.028
एष ते कथितो दण्डो__व्ध_063.029
ब्राह्मणस्य युधिष्ठिर__व्ध_063.029
क्षत्रियस्य तु यो दण्डस्__व्ध_063.029
तं वक्ष्याम्य् अनुपूर्वशः__व्ध_063.029
परद्रव्यादिहरणे__व्ध_063.030
परदाराभिमर्दने__व्ध_063.030
पातकेषु च सर्वेषु__व्ध_063.030
यो हि वर्तेत क्षत्रियः__व्ध_063.030
तस्य दण्डं प्रवक्ष्यामि__व्ध_063.030
तन् मे निगदतः शृणु__व्ध_063.030
हस्तपादपरिच्छेदं__व्ध_063.031
कर्णनासावकर्तनम्__व्ध_063.031
सर्वस्वहरणं कृत्वा__व्ध_063.031
परराष्ट्राय प्रेशयेत्__व्ध_063.031
राज्यं काङ्क्षेत यो मूढो__व्ध_063.032
राजपत्नीम् अथापि वा__व्ध_063.032
शरैस् तु राजा विध्येत__व्ध_063.032
शक्तिचक्रगदादिभिः__व्ध_063.032
क्षत्रियस्य तु दुष्टस्य__व्ध_063.033
दण्ड एष विधीयते__व्ध_063.033
वैश्यस्यापि च यो दण्डस्__व्ध_063.033
तं प्रवक्ष्यामि भारत__व्ध_063.033
पातकेष्व् एव क्रूरेषु__व्ध_063.034
यस् तु वैश्यः प्रवर्तते__व्ध_063.034
परदारे परद्रव्ये__व्ध_063.034
तस्य निग्रहम् आदिशेत्__व्ध_063.034
शूलायां भेदनं तस्य__व्ध_063.035
वृक्षशाखावलम्बनम्__व्ध_063.035
एतद् वैश्यस्य निर्दिष्टं__व्ध_063.035
शूद्रस्याप्य् अनुपूर्वशः__व्ध_063.035
शूले शूद्रस्य यो दुष्टस्__व्ध_063.036
तस्यैकस्य वधः स्मृतः__व्ध_063.036
कुञ्जरेणाभिमर्देत__व्ध_063.036
मीनीयाम् अथ पाचयेत्__व्ध_063.036
एतच् छूद्रस्य निर्दिष्टं__व्ध_063.036
नान्यो दण्डो विधीयते__व्ध_063.036
नैकस्यार्थे कुलं हन्यान्__व्ध_063.037
न राष्ट्रं न च ग्रामकम्__व्ध_063.037
धनलोभान् न मोक्तव्यो__व्ध_063.*(80)
रागाद् वा शासनं विना__व्ध_063.*(80)
एकं सुशिष्टितं कृत्वा__व्ध_063.037
शेषं कोशं प्रवेशयेत्__व्ध_063.037
युधिष्ठिरस्य राजर्षेर्__व्ध_063.038
एवं नारायणो ऽब्रवीत्__व्ध_063.038
समासेन यथान्यायं__व्ध_063.038
दण्डनीतिम् अनुत्तमाम्__व्ध_063.038
उत्तमाधमकार्येषु__व्ध_063.039
समेषु विषमेषु च__व्ध_063.039
राजधर्मांस् तु पश्येत__व्ध_063.039
विष्णुना समुदाहृतान्__व्ध_063.039
एतान् धर्माञ् जगन्नाथः__व्ध_064.001
पाण्डुपुत्राय पृच्छते__व्ध_064.001
जगाद पुरुषव्याघ्र__व्ध_064.001
किम् अन्यच् छ्रोतुम् इच्छसि__व्ध_064.001
भगवन् वहतां भक्तिं__व्ध_064.002
देवदेवे जनार्दने__व्ध_064.002
यत् फलं कथितं तज्ज्ञैस्__व्ध_064.002
तन् मे विस्तरतो वद__व्ध_064.002
यत् फलं वहतां भक्तिम्__व्ध_064.003
अच्युते भवति प्रभो__व्ध_064.003
न तद् वर्णयितुं शक्यं__व्ध_064.003
हरिः सर्वेप्सितप्रदः__व्ध_064.003
यादृक् सत्त्वं मनुष्याणां__व्ध_064.004
तादृग् आराध्य केशवम्__व्ध_064.004
फलम् इच्छन्ति तादृच् च__व्ध_064.004
लभ्यते तैर् नरेश्वर__व्ध_064.004
मुक्तिकामा नरा मुक्तिं__व्ध_064.005
स्वर्गं देवत्वम् ईप्सवः__व्ध_064.005
गन्धर्वयक्षसिद्धानां__व्ध_064.005
वृण्वन्त्य् अन्ये सलोकताम्__व्ध_064.005
वर्षेष्व् अभीप्सवो विष्णुं__व्ध_064.006
पातालेषु तथापरे__व्ध_064.006
भोगान् अभीप्सवो विष्णुं__व्ध_064.006
तोषयण्ति नराधिप__व्ध_064.006
तथापरे नरैश्वर्यम्__व्ध_064.007
आरोग्यं गुणवद् भुवि__व्ध_064.007
प्रार्थयन्त्य् अच्युतं देवम्__व्ध_064.007
आराध्य जगतो गतिम्__व्ध_064.007
धर्मोपदेशाद् अचलां__व्ध_064.008
वहन् भक्तिं जनार्दने__व्ध_064.008
सशरीरो गतः स्वर्गं__व्ध_064.008
धर्मपुत्रो युधिष्ठिरः__व्ध_064.008
तथैव जनकः कृष्णे__व्ध_064.009
विनिवेश्य स्वमानसम्__व्ध_064.009
अवाप परमां सिद्धिं__व्ध_064.009
वसुः प्रायात् त्रिपिष्टपम्__व्ध_064.009
अन्ये च ये ये मुनयो__व्ध_064.010
ये ये च वसुधाधिपाः__व्ध_064.010
अवापुर् अतुलान् कामांस्__व्ध_064.010
ते ते संतोष्य केशवम्__व्ध_064.010
अनाराध्य जगन्नाथं__व्ध_064.011
सर्वपापहरं हरिम्__व्ध_064.011
सद्गतिः केन संप्राप्ता__व्ध_064.011
भोगाश् चापि मनोरमाः__व्ध_064.011
द्रौणिब्रह्मास्त्रनिर्दग्धस्__व्ध_064.012
तव राजन् पितामहः__व्ध_064.012
विष्णोः कार्यमनुष्यस्य__व्ध_064.012
दर्शनाद् उत्थितः पुनः__व्ध_064.012
नामसंकीर्तनाद् यस्य__व्ध_064.013
पापम् अन्यैर् उपद्रवैः__व्ध_064.013
समं विनाशम् आयाति__व्ध_064.013
देवः को ऽभ्यधिकस् ततः__व्ध_064.013
राष्ट्रस्य शरणं राजा__व्ध_064.014
पितरौ बालकस्य च__व्ध_064.014
धर्मः समस्तमर्त्यानां__व्ध_064.014
सर्वस्य शरणं हरिः__व्ध_064.014
मुक्तिहेतुम् अनाद्यन्तम्__व्ध_064.015
अजम् अक्षयम् अच्युतम्__व्ध_064.015
नमस्यन् सर्वलोकस्य__व्ध_064.015
नमस्यो जायते नरः__व्ध_064.015
न हि तस्य गुणाः सर्वे__व्ध_064.016
सर्वैर् मुनिगणैर् अपि__व्ध_064.016
वक्तुं शक्या वियुक्तस्य__व्ध_064.016
सत्त्वाद्यैर् अखिलैर् गुणैः__व्ध_064.016
श्रुतं मया यथा पूर्वम्__व्ध_064.017
आर्यको मे युधिष्ठिरः__व्ध_064.017
सशरीरो गतः स्वर्गं__व्ध_064.017
जितम् आत्मीयकर्मभिः__व्ध_064.017
यत् त्व् एतद् भगवान् आह__व्ध_064.018
स यथा पाण्दुपूर्वजः__व्ध_064.018
धर्मोपदेशाद् गोविन्दम्__व्ध_064.018
आराधयत तद् वद__व्ध_064.018
पुरा शासति धर्मज्ञे__व्ध_064.019
धर्मपुत्रे युधिष्ठिरे__व्ध_064.019
तस्यैव वैश्वदेवान्ते__व्ध_064.019
चण्डालो ऽभ्यागमत् किल__व्ध_064.019
समुपेत्य गृहं तस्य__व्ध_064.020
धर्मपुत्रस्य विस्मितः__व्ध_064.020
उवाच श्वपचो द्वाःस्थं__व्ध_064.020
प्रश्रयावनतस्थितः__व्ध_064.020
कस्यैतद् भवनं दिव्यं__व्ध_064.021
मणिरत्नविभूषितम्__व्ध_064.021
शुद्धस्फटिकसोपानं__व्ध_064.021
मणिकाञ्चनतोरणम्__व्ध_064.021
अष्टाशीतिसहस्राणि__व्ध_064.022
ब्राह्मणानां दिने दिने__व्ध_064.022
युधिष्ठिरम् ऋते भूपं__व्ध_064.022
भुञ्जते कस्य वेश्मनि__व्ध_064.022
कथम् एतन् न जानीषे__व्ध_064.023
चन्द्रबिम्बम् इवापरम्__व्ध_064.023
युधिष्ठिरस्य भवनं__व्ध_064.023
देवराजगृहोपमम्__व्ध_064.023
अबलस्य बलं राजा__व्ध_064.024
बालस्य रुदितं बलम्__व्ध_064.024
बलं मूर्खस्य वै मौनं__व्ध_064.024
तस्करस्यानृतं बलम्__व्ध_064.024
गच्छ जल्प स्वराजानं__व्ध_064.025
प्रतीहार वचो मम__व्ध_064.025
दुःखार्तः कार्यवान् राजंश्__व्ध_064.025
चण्डालो द्वारि तिष्ठति__व्ध_064.025
केनापि हेतुमात्रेण__व्ध_064.*(81)
भवन्तं दुष्टम् आगतः__व्ध_064.*(81)
इत्य् उक्तो धर्मराजस्य__व्ध_064.026
प्रतीहारो यथोदितम्__व्ध_064.026
निवेदयाम् आस तथा__व्ध_064.026
धर्मराजो ऽब्रवीद् इदम्__व्ध_064.026
किं रूपं कीदृशं शीलं__व्ध_064.027
को ऽस्यार्थः किं प्रयोजनम्__व्ध_064.027
ब्रूहि द्वाःस्थ यथावन् मे__व्ध_064.027
नरस् तिष्ठति कीदृशः__व्ध_064.027
काककोकिलकृष्णाङ्गो__व्ध_064.028
भग्ननासारुणेक्षणः__व्ध_064.028
यवमध्यः कृशग्रीवो__व्ध_064.028
वक्रपादो महाहनुः__व्ध_064.028
ब्रूहि गच्छ दुराचारं__व्ध_064.029
चण्डालं पापकर्मिणम्__व्ध_064.029
देवकार्यस्य वेलायां__व्ध_064.029
दुतस् त्वं प्रत्युपस्थितः__व्ध_064.029
चण्डालपतितौ दृष्ट्वा__व्ध_064.030
नरः पश्येत भास्करम्__व्ध_064.030
स्नातस् त्व् एताव् अथालोक्य__व्ध_064.030
सचैलस्नानम् अर्हति__व्ध_064.030
इत्य् आज्ञप्ते तथोक्तस् तु__व्ध_064.031
चण्डालस् तेन वै ततः__व्ध_064.031
प्रत्युवाच प्रतीहारम्__व्ध_064.031
ईषन् मन्युपरिप्लुतः__व्ध_064.031
किं देवकार्येण नराधिपस्य__व्ध_064.032
कृत्वा हि मन्युं विषयस्थितानाम्__व्ध_064.032
तद् देवकार्यं स च यज्ञहोमो__व्ध_064.032
यद् अश्रुपाता न पतन्ति राष्ट्रे__व्ध_064.032
इदं वचनम् अव्यग्रं__व्ध_064.*(82)
प्रतीहार त्वरा मम__व्ध_064.*(82)
निवेदय स्वराजेन्द्रं__व्ध_064.*(82)
यथेष्टं स करोतु वै__व्ध_064.*(82)
इत्य् उक्तः सत्वरं गत्वा__व्ध_064.*(82)
धर्मराजं तथा तथं (?)__व्ध_064.*(82)
कथयाम् आस तत् सर्वं__व्ध_064.*(82)
चाण्डालेन यद् ईरितम्__व्ध_064.*(82)
सुशोभनम् इदं वाक्यं__व्ध_064.*(82)
न भवेद् अन्त्यजातिषु__व्ध_064.*(82)
चिन्तयित्वा ततो राजा__व्ध_064.*(82)
निर्जगाम युधिष्ठिरः__व्ध_064.*(82)
इत्य् एतद् वचनं श्रुत्वा__व्ध_064.033
निर्जगाम युधिष्ठिरः__व्ध_064.033
प्रत्युवाच च चण्डालम्__व्ध_064.033
ईषन् कोपसमन्वितः__व्ध_064.033
कुतस् ते भयम् उत्पन्नं__व्ध_064.034
येन त्वं गृहम् आगतः__व्ध_064.034
आवाधाकारणं सर्वं__व्ध_064.034
यथावत् कथयस्व मे__व्ध_064.034
तद् अहं ते प्रतिज्ञाय__व्ध_064.035
चण्डकर्मकरक्षणम्__व्ध_064.035
अपास्य देवकार्यार्थं__व्ध_064.035
प्रविश्याम्य् अन्तरं पुनः__व्ध_064.035
न भुञ्जते ब्राह्मणा मे__व्ध_064.036
सर्वाश् चोद्विजते जनः__व्ध_064.036
प्राणिहिंसा च नो वृत्तिर्__व्ध_064.036
देव पुष्णाति मे ऽनृतम्__व्ध_064.036
अनेकजन्मसाहस्रीं__व्ध_064.037
प्राप्य संसारपद्धतिम्__व्ध_064.037
मानुष्ये कुत्सितां जातिम्__व्ध_064.037
आपन्नो मुषितो ऽस्मि भोः__व्ध_064.037
कर्मभूमिम् इमां राजन्__व्ध_064.038
प्रार्थयन्ति दिवौकसः__व्ध_064.038
तां संप्राप्य वृथाजन्मा__व्ध_064.038
मुष्टो ऽस्मि कुरुसत्तम__व्ध_064.038
दुःखे दुःखाधिकान् पश्येत्__व्ध_064.039
सुखे पश्येत् सुखाधिकान्__व्ध_064.039
आत्मानं शोकहर्षाभ्यां__व्ध_064.039
शत्रुभ्याम् इव नार्पयेत्__व्ध_064.039
सो ऽहम् इच्छामि विज्ञातुम्__व्ध_064.040
अतिदुष्कृतकर्मकृत्__व्ध_064.040
वक्तुम् अर्हसि धर्मज्ञ__व्ध_064.040
कः पापिष्ठतरो मया__व्ध_064.040
अध्वानम् उपरि श्रान्तं__व्ध_064.041
ब्राह्मणं गृहम् आगतम्__व्ध_064.041
अनर्चयित्वा यो भुङ्क्ते__व्ध_064.041
स पापिष्ठतरस् त्वया__व्ध_064.041
मातरं पितरं चैव__व्ध_064.042
विकलं नेत्रदुर्बलम्__व्ध_064.042
यो नाभ्युद्धरते पुत्रः__व्ध_064.042
स पापिष्ठतरस् त्वया__व्ध_064.042
गोधनस्य तृषार्तस्य__व्ध_064.043
जलार्थं परिधावतः__व्ध_064.043
विघ्नम् आचरते यस् तु__व्ध_064.043
स पापिष्ठतरस् त्वया__व्ध_064.043
विवाहयित्वा यः कन्यां__व्ध_064.044
कुलजां शीलमण्डनाम्__व्ध_064.044
विना त्यजति दोषेण__व्ध_064.044
स पापिष्ठतरस् त्वया__व्ध_064.044
आशाकारस् त्व् अदाता यो__व्ध_064.045
दातुश् च प्रतिषेधकः__व्ध_064.045
दत्तं च यः कीर्तयति__व्ध_064.045
स पापिष्ठतरस् त्वया__व्ध_064.045
बहुभृत्यैर् दरिद्रैश् च__व्ध_064.046
धनं सन्तं द्विजोत्तमैः__व्ध_064.046
याचितो न प्रयच्छेद् यः__व्ध_064.046
स पापिष्ठतरस् त्वया__व्ध_064.046
ब्राह्मणः क्षत्रियो वापि__व्ध_064.047
वैश्यः शूद्रो ऽपि वा नरः__व्ध_064.047
स्वधर्मं संत्यजेद् यस् तु__व्ध_064.047
स पापिष्ठतरस् त्वया__व्ध_064.047
कृतार्थो ऽहं गमिष्यामि__व्ध_064.048
यशोधर्मम् अवाप्नुहि__व्ध_064.048
तुष्टो ऽस्म्य् अहं स्वया योन्या__व्ध_064.048
मत्तः प्रोक्तास् त्वयाधमाः__व्ध_064.048
देवतानाम् ऋषीणां च__व्ध_064.049
पितॄणां च कृतं मया__व्ध_064.049
सांप्रतं देशकालो ऽयं__व्ध_064.049
त्वम् एवात्र भवातिथिः__व्ध_064.049
चण्डालो ऽहं महाराज__व्ध_064.050
पतितो लोकवर्जितः__व्ध_064.050
कथं निहीनो वर्णेभ्यो__व्ध_064.050
भोक्ष्यामि भवतो गृहे__व्ध_064.050
चण्डालो भव पापो वा__व्ध_064.051
शत्रुर् वा पितृघातकः__व्ध_064.051
देशकालाभ्युपेतं त्वां__व्ध_064.051
भरणीयं हि वेद्म्य् अहम्__व्ध_064.051
दशसूनासमं चक्रं__व्ध_064.052
दशचक्रसमो ध्वजः__व्ध_064.052
दशध्वजसमा वेश्या__व्ध_064.052
दशवेश्यासमो नृपः__व्ध_064.052
दश सूनासहस्राणि__व्ध_064.053
कुरुते यो हि सौनिकः__व्ध_064.053
तेन तुल्यः स्मृतो राजा__व्ध_064.053
घोरस् तस्य प्रतिग्रहः__व्ध_064.053
नानागोत्रादिचरणा__व्ध_064.054
भुञ्जते ब्राह्मणा मम__व्ध_064.054
न ते वदन्ति वाग्दुष्टं__व्ध_064.054
यथैतत् कीर्तितं त्वया__व्ध_064.054
लोभात्मानो न जानीयुर्__व्ध_064.055
ब्राह्मणा राजकिल्बिषम्__व्ध_064.055
वरं स्वमांसम् अत्तव्यं__व्ध_064.055
न तु राजप्रतिग्रहम्__व्ध_064.055
राजकिल्बिषदग्धानां__व्ध_064.056
ब्राह्मणानां युधिष्ठिर__व्ध_064.056
छिन्नानाम् इव बीजानां__व्ध_064.056
पुनर्जन्म न विद्यते__व्ध_064.056
राजप्रतिग्रहो घोरो__व्ध_064.057
मध्वास्वादो विषोपमः__व्ध_064.057
बुधेन प्रतिहर्तव्यः__व्ध_064.057
स्वमांसस्येव भक्षणम्__व्ध_064.057
अधीत्य चतुरो वेदान्__व्ध_064.058
सर्वशास्त्रार्थतत्त्ववित्__व्ध_064.058
नरेन्द्रभवने भुङ्क्त्वा__व्ध_064.058
विष्ठायां जायते कृमिः__व्ध_064.058
निन्दसे सर्वराजानो__व्ध_064.059
न चात्मानं प्रशंससि__व्ध_064.059
धैर्यवान् आत्मनो ऽनिन्द्यो__व्ध_064.*(84)
नाश्वासार्थं च पृच्छसि__व्ध_064.*(84)
विमुक्तक्रोधहर्शश् च__व्ध_064.*(84)
को ऽप्य् अत्र प्रतिभासि नः__व्ध_064.*(84)
अनिन्द्यो निन्द्यरूपेण__व्ध_064.*(84)
महात्मा त्वं हि मे मतः__व्ध_064.*(84)
को भवान् ब्रूहि सत्यं मे__व्ध_064.*(84)
किमर्थम् इह चागतः__व्ध_064.*(84)
भवान् उपेन्द्रः शक्रो वा__व्ध_064.*(84)
शर्वो वा त्वं पिनाकधृक्__व्ध_064.*(84)
अथवा निन्द्यरूपेण__व्ध_064.059
पिता नस् त्वम् इहागतः__व्ध_064.059
ज्ञातो ऽस्मि पृथिवीपाल__व्ध_064.060
तुष्टश् च तव दर्शनात्__व्ध_064.060
नन्दन्तु भूमिभागास् ते__व्ध_064.060
येषु त्वं पृथिवीपतिः__व्ध_064.060
निर्जित्य परसैन्यानि__व्ध_064.061
क्षितिं धर्मेण पालय__व्ध_064.061
स्वल्पम् अप्य् अस्तु ते वेलां__व्ध_064.061
मा गोविन्दोज्झितं मनः__व्ध_064.061
किं मे राज्येन भोस् तात__व्ध_064.062
विषयैर् जीवितेन वा__व्ध_064.062
यो ऽहं सूनासहस्रैस् तु__व्ध_064.062
दशभिः परिवेष्टितः__व्ध_064.062
मा विषादं नरश्रेष्ठ__व्ध_064.063
समुपैहि युधिष्ठिर__व्ध_064.063
यज्ञेश्वरं यज्ञमूर्तिं__व्ध_064.063
त्वं च विष्णुं समाश्रितः__व्ध_064.063
येषां न विषये विप्रा__व्ध_064.064
यज्ञैर् यज्ञपतिं हरिम्__व्ध_064.064
यजन्ति भूभुजस् तेषाम्__व्ध_064.064
एतत् सूनोदितं फलम्__व्ध_064.064
येषां पाषण्डसंकीर्णं__व्ध_064.065
न राष्ट्रं ब्राह्मणोत्कटम्__व्ध_064.065
ते तु सूनासहस्राणां__व्ध_064.065
दशानां भागिनो नृपाः__व्ध_064.065
येषां न यज्ञपुरुषः__व्ध_064.066
कारणं पुरुषोत्तमः__व्ध_064.066
ते तु पापसमाचाराः__व्ध_064.066
सूनापापौघभागिनः__व्ध_064.066
त्वं तु मत्प्रभवस् तात__व्ध_064.067
विष्णुभक्तस् तथैव च__व्ध_064.067
इष्टिर् वैश्वानरी पापम्__व्ध_064.067
उपहंस्यति ते ऽखिलम्__व्ध_064.067
अवश्यं विषये कश्चिद्__व्ध_064.068
ब्राह्मणः संश्रितव्रतः__व्ध_064.068
इष्टिं वैश्वानरीं कॢप्तां__व्ध_064.068
निर्वपेद् अब्दपर्यये__व्ध_064.068
तस्य षड्भागमात्रेण__व्ध_064.068
त्वं पापं निर्दहिष्यसि__व्ध_064.068
स त्वं वरय भद्रं ते__व्ध_064.069
वरं यन् मनसेच्छसि__व्ध_064.069
सम्यक् श्रद्धासमाचाराद्__व्ध_064.069
अहम् आराधितस् त्वया__व्ध_064.069
अथ पातकभीतस् त्वं__व्ध_064.070
सर्वभावेन भारत__व्ध_064.070
विमुक्तान्यसमारम्भो__व्ध_064.070
नारायणपरो भव__व्ध_064.070
परः पराणाम् आद्यो ऽसौ__व्ध_064.071
ज्ञेयो ध्येयो जनार्दनः__व्ध_064.071
तदर्थम् अपि कर्माणि__व्ध_064.071
कुर्वन् पापं व्यपोहति__व्ध_064.071
लोभादिव्याप्तहृदयो__व्ध_064.072
यत् पापं कुरुते नरः__व्ध_064.072
विलयं याति तत् सर्वम्__व्ध_064.072
अच्युते हृदये स्थिते__व्ध_064.072
शमायालं जलं वह्नेस्__व्ध_064.073
तमसो भास्करादयः__व्ध_064.073
क्षान्तिः कलेर् अघौघस्य__व्ध_064.073
नामसंकीर्तनं हरेः__व्ध_064.073
प्रसन्नो यदि मे तात__व्ध_064.074
वरार्हो यदि चाप्य् अहम्__व्ध_064.074
वरं तद् एकम् एवैतं__व्ध_064.074
प्राप्तुम् इच्छाम्य् अहं पितः__व्ध_064.074
जाग्रत्स्वप्नसुषुप्तेषु__व्ध_064.075
योगस्थस्य सदा मम__व्ध_064.075
या काचिन् मनसो वृत्तिः__व्ध_064.075
सा भवत्व् अच्युताश्रया__व्ध_064.075
या या जायेत मे बुद्धिर्__व्ध_064.076
यावज् जीवाम्य् अहं पितः__व्ध_064.076
सा सा छिनत्तु संदेहान्__व्ध_064.076
कृष्णाप्तौ परिपन्थिनः__व्ध_064.076
यथा गोविन्दम् आराध्य__व्ध_064.077
सशरीरः सुरालयम्__व्ध_064.077
प्राप्नुयाम् इति मे तात__व्ध_064.077
प्रयच्छ प्रवरं वरम्__व्ध_064.077
एवम् एतद् अशेषं ते__व्ध_064.078
मत्प्रसादाद् भविष्यति__व्ध_064.078
नास्ति गोविन्दभक्तानां__व्ध_064.078
वाञ्छितं भुवि दुर्लभम्__व्ध_064.078
इति धर्मोपदेशेन__व्ध_064.079
सर्वदेववरं हरिम्__व्ध_064.079
आराध्य पाण्डवो यातः__व्ध_064.079
सशरीरः सुरालयम्__व्ध_064.079
भूयश् च शृणु राजेन्द्र__व्ध_065.001
जनकेन महात्मना__व्ध_065.001
यद् गीतं वहता भक्तिं__व्ध_065.001
ज्ञानम् आसाद्य केशवे__व्ध_065.001
सर्वत्र समदृष्टिं तं__व्ध_065.002
जनकं मिथिलेश्वरम्__व्ध_065.002
पश्यन्तम् अच्युतमयं__व्ध_065.002
सर्वं च सचराचरम्__व्ध_065.002
द्विजरूपं समास्थाय__व्ध_065.003
देवदेवो जनार्दनः__व्ध_065.003
उपतस्थे महाभागं__व्ध_065.003
प्रत्युवाच च पार्थिवम्__व्ध_065.003
राजञ् जनक भद्रं ते__व्ध_065.004
यद् ब्रवीमि निबोध तत्__व्ध_065.004
कुरुष्व च महाबुद्धे__व्ध_065.004
यदि साधु मतं तव__व्ध_065.004
पृथिवीं पृथिवीपालः__व्ध_065.005
पालयित्वा पिता तव__व्ध_065.005
स्वर्गं गतस् तथा भ्राता__व्ध_065.005
सम्यक् सत्यध्वजो नृपः__व्ध_065.005
त्वं पुनर् निरभीमानः__व्ध_065.006
सर्वत्र समदर्शनः__व्ध_065.006
रिपुमित्रादिवर्गेषु__व्ध_065.006
कथम् एतद् भविष्यति__व्ध_065.006
मित्रेषु मित्रवन् न त्वं__व्ध_065.007
नाहितेष्व् अरिवद् भवान्__व्ध_065.007
मध्यस्थभाग् न चैव त्वं__व्ध_065.007
तथोदासीनवृत्तिषु__व्ध_065.007
शब्दादयो ये विशयास्__व्ध_065.008
ते वैराग्यफला नृप__व्ध_065.008
नीत्या विहीनस् तु भवान्__व्ध_065.008
कथं राज्यं करिष्यति__व्ध_065.008
सर्वैर् नीतिं समास्थाय__व्ध_065.009
यथा ते प्रपितामहैः__व्ध_065.009
कृतं राज्यं तथा भूप__व्ध_065.009
कुरु मातिजडो भव__व्ध_065.009
तव प्रज्ञा मता ह्य् एषा__व्ध_065.010
मम मोहो महीपते__व्ध_065.010
त्रिवर्गसाधनं प्रज्ञा__व्ध_065.010
न धर्मादिविरोधिनी__व्ध_065.010
सम्यग् आह भवान् विप्र__व्ध_065.011
वाच्यम् एवं भवद्विधैः__व्ध_065.011
ममापि श्रूयतां वाक्यं__व्ध_065.011
भवतो यदि रोचते__व्ध_065.011
यदा सर्वगतो विष्णुः__व्ध_065.012
परमात्मा प्रजापतिः__व्ध_065.012
तदा मित्रादिमध्यस्थ-__व्ध_065.012
संज्ञा केषु निपात्यताम्__व्ध_065.012
पिता माता तथा भ्राता__व्ध_065.013
यदा नान्यज् जनार्दनात्__व्ध_065.013
पितृमातृमयीं संज्ञां__व्ध_065.013
तदा कुत्र करोम्य् अहम्__व्ध_065.013
सो ऽहं ब्रवीमि यद् वाक्यं__व्ध_065.014
तन् निबोध द्विजोत्तम__व्ध_065.014
अनेकरूपरूपो ऽयं__व्ध_065.014
विष्णुर् एवाखिलं जगत्__व्ध_065.014
विष्णुः पिता मे जगतः प्रतिष्ठा__व्ध_065.015
विष्णुर् माता विष्णुर् एवाग्रजो मे__व्ध_065.015
विष्णुर् गतिर् विष्णुमयस् तथास्मि__व्ध_065.015
विष्णौ स्थितो ऽस्म्य् अक्षगतश् च विष्णुः__व्ध_065.015
यो मे ममत्वोपगतः स विष्णुर्__व्ध_065.016
यश् चारिभूतो मम सो ऽपि विष्णुः__व्ध_065.016
दिवं वियद् भूः ककुभश् च विष्णुर्__व्ध_065.016
भूतानि विष्णुर् भुवनानि विष्णुः__व्ध_065.016
पश्यामि विष्णुं न परं ततो ऽन्यच्__व्ध_065.017
शृणोमि विष्णुं न परं ततो ऽन्यत्__व्ध_065.017
स्पृशामि विष्णुं न परं ततो ऽन्यज्__व्ध_065.017
जिघ्रामि विष्णुं न परं ततो ऽन्यत्__व्ध_065.017
रसामि विष्णुं न परं ततो ऽन्यन्__व्ध_065.018
मन्ये च विष्णुं न परं ततो ऽन्यत्__व्ध_065.018
जिघ्रामि विष्णुं न परं ततो ऽन्यच्__व्ध_065.*(85)
नमामि विष्णुं न परं ततो ऽन्यत्__व्ध_065.*(85)
बुध्यामि विष्णुं न परं ततो ऽन्यत्__व्ध_065.018
सर्वं हि विष्णुर् न परं ततो ऽन्यत्__व्ध_065.018
विष्णुः समस्तं न परं ततो ऽस्ति__व्ध_065.019
विष्णुः समस्तं न परं च देवः__व्ध_065.019
विष्णुः स्थारीयान् न परं ततो ऽस्ति__व्ध_065.*(86)
विष्णुर् लघीयान् न परं ततो ऽस्ति__व्ध_065.019
विष्णुर् गरीयान् न परं ततो ऽन्यत्__व्ध_065.019
यथा न विष्णुव्यतिरिक्तम् अन्यच्__व्ध_065.020
शृणोमि पश्यामि तथा स्पृशामि__व्ध_065.020
सत्येन तेनोपशमं प्रयान्तु__व्ध_065.020
दोषा विमुक्तेः परिपन्थिनो ये__व्ध_065.020
न मे ऽस्ति बन्धुर् न च मे ऽस्ति शत्रुर्__व्ध_065.021
न भूतवर्गो न जनो मदन्यः__व्ध_065.021
त्वं चाहं अन्ये च शरीरभेदैर्__व्ध_065.021
विभिन्नम् ईशस्य हरेः स्वरूपम्__व्ध_065.021
मूर्तामूर्तिविशेषं तु__व्ध_065.022
पश्यतस् तन्मयं द्विज__व्ध_065.022
क्रोधहर्षादयो भावाः__व्ध_065.022
स्थास्यन्ति हृदये कथम्__व्ध_065.022
स त्वं प्रसीद मोहो ऽयम्__व्ध_065.023
अथ चेन् मम सुव्रत__व्ध_065.023
तथापि मा रुषं कार्षीर्__व्ध_065.023
अचिकित्स्या हि मोहिताः__व्ध_065.023
बहुरूपस् ततो रूपं__व्ध_065.024
शङ्खचक्रगदाधरम्__व्ध_065.024
दर्शयाम् आस सुप्रीतो__व्ध_065.024
जनकाय जनार्दनः__व्ध_065.024
ततस् तद्दर्शनाद् भूपं__व्ध_065.025
शिरसा प्रणतं प्रभुः__व्ध_065.025
आद्यः प्रजापतिपतिः__व्ध_065.025
प्रत्युवाचाच्युतो हरिः__व्ध_065.025
वरं वरय भूपाल__व्ध_065.026
परितुष्टो ऽस्मि ते ऽनघ__व्ध_065.026
मय्य् अर्पितमनोबुद्धेः__व्ध_065.026
सदैवाहं न दुर्लभः__व्ध_065.026
यदि देव प्रसन्नो ऽसि__व्ध_065.027
सम्यग् आराधितो मया__व्ध_065.027
तद् वृणोमि वरं भक्तिस्__व्ध_065.027
त्वय्य् एवास्तु सदा मम__व्ध_065.027
एवं भविष्यतीत्य् उक्त्वा__व्ध_065.028
गतो ऽन्तर्धानम् ईश्वरः__व्ध_065.028
सो ऽपि लेभे लयं विष्णौ__व्ध_065.028
भक्त्या योगिसुदुर्लभम्__व्ध_065.028
इति कृष्णे नरव्याघ्र__व्ध_065.029
कुर्वन् भक्तिं नरः सदा__व्ध_065.029
प्राप्नोति पुरुषव्याघ्र__व्ध_065.029
मुक्तिं चाप्य् अतिदुर्लभाम्__व्ध_065.029
जगद्धातुर् अनन्तस्य__व्ध_066.001
वासुदेवस्य भार्गव__व्ध_066.001
ममावतारान् अखिलाञ्__व्ध_066.001
श्रोतुम् इच्छा प्रवर्तते__व्ध_066.001
यथा यथा हि कृष्णस्य__व्ध_066.002
कथेयं कथ्यते त्वया__व्ध_066.002
जायते मनसः प्रीतिर्__व्ध_066.002
उद्भूतपुलकस् तथा__व्ध_066.002
मनःप्रीतिर् अनायासाद्__व्ध_066.003
अपुण्यचयसंक्षयः__व्ध_066.003
प्राप्यते पुरुषैर् ब्रह्मञ्__व्ध_066.003
शृण्वद्भिर् भगवत्कथाम्__व्ध_066.003
स कुरुष्वामलमते__व्ध_066.004
प्रसादप्रवणं मनः__व्ध_066.004
अवतारान् सुरेशस्य__व्ध_066.004
विष्णोर् इच्छामि वेदितुम्__व्ध_066.004
जगद्गुरुं जगद्योनिम्__व्ध_066.005
अनन्तम् उदकेशयम्__व्ध_066.005
नारायणं पुराकल्पे__व्ध_066.005
पृष्टवान् कमलोद्भवः__व्ध_066.005
विनिर्जग्मुर् मुखेभ्यस् तु__व्ध_066.006
ब्रह्मणो व्यक्तजन्मनः__व्ध_066.006
ओंकारप्रवणा वेदा__व्ध_066.006
जग्मुस् ते च रसातलम्__व्ध_066.006
एकार्णवे जगत्य् अस्मिन्__व्ध_066.007
ब्रह्मण्य् अमिततेजसि__व्ध_066.007
कृष्णनाभिह्रदोद्भूत-__व्ध_066.007
कमलोदरशायिनि__व्ध_066.007
भोगिशय्याशयः कृष्णो__व्ध_066.008
द्वितीयां तनुम् आत्मनः__व्ध_066.008
कृत्वा मीनमयीं सद्यः__व्ध_066.008
प्रविवेश रसातलम्__व्ध_066.008
वेदमूर्तिस् ततो वेदान्__व्ध_066.009
आनिन्ये ब्रह्मणो ऽन्तिकम्__व्ध_066.009
मधुकैटभाभ्यां च पुनर्__व्ध_066.009
भोगिशय्यागतो हरिः__व्ध_066.009
हृतान् हयशिरा भूत्वा__व्ध_066.009
वेदान् आहृतवान् रसात्__व्ध_066.009
आहृतेष्व् अथ वेदेषु__व्ध_066.010
देवदेवं पितामहः__व्ध_066.010
तुष्टाव प्रणतो भक्त्या__व्ध_066.010
तस्य चाविर् बभौ हरिः__व्ध_066.010
अथामरगुरुं विष्णुम्__व्ध_066.011
अनन्तम् अजम् अव्ययम्__व्ध_066.011
उवाच प्रकटीभूतं__व्ध_066.011
प्रणिपत्याब्जसंभवः__व्ध_066.011
नमः सूक्ष्मातिसूक्ष्माय__व्ध_066.012
नमस् तुभ्यं त्रिमूर्तये__व्ध_066.012
बहुरूपादिमध्यान्त__व्ध_066.012
परिणामविवर्जित__व्ध_066.012
जगदीशस्य सर्वस्य__व्ध_066.013
जगतः सर्वकामद__व्ध_066.013
अहम् आत्मभवो देव__व्ध_066.013
त्वयाध्यक्षो निरूपितः__व्ध_066.013
सो ऽहम् इच्छामि तं ज्ञातुम्__व्ध_066.014
आत्मानं प्रभवाव्ययम्__व्ध_066.014
विश्वस्य च विरूपस्य__व्ध_066.014
स्थावरस्य चरस्य च__व्ध_066.014
यदि ते ऽनुग्रहकृता__व्ध_066.015
मयि बुद्धिर् जनार्दन__व्ध_066.015
तन् मां भक्त इति ज्ञात्वा__व्ध_066.015
कथयात्मानम् अच्युत__व्ध_066.015
कथयामि तवात्मानम्__व्ध_066.016
अनाख्यागोदरं परम्__व्ध_066.016
न वाचां विषये यो ऽसाव्__व्ध_066.016
अविशेषणलक्षणः__व्ध_066.016
प्रसादसुमुखः सो ऽहम्__व्ध_066.017
इमं यच्छामि ते वरम्__व्ध_066.017
अनाख्यातस्वरूपं मां__व्ध_066.017
भवाञ् ज्ञास्यति योगतः__व्ध_066.017
भक्तो मां तत्त्वतो वेत्ति__व्ध_066.018
मयि भक्तिश् च ते परा__व्ध_066.018
मज्जिज्ञासा परा ब्रह्मंस्__व्ध_066.018
तेन जाता मतिस् तव__व्ध_066.018
एवम् उक्तस् ततो ब्रह्मा__व्ध_066.019
विष्णुना प्रभविष्णुना__व्ध_066.019
विष्णोः स्वरूपं जिज्ञासुर्__व्ध_066.019
युयोजात्मानम् आत्मना__व्ध_066.019
स ददर्शातिसूक्ष्मं च__व्ध_066.020
सूक्ष्मज्योतिष्य् अजं विभुम्__व्ध_066.020
नियुतार्धार्धमात्रेण__व्ध_066.020
व्याप्ताशेषचराचरम्__व्ध_066.020
आत्मानम् इन्द्ररुद्रार्क-__व्ध_066.021
चन्द्राश्विवसुमारुतान्__व्ध_066.021
खादीन्य् अथ च शब्दादीन्__व्ध_066.021
ददृशे च स तन्मयान्__व्ध_066.021
ये व्यक्ता ये तथाव्यक्ता__व्ध_066.022
भावा ये चापि पौरुषाः__व्ध_066.022
तांश् च तत्रातिसूक्ष्मो ऽपि__व्ध_066.022
दृष्टवान् अखिलान् विभुः__व्ध_066.022
ततः प्रणम्य देवेशम्__व्ध_066.023
अजम् आर्तिहरं हरिम्__व्ध_066.023
पितामहः प्रह्वतनुर्__व्ध_066.023
वाक्यम् एतद् उवाच ह__व्ध_066.023
ज्ञातं स्वरूपम् अज्ञात-__व्ध_066.024
स्वरूप भगवंस् तव__व्ध_066.024
मया न यद् वाग्विषये__व्ध_066.024
तत्रस्थं चाखिलं जगत्__व्ध_066.024
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि__व्ध_066.025
स्वरूपं यन् मया तव__व्ध_066.025
भगवञ् ज्ञातम् अज्ञातम्__व्ध_066.025
अनन्ताज नमो ऽस्तु ते__व्ध_066.025
यदि प्रसादं देव त्वं__व्ध_066.026
प्रकरोषि ममापरम्__व्ध_066.026
परमं चावतारेषु__व्ध_066.026
यद् रूपं तद् वदस्व मे__व्ध_066.026
केषु केषु मया ज्ञेयः__व्ध_066.027
स्थानेषु त्वम् अधोक्षज__व्ध_066.027
संभूतयो ममाचक्ष्व__व्ध_066.027
या भविष्यन्ति ते भुवि__व्ध_066.027
देवलोके नृलोके वा__व्ध_066.028
पाताले खे ऽन्यतो ऽपि वा__व्ध_066.028
संभूतयो यास् तु भवान्__व्ध_066.028
करिष्यति वदस्व ताः__व्ध_066.028
त्वं कर्ता सर्वभूतानां__व्ध_066.029
संहर्ता चेश्वरेश्वरः__व्ध_066.029
तवापि कर्ता नान्यो ऽस्ति__व्ध_066.029
स्वेच्छया क्रीडते भवान्__व्ध_066.029
अहं वेद्मि भवन्तं हि__व्ध_066.029
न तवान्यो ऽस्ति वेदिता__व्ध_066.029
यन् मां त्वं पृच्छसि ब्रह्मन्__व्ध_066.030
अवताराश्रितं परम्__व्ध_066.030
तत् ते सम्यक् प्रवक्ष्यामि__व्ध_066.030
निबोध मम सुव्रत__व्ध_066.030
मम प्रकृत्या संयोगः__व्ध_066.031
स्वेच्छया संप्रवर्तते__व्ध_066.031
देवेषु नॄषु तिर्यक्षु__व्ध_066.031
स्थावरेषु चरेषु च__व्ध_066.031
ममावताराः कार्यार्थं__व्ध_066.031
जगतश् चोपकारिणः__व्ध_066.031
यदा यदा हि धर्मस्य__व्ध_066.032
ग्लानिः समुपजायते__व्ध_066.032
अभ्युत्थानम् अधर्मस्य__व्ध_066.032
तदात्माङ्गं सृजाम्य् अहम्__व्ध_066.032
परित्राणाय साधूनां__व्ध_066.033
विनाशाय च दुष्कृतां__व्ध_066.033
धर्मसंस्थापनार्थाय__व्ध_066.033
संभवामि युगे युगे__व्ध_066.033
पूर्वोत्पन्नेषु भूतेषु__व्ध_066.034
नृदेवादिषु चाप्य् अहम्__व्ध_066.034
अनुप्रविश्य धर्मस्य__व्ध_066.034
करोमि परिपालनम्__व्ध_066.034
प्रविश्य च तथा पूर्वं__व्ध_066.035
तनुं धर्मभृतां वर__व्ध_066.035
जगतो ऽस्य जगत्सृष्टिं__व्ध_066.035
करोमि स्थितिपालनम्__व्ध_066.035
देवत्वे देविका चेष्टा__व्ध_066.036
तिर्यक्त्वे मम तामसी__व्ध_066.036
इच्छया मानुषत्वे च__व्ध_066.036
विचरामि नृचेष्टया__व्ध_066.036
प्रतिक्षणं च भूतेषु__व्ध_066.037
सृजामि जगतः स्थितिम्__व्ध_066.037
करोमि विद्यमानेषु__व्ध_066.037
धर्मसंस्थापनेषु च__व्ध_066.037
यद् वै धर्मोपकाराय__व्ध_066.038
यच् च दुष्टनिवर्हणम्__व्ध_066.038
चरितं मानुषादीनां__व्ध_066.038
तद् वै जानीहि मत्कृतम्__व्ध_066.038
यच् च पृच्छसि मां ब्रह्मन्__व्ध_066.039
काः काः संभूतयस् तव__व्ध_066.039
ताः शृणुष्व समासेन__व्ध_066.039
या भविष्यन्ति सांप्रतम्__व्ध_066.039
मत्स्येन भूत्वा पातालात्__व्ध_066.040
तव वेदाः समुद्धृताः__व्ध_066.040
मधुकैटभाभ्यां च हृता__व्ध_066.040
दत्ताश्वशिरसा मया__व्ध_066.040
त्वम् अप्य् अत्र महाभाग__व्ध_066.041
मदंशः कमलोदरात्__व्ध_066.041
मन्नाभिसंभवाज् जातः__व्ध_066.041
प्रजासृष्टिकरः परः__व्ध_066.041
एकार्णवं च यद् इदं__व्ध_066.042
ब्रह्मन् पश्यस्य् अशेषतः__व्ध_066.042
अस्मिन् वसुमतीं देवीं__व्ध_066.042
मग्नां पातालम् आगताम्__व्ध_066.042
वेदपादो यूपदंष्ट्रः__व्ध_066.043
क्रतुदन्तश् चितीमुखः__व्ध_066.043
अग्निजिह्वो दर्भरोमा__व्ध_066.043
ब्रह्मशीर्षो महातपाः__व्ध_066.043
अहोरात्रेक्षणधरो__व्ध_066.044
वेदाङ्गश्रुतिभूषणः__व्ध_066.044
आज्यनासः श्रुवस्तुण्डः__व्ध_066.044
सामघोषस्वरो महान्__व्ध_066.044
प्राग्वंशकायो द्युतिमान्__व्ध_066.045
नानादीक्षाभिर् आचितः__व्ध_066.045
दक्षिणाहृदयो योगी__व्ध_066.045
महासत्त्रमयो महान्__व्ध_066.045
उपकर्मेष्टिरुचिरः__व्ध_066.046
प्रवर्गावर्तभूषणः__व्ध_066.046
नानाच्छन्दोगतिपथो__व्ध_066.046
ब्रह्मोक्तिकर्मविक्रमः__व्ध_066.046
भूत्वा यज्ञवराहो ऽहम्__व्ध_066.047
इति ब्रह्मन् रसातलात्__व्ध_066.047
पृथिवीम् उद्धरिष्यामि__व्ध_066.047
स्थापयैष्यामि च स्थितौ__व्ध_066.047
पर्वतानां नदीनां च__व्ध_066.048
द्वीपादीनां च या स्थितिः__व्ध_066.048
तां च तद्वत् करिष्यामि__व्ध_066.048
शैलादीनाम् अनुक्रमात्__व्ध_066.048
हिरण्याक्षं च दुर्वृत्तं__व्ध_066.049
कश्यपस्यात्मसंभवम्__व्ध_066.049
तेनैव घातयिष्यामि__व्ध_066.049
रूपेणाहं प्रजापते__व्ध_066.049
उत्पाद्य पृथिवीं सम्यक्__व्ध_066.050
स्थापयित्वा यथा पुरा__व्ध_066.050
सृष्टिं ततः करिष्यामि__व्ध_066.050
त्वाम् आविश्य प्रजापतिम्__व्ध_066.050
जानासि कापिलं रूपं__व्ध_066.*(88)
प्रथमं पौरुषं मम__व्ध_066.*(88)
सर्वविद्याप्रणेतारं__व्ध_066.*(88)
त्वया वेदेषु दर्शितम्__व्ध_066.*(88)
रविमण्डलमध्यस्थम्__व्ध_066.*(88)
अग्नेर् यत् परमं पदम्__व्ध_066.*(88)
तत उत्सृज्य रूपाणि__व्ध_066.051
अमरादिविभेदतः__व्ध_066.051
व्यापयिष्यामि लोकांस् तु__व्ध_066.051
भूलोकादीम् अशेषतः__व्ध_066.051
सृष्टं जगद् इदं देव-__व्ध_066.052
मानुष्यादिविशेषणम्__व्ध_066.052
हिरण्यकशिपुर् दैत्यस्__व्ध_066.052
तापयिष्यति विक्रमात्__व्ध_066.052
व्यंसयित्वा वरांस् तस्य__व्ध_066.053
तैस् तैर् हेतुभिर् आत्मवान्__व्ध_066.053
नृसिंहरूपं कृत्वाहं__व्ध_066.053
घातयिष्यामि तं रिपुम्__व्ध_066.053
क्षीराब्दौ कूर्मरूपो ऽहं__व्ध_066.054
देवानां कमलोद्भव__व्ध_066.054
मन्दरं धारयिष्यामि__व्ध_066.054
पृष्ठेनामृतमन्थने__व्ध_066.054
हरिष्यति च देवानां__व्ध_066.055
यज्ञभागान् यदा बलिः__व्ध_066.055
तदाहं वामनो भूत्वा__व्ध_066.055
गत्वा तस्य महाध्वरम्__व्ध_066.055
वञ्चयित्वासुरपतिं__व्ध_066.056
करिष्यामि त्रिपिष्टपम्__व्ध_066.056
बलिं चापि करिष्यामि__व्ध_066.056
पातालतलवासिनम्__व्ध_066.056
अत्रेर् दत्त्वा वरं चैव__व्ध_066.057
तस्य पुत्रत्वम् आगतः__व्ध_066.057
दत्तात्रेयो भविष्यामि__व्ध_066.057
मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0