भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 161180

पापं कर्म च यत् किंचिद्__व्ध_046.009
ब्रह्महत्यासमं भवेत्__व्ध_046.009
शोछयेत् कपिलां दत्त्वा__व्ध_046.009
एतद् वै नात्र संशयः__व्ध_046.009
प्रासादा यत्र सौवर्णा__व्ध_046.010
वसोर्धारा च स्यन्दते__व्ध_046.010
गन्धर्वाप्सरसो यत्र__व्ध_046.010
तत्र गच्छन्ति गोप्रदाः__व्ध_046.010
प्रयच्छते यः कपिलां सवत्सां__व्ध_046.011
कांस्योपदोहां कनकाग्रशृङ्गीम्__व्ध_046.011
यान् यान् हि कामान् अभिवाञ्छते ऽसौ__व्ध_046.011
तांस् तान् अवाप्नोत्य् अमलांश् च लोकान्__व्ध_046.011
यावद् वत्सस्य द्वौ पादौ__व्ध_046.012
शिरश् चैव प्रदृश्यते__व्ध_046.012
तावद् गौः पृथिवी ज्ञेया__व्ध_046.012
यावद् गर्भं न मुञ्चति__व्ध_046.012
तस्मिन् काले प्रदातव्या__व्ध_046.012
विधिना या मयोदिता__व्ध_046.012
अन्तरिक्षगतो वत्सो__व्ध_046.013
यावद् योन्यां प्रदृश्यते__व्ध_046.013
तावद् गौः पृथिवी ज्ञेया__व्ध_046.013
यावद् गर्भं न मुञ्चति__व्ध_046.013
यावन्ति तस्य रोमाणि__व्ध_046.014
तावद्वर्षाणि मानवः__व्ध_046.014
हंसयुक्तेन यानेन__व्ध_046.*(53)
युक्तेनाप्सरसां गणैः__व्ध_046.*(53)
गन्धर्वाप्सरसोद्गीतैः__व्ध_046.014
स्वर्गलोके महीयते__व्ध_046.014
तिलधेनुं प्रवक्ष्यामि__व्ध_046.015
यश् चास्या विधिर् उत्तमः__व्ध_046.015
सुवर्णनाभिं यः कृत्वा__व्ध_046.015
सुखूरं कृष्णमार्गणाम्__व्ध_046.015
कुतपप्रस्तरस्थां तु__व्ध_046.016
तिलां कृत्वा प्रयत्नतः__व्ध_046.016
तिलैः प्रस्थादि तां दद्यात्__व्ध_046.016
सर्वरत्नैर् अलंकृताम्__व्ध_046.016
ससमुद्रद्रुमा चैव__व्ध_046.017
सशैलवनकानना__व्ध_046.017
चतुरन्ता भवेद् दत्ता__व्ध_046.017
पृथिवी नात्र संशयः__व्ध_046.017

कृष्णाजिने तिलां कृत्वा__व्ध_046.018
कृष्णां वा यदि वेतराम्__व्ध_046.018
राजतेषु तु पात्रेषु__व्ध_046.*(54)
कोणेषु मधुसर्पिषी__व्ध_046.*(54)
प्रीयतां धर्मराजेति__व्ध_046.018
यद् वा मनसि वर्तते__व्ध_046.018
यावज् जीवकृतं पापं__व्ध_046.018
तेन दानेन पूयते__व्ध_046.018
धनं प्राप्नोति पुण्येन__व्ध_047.001
मौनेनाज्ञां प्रयच्छति__व्ध_047.001
उपभोगं तु दानेन__व्ध_047.001
जीवितं ब्रह्मचर्यया__व्ध_047.001
अहिंसया परं रूपम्__व्ध_047.002
दीक्षया कुलजन्म च__व्ध_047.002
फलमूलाशनाद् राज्यं__व्ध_047.002
स्वर्गः पर्णाशनो भवेत्__व्ध_047.002
पयोभक्ष दिवं यान्ति__व्ध_047.003
स्नानेन द्रविणाधिकाः__व्ध_047.003
शाकं साधयतो राज्यं__व्ध_047.003
नाकपृष्ठम् अनाशनात्__व्ध_047.003
स्थण्डिले च शयानस्य__व्ध_047.004
गृहाणि शयनानि च__व्ध_047.004
चीरवल्कलधारिणां__व्ध_047.004
वस्त्राण्य् आभरणानि च__व्ध_047.004
शयनासनयानानि__व्ध_047.005
ये गता हि तपोवनम्__व्ध_047.005
अग्निप्रवेशी नियतं__व्ध_047.005
ब्रह्मलोके महीयते__व्ध_047.005
रसानां प्रतिसंहारात्__व्ध_047.006
सौभाग्यम् अभिजायते__व्ध_047.006
आमिषप्रतिषेधात् तु__व्ध_047.006
भवत्य् आयुष्मती प्रजा__व्ध_047.006
उदवासं वसेद् यस् तु__व्ध_047.007
नागानाम् अधिपो भवेत्__व्ध_047.007
सत्यवादी नरश्रेष्ठ__व्ध_047.007
देवतैह् सह मोदते__व्ध_047.007
कीर्तिर् भवति दानेन__व्ध_047.008
आरोग्यं चाप्य् अहिंसया__व्ध_047.008
द्विजशुश्रूषया राज्यं__व्ध_047.*(55)
द्विजत्वं चापि पुष्कलम्__व्ध_047.*(55)

द्विजशुश्रूषया राज्यं__व्ध_047.008
दिव्यरूपम् अवाप्नुते__व्ध_047.008
अन्नपानप्रदानेन__व्ध_047.009
कामभोगैस् तु तृप्यते__व्ध_047.009
दीपालोकप्रदानेन__व्ध_047.009
चक्षुष्माञ् जायते नरः__व्ध_047.009
गन्धमाल्यप्रदानेन__व्ध_047.010
तुष्टिर् भवति पुष्कला__व्ध_047.010
केशश्मश्रून् धारयतो ह्य्__व्ध_047.010
अग्रा भवति संततिः__व्ध_047.010
वाक्शौचं मनसः शौचं__व्ध_047.011
यच् च शौचं जलाश्रयम्__व्ध_047.011
त्रिभिः शौचैर् उपेतो यः__व्ध_047.011
स स्वर्गी नात्र संशयः__व्ध_047.011
ताम्रायसानां भण्डानां__व्ध_047.012
दाता रत्नाधिपो भवेत्__व्ध_047.012
लभते तु परं स्थानं__व्ध_047.012
बलवान् पुष्यते सदा__व्ध_047.012
धान्यं क्रमेणार्जितवित्तसंचयं__व्ध_048.001
विप्रे सुशीले ते प्रयच्छते यः__व्ध_048.001
वसुंधरा तस्य भवेत् सुतुष्टा__व्ध_048.001
धारा वसूनां प्रतिमुञ्चतीह__व्ध_048.001
पुष्पोपभोगं च फलोपभोगं__व्ध_048.002
यः पादपं स्पर्शयते द्विजाय__व्ध_048.002
स श्रीसमृद्धं बहुरत्नपूर्णं__व्ध_048.002
लभत्य् अधिष्ठानवरं समृद्धम्__व्ध_048.002
इन्धनानि च यो दद्याद्__व्ध_048.003
द्विजेभ्यः शिशिरागमे__व्ध_048.003
कायाग्निदीप्तिं सौभाग्यम्__व्ध_048.003
ऐश्वर्यं चाधिगच्छति__व्ध_048.003
छत्त्रप्रदानेन गृहं वरिष्ठं__व्ध_048.004
रथं तथोपानहसंप्रदानात्__व्ध_048.004
धुर्यप्रदानेन गवाम् तथैव__व्ध_048.004
लोकान् अवाप्नोति पुरंदरस्य__व्ध_048.004
स्वर्गीयम् अप्य् आह हिरण्यदानम्__व्ध_048.004
तथा वरिष्ठं कनकप्रदानम्__व्ध_048.004
नैवेशिकं सर्वगुणोपपन्नं__व्ध_048.005
प्रयच्छते यः पुरुषो द्विजाय__व्ध_048.005
स्वाध्यायचारित्रगुणान्विताय__व्ध_048.005
तस्यापि लोकाः प्रवरा भवन्ति__व्ध_048.005

यो ब्रह्मदेयां प्रददाति कन्यां__व्ध_048.006
भूमिप्रदानं च करोति विप्रे__व्ध_048.006
हिरण्यदानं च तथा विशिष्टं__व्ध_048.006
स शक्रो लोकं लभते दुरापम्__व्ध_048.006
सुचित्रवस्त्राभरणोपधानं__व्ध_048.007
दद्यान् नरो यः शयनं द्विजाय__व्ध_048.007
रूपान्वितां दक्षवतीं मनोज्ञां__व्ध_048.007
भार्याम् अयत्नोपचितां लभेत् सः__व्ध_048.007
लवणस्य तु दातारस्__व्ध_048.008
तिलानां सर्पिषस् तथा__व्ध_048.008
तेजस्विनो ऽभिजायन्ते__व्ध_048.008
भोगिनष् चिरजीविनः__व्ध_048.008
स्वर्गे ऽप्सरोभिः सह भुक्तभोगस्__व्ध_048.*(56)
ततश् च्युतः शीलवतीं स भार्याम्__व्ध_048.*(56)
रूपान्वितां दक्षवतीं सुरक्तां__व्ध_048.*(56)
सुखेन धर्मेण तथापि काले__व्ध_048.*(56)
तस्यैव सार्धं सुरलोकम् एति__व्ध_048.*(56)
तस्यैव चान्यत् पुनर् एति जन्म__व्ध_048.*(56)
कीदृग्विधास्व् अवस्थासु__व्ध_049.001
दत्तं दानं जनार्दन__व्ध_049.001
इहलोकेष्व् अनुभवेत्__व्ध_049.001
पुरुषस् तद् ब्रवीहि मे__व्ध_049.001
गर्भस्थास्याथवा बाल्ये__व्ध_049.002
यौवने वार्द्धके ऽपि वा__व्ध_049.002
अवस्थां कृष्ण कथय__व्ध_049.002
परं कौतूहलं हि मे__व्ध_049.002
वृथाजन्मानि चत्वारि__व्ध_049.003
वृथादानानि षोडश__व्ध_049.003
अपुत्राणां वृथा जन्म__व्ध_049.003
ये च धर्मबहिष्कृताः__व्ध_049.003
परपाकं च ये ऽश्नन्ति__व्ध_049.003
परदाररताश् च ये__व्ध_049.003
पर्य् अस्थानं वृथा दानं__व्ध_049.004
सदोषं परिकीर्तितम्__व्ध_049.004
आरूढपतिते चैव__व्ध_049.004
अन्यायोपार्जितं च यत्__व्ध_049.004
व्यर्थं चाब्राह्मणे दानं__व्ध_049.005
पतिते तस्करे तथा__व्ध_049.005
गुरोश् चाप्रीतिजनके__व्ध_049.005
कृतघ्ने ग्रामयाजके__व्ध_049.005

ब्रह्मबन्धौ च यद् दत्तं__व्ध_049.006
यद् दत्तं वृषलीपतौ__व्ध_049.006
वेदविक्रयिणे चैव__व्ध_049.006
यस्य चोपपतिर् गृहे__व्ध_049.006
स्त्रीनिर्जितेषु यद् दत्तं__व्ध_049.007
व्यालग्राहे तथैव च__व्ध_049.007
परिचारके च यद् दत्तं__व्ध_049.007
वृथादानानि षोडश__व्ध_049.007
तमोवृतस् तु यो दद्याद्__व्ध_049.008
भयात् क्रोधात् तथैव च__व्ध_049.008
वृथा दानं तु तत् सर्वं__व्ध_049.008
भुङ्क्ते गर्भस्थ एव तु__व्ध_049.008
सेर्ष्यामन्युमनाश् चैव__व्ध_049.009
दम्भार्थं चार्थकारणात्__व्ध_049.009
यो ददाति द्विजातिभ्यः__व्ध_049.009
स बालत्वे तद् अश्नुते__व्ध_049.009
यः शुद्धिः प्रयतो भूत्वा__व्ध_049.*(58)
प्रसन्नमानसेन्द्रियः__व्ध_049.*(58)
प्रददाति द्विजातिभ्यो__व्ध_049.*(58)
यौवनस्थस् तद् अश्नुते__व्ध_049.*(58)
देशे देशे च पात्रे च__व्ध_049.010
यो ददाति द्विजातिषु__व्ध_049.010
मनसा परितुष्टेन__व्ध_049.010
यौवनस्थस् तद् अश्नुते__व्ध_049.010
तस्मात् सर्वास्व् अवस्थासु__व्ध_049.011
सर्वदानानि पार्थिव__व्ध_049.011
दातव्यानि द्विजातिभ्यः__व्ध_049.011
स्वर्गमर्गम् अभीप्सता__व्ध_049.011
त्रैलोक्य कृष्ण भूतानां__व्ध_050.001
सर्वलोकात्मको ह्य् असि__व्ध_050.001
नॄणां यदुवरश्रेष्ठ__व्ध_050.001
तुष्यसे केन कर्मणा__व्ध_050.001
ब्राह्मणैः पूजितैर् नित्यं__व्ध_050.002
पूजितो ऽहं न संशयः__व्ध_050.002
निर्भर्त्सितैश् च निर्भग्नस्__व्ध_050.002
तस्याहं सर्वकर्मसु__व्ध_050.002
विप्रापरा गतिर् मह्यं__व्ध_050.003
यस् तान् पूजयते नृप__व्ध_050.003
तम् अहं तेन रूपेण__व्ध_050.003
प्रपश्यामि युधिष्ठिर__व्ध_050.003

काणाः कुब्जाश् च खञ्जाश् च__व्ध_050.004
दरिद्रा व्याधिताश् च ये__व्ध_050.004
नावमन्येद् द्विजान् प्राज्ञो__व्ध_050.004
मम रूपं हितं तथा__व्ध_050.004
बहवो ऽपि न जानन्ते__व्ध_050.005
नरा ज्ञानबहिष्कृताः__व्ध_050.005
यथाहं द्विजरूपेण__व्ध_050.005
चरामि पृथिवीतले__व्ध_050.005
ये केचित् सागरान्तायां__व्ध_050.006
पृथिव्यां कीर्तिता द्विजाः__व्ध_050.006
तद् रूपं हि परं मह्यं__व्ध_050.006
यो ऽर्चयेद् अर्चयेत् तु सः__व्ध_050.006
तद्रूपान् घ्नन्ति ये विप्रान्__व्ध_050.007
विकर्मसु च युञ्जन्ति__व्ध_050.007
अप्रेषणे प्रेषयन्तो__व्ध_050.007
दासत्वं कारयन्ति हि__व्ध_050.007
मृतांस् तान् करपत्त्रेन__व्ध_050.008
यमदूता महाबलाः__व्ध_050.008
निकृन्तन्ति यथा काष्ठं__व्ध_050.008
सूत्रमार्गेण शिल्पिनः__व्ध_050.008
ये चैवाश्लक्ष्णया वाचा__व्ध_050.009
तर्जयन्ति नराधमाः__व्ध_050.009
वदन्ति क्रोधनिःस्पर्शं__व्ध_050.009
पादेनाभिहनन्ति च__व्ध_050.009
मृतांस् तान् यमलोकेषु__व्ध_050.010
निहत्य धरणीतले__व्ध_050.010
उरः पादेन चाक्रम्य__व्ध_050.010
क्रोधसंरक्तलोचनः__व्ध_050.010
अग्निवर्णैश् च संदंशैर्__व्ध_050.010
जिह्वाम् उद्धरते यमः__व्ध_050.010
पापाश् च नारके वह्नौ__व्ध_050.*(59)
धास्यन्ते यमकिंकरैः__व्ध_050.*(59)
ये तु विप्रान् निरीक्षन्ति__व्ध_050.011
पापाः पापेन चक्षुषा__व्ध_050.011
अब्रह्मण्याः श्रुतेर् बाह्या__व्ध_050.011
नित्यं ब्रह्मद्विषो नराः__व्ध_050.011
तेषां घोरा महाकाया__व्ध_050.012
वज्रतुण्डा भयानकाः__व्ध_050.012
उद्धरन्ति मुहूर्तेन__व्ध_050.012
चक्षुः काका यमाज्ञया__व्ध_050.012

यस् ताडयति विप्रांस् तु__व्ध_050.013
क्षतं कुर्यात् सशोणितम्__व्ध_050.013
अस्थिभङ्गं च यः कुर्यात्__व्ध_050.013
प्राणैर् वापि वियोजयेत्__व्ध_050.013
ब्रह्मघ्नः सो ऽनुपूर्वेण__व्ध_050.014
नरके वसुधाधिप__व्ध_050.014
कीलैर् विनिहतः पापो__व्ध_050.014
मीरायां पच्यते भृशम्__व्ध_050.014
सुबहूनि सहस्राणि__व्ध_050.015
वर्षाणां क्लेशभाग् भवेत्__व्ध_050.015
रवान् मुञ्चति दुर्बुद्धिर्__व्ध_050.015
न तस्मै निष्कृतिः स्मृता__व्ध_050.015
तस्माद् विप्रा नरश्रेष्ठ__व्ध_050.016
नमस्कार्याश् च नित्यशः__व्ध_050.016
अन्नपानप्रदानैस् तु__व्ध_050.016
पूजार्हाः सततं द्विजाः__व्ध_050.016
आमन्त्रयित्वा यो विप्रान्__व्ध_050.017
गन्धैर् माल्यैश् च मानवः__व्ध_050.017
तर्पयेच् छ्रद्धया युक्तः__व्ध_050.017
स माम् अर्चयते सदा__व्ध_050.017
स मां प्रसादयेच् चैव__व्ध_050.017
स च मां परितोषयेत्__व्ध_050.017
तपोदमान्वितेष्व् एव__व्ध_050.*(60)
नित्यं पूजां प्रयोजयेत्__व्ध_050.*(60)
ये ब्राह्मणाः सो ऽहम् असंशयं नृप__व्ध_050.018
तेष्व् अर्चितेष्व् अर्चितो ऽहं यथावत्__व्ध_050.018
तेष्व् एव तुष्टेष्व् अहम् एव तुष्टो__व्ध_050.018
वैरं च तैर् यस्य ममापि वैरम्__व्ध_050.018
सुगन्धिधूपादिभिर् अभ्यर्च्य विप्रं__व्ध_050.*(61),001
तम् अच्युतं नार्चयते सदैव__व्ध_050.*(61),002
यो भक्षतोयादिभिर् अन्नपानैर्__व्ध_050.*(61),003
अनुलेपाचमनप्रदानैः__व्ध_050.*(61),004
यः पूजयेद् भोजयित्वा द्विजाग्र्यान्__व्ध_050.*(61),005
संपूजयित्वा परितोषयेच् च__व्ध_050.*(61),006
अर्घ्यादिना ये ऽभिपूज्य__व्ध_050.*(61),007
पूजयन्ति सदाच्युतम्__व्ध_050.*(61),007
तेनैव माम् एव सदा__व्ध_050.*(61),008
पूजयन्ति न संशयः__व्ध_050.*(61),008
विरूपाश् च सुरूपाश् च__व्ध_050.*(61),009
विजनान् निष्कलान् अपि__व्ध_050.*(61),009

कृपया भावितात्मानो__व्ध_050.*(61),010
ये ऽर्चयन्ति द्विजोत्तमान्__व्ध_050.*(61),010
अनसूया हितात्मानो__व्ध_050.*(61),011
विप्रान् आराधते क्वचित्__व्ध_050.*(61),011
असंशयं सदा भक्त्या__व्ध_050.*(61),012
माम् एवार्चयते हि सः__व्ध_050.*(61),012
ततः पवित्रम् अतुलं__व्ध_050.*(61),013
न पुण्यम् अधिकं ततः__व्ध_050.*(61),013
यश् चन्दनैः सागरुगन्धमाल्यैर्__व्ध_050.019
अभ्यर्चयेद् दारुमयीं ममार्चाम्__व्ध_050.019
नासौ ममार्चाम् अर्चयते ऽर्चयन् वै__व्ध_050.019
विप्रार्चनाद् अर्चित एव चाहम्__व्ध_050.019
विप्रप्रसादान् मध एव चाहं__व्ध_050.020
विप्रप्रसादाद् असुराञ् जयामि__व्ध_050.020
विप्रप्रसादात् पुरुषोत्तमत्वं__व्ध_050.020
विप्रप्रसादाद् अजितो ऽस्मि नित्यम्__व्ध_050.020
सायं प्रातश् च यः संध्याम्__व्ध_051.001
उपास्ते ऽस्कन्नमानसः__व्ध_051.001
जपन् हि पावनीं देवीं__व्ध_051.001
गायत्रीं वेदमातरम्__व्ध_051.001
स तया पावितो देव्या__व्ध_051.002
ब्राह्मणः पूतकिल्बिषः__व्ध_051.002
न सीदेत् प्रतिगृह्णानः__व्ध_051.002
पृथिवीं तु ससागराम्__व्ध_051.002
ये चान्ये दारुणाः केचिद्__व्ध_051.003
ग्रहाः सूर्यादयो दिवि__व्ध_051.003
ते चास्य सौम्या जायन्ते__व्ध_051.003
शिवाः शिवतमाह् सदा__व्ध_051.003
यत्रतत्रगतं चैनं__व्ध_051.004
दारुणाः पिशिताशनाः__व्ध_051.004
घोररूपा महाकाया__व्ध_051.004
न कर्षन्ति द्विजोत्तमम्__व्ध_051.004
यावन्तश् च पृथिव्यां हि__व्ध_051.005
चीर्णवेदव्रता द्विजाः__व्ध_051.005
अचीर्णव्रतवेदा वा__व्ध_051.005
विकर्मपथम् आश्रिताः__व्ध_051.005
तेषां तु पावनार्थं हि__व्ध_051.006
नित्यम् एव युधिष्ठिर__व्ध_051.006
द्वे संध्ये ह्य् उपतिष्ठेत__व्ध_051.006
तद् अस्कन्नं महाव्रतम्__व्ध_051.006

नास्ति किंचिन् नरव्याघ्र__व्ध_051.007
दुष्कृतं ब्राह्मणस्य तु__व्ध_051.007
यत्र स्थितः सदाध्यात्मे__व्ध_051.007
द्वे संध्ये ह्य् उपतिष्ठति__व्ध_051.007
पूर्णाहुतिं वा प्राप्नोति__व्ध_051.008
जुहुते च त्रयो ऽघ्नयः__व्ध_051.008
दहन्ति दुष्कृतं तस्य__व्ध_051.008
अग्नयो नात्र संशयः__व्ध_051.008
एवं सर्वस्य विप्रस्य__व्ध_051.009
किल्बिषं निर्दहाम्य् अहम्__व्ध_051.009
उभे संध्ये ह्य् उपासिनस्__व्ध_051.009
तस्मात् सर्वशुचिर् द्विजः__व्ध_051.009
दैवे पित्र्ये च यत्नेन__व्ध_051.010
नियोक्तव्यो ऽजुगुप्सितः__व्ध_051.010
जुगुप्सितस् तु तच् छ्राद्धं__व्ध_051.010
दहत्य् अग्निर् इवेन्धनम्__व्ध_051.010
पुराणं मानवा धर्माः__व्ध_052.001
साङ्गो वेदश् चिकित्सितम्__व्ध_052.001
आज्ञासिद्धानि चत्वारि__व्ध_052.001
न हन्तव्यानि हेतुभिः__व्ध_052.001
हत्वा ह्य् एतानि संमूढः__व्ध_052.001
कल्पं तमसि पच्यते__व्ध_052.001
न ब्राह्मणं परीक्षेत__व्ध_052.002
श्राद्धकाले ह्य् उपस्थिते__व्ध_052.002
सुमहान् परिवादो हि__व्ध_052.002
ब्राह्मणानां परीक्षणे__व्ध_052.002
काणाः कुण्ठाश् च षण्डाश् च__व्ध_052.003
दरिद्रा व्याधितास् तथा__व्ध_052.003
सर्वे श्राद्धे नियोक्तव्या__व्ध_052.003
मिश्रिता वेदपारगैः__व्ध_052.003
अक्षयं तु भवेच् छ्राद्धम्__व्ध_052.003
एतद् धर्मविदो विदुः__व्ध_052.003
ब्राह्मणो हि महद् भूतं__व्ध_052.004
जन्मना सह जायते__व्ध_052.004
लोका लोकेश्वराश् चापि__व्ध_052.004
सर्वे ब्राह्मणपूजकाः__व्ध_052.004
ब्राह्मणाः कुपिता हन्युर्__व्ध_052.005
भस्म कुर्युश् च तेजसा__व्ध_052.005
लोकान् अन्यान् सृजेयुश् च__व्ध_052.005
लोकपालांस् तथापरान्__व्ध_052.005

ब्राह्मणा हि महात्मानो__व्ध_052.006
विरजाः स्वर्गसंक्रमाः__व्ध_052.006
ब्राह्मणानां परीवादाद्__व्ध_052.006
असुराः सलिलेशयाः__व्ध_052.006
अपेयः सागरो यैस् तु__व्ध_052.007
कृतः कोपान् महात्मभिः__व्ध_052.007
येषां कोपाग्निर् अद्यापि__व्ध_052.007
दण्डके नोपशाम्यति__व्ध_052.007
एते स्वर्गस्य नेतारो__व्ध_052.008
भूमिदेवाः सनातनाः__व्ध_052.008
एभिश् चाधिकृतः पन्था__व्ध_052.008
देवयानः स उच्यते__व्ध_052.008
ते पूज्यास् ते नमस्कार्यास्__व्ध_052.009
तेषु सर्वं प्रतिष्ठितम्__व्ध_052.009
ते वै लोकान् इमान् सर्वान्__व्ध_052.009
धारयन्ति परस्परम्__व्ध_052.009
प्रमाणं सर्वलोकानां__व्ध_052.010
नियता ब्रह्मचारिणः__व्ध_052.010
तान् अपाश्रित्य तिष्ठन्ते__व्ध_052.010
त्रयो लोकाः सनातनाः__व्ध_052.010
गूढस्वाध्यायतपसो__व्ध_052.011
ब्राह्मणाः संशितव्रताः__व्ध_052.011
विद्यास्नाता व्रतस्नाता__व्ध_052.011
अनपाश्रित्यजीविनः__व्ध_052.011
आशीविषा इव क्रुद्धा__व्ध_052.012
उपचर्या हि ब्राह्मणाः__व्ध_052.012
तपसा दीप्यमानास् ते__व्ध_052.012
दहेयुः सागरान् अपि__व्ध_052.012
ब्राह्मणेषु च तुष्टेषु__व्ध_052.013
तुष्यन्ते सर्वदेवताः__व्ध_052.013
ब्राह्मणानां नमस्कारैः__व्ध_052.013
सूर्यो दिवि विराजते__व्ध_052.013
ब्राह्मणानां परीवादात्__व्ध_052.013
पतेयुर् अपि देवताः__व्ध_052.013
धुरि ये नावसीदन्ति__व्ध_052.014
प्रणीते यज्ञवह्नयः__व्ध_052.014
भोजनाच्छादनैर् दानैस्__व्ध_052.014
तारयन्ति तपोधनाः__व्ध_052.014
ते गतिः सर्वभूतानाम्__व्ध_052.015
अध्यात्मगतिचिन्तकाः__व्ध_052.015

आदिमध्यावसानानां__व्ध_052.015
ज्ञानानां छिन्नसाम्शयाः__व्ध_052.015
परापरविशेषज्ञा__व्ध_052.016
नेतारः परमां गतिम्__व्ध_052.016
अवध्या ब्राह्मणास् तस्मात्__व्ध_052.016
पापेष्व् अपि रताः सदा__व्ध_052.016
यश् च सर्वम् इदं हन्याद्__व्ध_052.017
ब्राह्मणं वापि तत्समम्__व्ध_052.017
सो ऽग्निः सो ऽर्को महातेजा__व्ध_052.018
विषं भवति कोपितः__व्ध_052.018
भूतानां अग्रभुग् विप्रो__व्ध_052.018
वर्णश्रेष्ठः पिता गुरुः__व्ध_052.018
न स्कन्दते न व्यथते__व्ध_052.019
न च नश्यति कर्हिचित्__व्ध_052.019
वरिष्ठम् अग्निहोत्राद् धि__व्ध_052.019
ब्राह्मणस्य मुखे हुतम्__व्ध_052.019
अविद्यो वा सविद्यो वा__व्ध_052.020
ब्राह्मणो मम दैवतम्__व्ध_052.020
प्रणीतश् चाप्रणीतश् च__व्ध_052.020
यथाग्निर् दैवतं महत्__व्ध_052.020
एवं विद्वान् अविद्वान् वा__व्ध_052.*(63)
ब्राह्मणो दैवतं महत्__व्ध_052.*(63)
श्मशानेष्व् अपि तेजस्वी__व्ध_052.021
पावको नैव दुष्यति__व्ध_052.021
हव्यकव्यव्यपेतो ऽपि__व्ध_052.021
ब्राह्मणो नैव दुष्यति__व्ध_052.021
सर्वथा ब्राह्मणाः पूज्याः__व्ध_052.022
सर्वथा दैवतं महत्__व्ध_052.022
तस्मात् सर्वप्रयत्नेन__व्ध_052.022
रक्षेद् आपत्सु ब्राह्मणान्__व्ध_052.022
शक्रो ऽपि हि द्विजेन्द्राणां__व्ध_052.022
बिभेति विबुधाधिपः__व्ध_052.022
दानं देवाः प्रशंसन्ति__व्ध_053.001
इति धर्मविदो विदुः__व्ध_053.001
नानादानविधिं तस्माच्__व्ध_053.001
शृणुष्व सुसमाहितः__व्ध_053.001
हिरण्यदानं गोदानं__व्ध_053.002
पृथिवीदानम् एव च__व्ध_053.002
एतानि वै पवित्राणि__व्ध_053.002
तारयन्ति परत्र च__व्ध_053.002

यद् यद् इष्टतमं लोके__व्ध_053.003
यच् चास्ति दयितं गृहे__व्ध_053.003
तत् तद् गुणवते देयं__व्ध_053.003
तद् एवाक्षयम् इच्छता__व्ध_053.003
सुवर्णदानं गोदानं__व्ध_053.004
पृथिवीदानम् एव च__व्ध_053.004
एतत् प्रयच्छमानो वै__व्ध_053.004
सर्वपापैः प्रमुच्यते__व्ध_053.004
यद् ददासि विशिष्टेभ्यो__व्ध_053.005
यच् चाश्नासि दिने दिने__व्ध_053.005
तत् ते वित्तम् अहं मन्ये__व्ध_053.005
शेषं कस्यापि रक्षसि__व्ध_053.005
तुल्यनामानि शस्तानि__व्ध_053.006
त्रीणि तुल्यफलानि च__व्ध_053.006
नित्यं देयानि राजेन्द्र__व्ध_053.006
गावः पृथ्वी सरस्वती__व्ध_053.006
तद्वज् जलम् अमित्रघ्न__व्ध_053.007
तत् तुल्यफलनामतः__व्ध_053.007
दत्त्वा तृप्तिम् अवाप्नोति__व्ध_053.007
यत्रतत्राभिजायते__व्ध_053.007
संकल्पविहितो यो ऽर्थो__व्ध_053.008
ब्राह्मणेभ्यः प्रदीयते__व्ध_053.008
अर्थिभ्यो ह्य् अर्थहेतुभ्यो__व्ध_053.008
मनस्वी तेन जायते__व्ध_053.008
सीदते द्विजमुख्याय__व्ध_053.009
यो ऽर्थिने न प्रयच्छति__व्ध_053.009
अमर्थे सति दुर्बुद्धिर्__व्ध_053.009
नरकायोपपद्यते__व्ध_053.009
धेनवो ऽनडुहश् चैव__व्ध_053.010
छत्त्रं वस्त्रम् उपानहौ__व्ध_053.010
देयानि याचमानेभ्यः__व्ध_053.010
पानम् अन्नं तथैव च__व्ध_053.010
एवं दानं समुद्दिष्टं__व्ध_053.010
व्युष्टिमत् तारकं परम्__व्ध_053.010
एष ते विहितो यज्ञः__व्ध_053.011
श्रद्धापूतः सदक्षिणः__व्ध_053.011
विशिष्टः स च यज्ञेषु__व्ध_053.011
ददताम् अनसूयया__व्ध_053.011
दानविद्भिः कृतः पन्था__व्ध_053.012
येन यान्ति मनीषिणः__व्ध_053.012

यैर् दानैस् तर्पयिष्यन्ति__व्ध_053.012
श्रद्धापूतैर् द्विजोत्तमान्__व्ध_053.012
यथा हि सुकृते क्षेत्रे__व्ध_053.013
फलं विन्दति क्षेत्रिकः__व्ध_053.013
एवं दत्त्वा ब्राह्मणेभ्यो__व्ध_053.013
दाता फलम् उपाश्नुते__व्ध_053.013
ब्राह्मणाश् चैव विद्यन्ते__व्ध_053.014
सत्यवन्तो बहुश्रुताः__व्ध_053.014
न ददाति च दानानि__व्ध_053.014
मोघं तस्य धनार्जनम्__व्ध_053.014
उत्थायोत्थाय बोद्धव्यं__व्ध_053.015
किम् अद्य सुकृतं मया__व्ध_053.015
दत्तं वा दापितं वापि__व्ध_053.015
वोत्साह्यम् अपि वा कृतम्__व्ध_053.015
उत्थायोत्थाय दातव्यं__व्ध_053.016
ब्राह्मणेभ्यो युधिष्ठिर__व्ध_053.016
आगमिष्यति यत् पात्रं__व्ध_053.016
तत् पात्रं तारयिष्यति__व्ध_053.016
यच् च वेदमयं पात्रं__व्ध_053.017
यच् च पात्रं तपोमयम्__व्ध_053.017
असंकीर्णं च यत् पात्रं__व्ध_053.017
तत् पात्रं तारयिष्यति__व्ध_053.017
अध्यायं तपसो वक्ष्ये__व्ध_054.001
तन् मे निगदतः शृणु__व्ध_054.001
तपसो हि परं नास्ति__व्ध_054.001
तपसा विन्दते फलम्__व्ध_054.001
ऋषयस् तप आस्थाय__व्ध_054.002
मोदन्ते दैवतैः सह__व्ध_054.002
तपसा प्राप्यते स्वर्गं__व्ध_054.002
तपसा प्राप्यते यशः__व्ध_054.002
आयुःप्रकर्षं भोगांश् च__व्ध_054.003
तपसा विन्दते नरः__व्ध_054.003
ज्ञानं विज्ञानम् आस्तिक्यं__व्ध_054.003
सौभाग्यं रूपम् उत्तमम्__व्ध_054.003
तपसा लभ्यते सर्वं__व्ध_054.004
मनसा यद् यद् इच्छति__व्ध_054.004
नातप्ततपसो यान्ति__व्ध_054.004
ब्रह्मलोकं कदाचन__व्ध_054.004
यत् कार्यं किंचिद् आस्थाय__व्ध_054.005
पुरुषस् तप्यते तपः__व्ध_054.005

सर्वं तत् समवाप्नोति__व्ध_054.005
परत्रेह च मानवः__व्ध_054.005
सुरापः पारदारी च__व्ध_054.006
भ्रूणहा गुरुतल्पगः__व्ध_054.006
तपसा तरते सर्वं__व्ध_054.006
सर्वतश् च विमुच्यते__व्ध_054.006
अपि सर्वेश्वरः स्थाणुर्__व्ध_054.007
विष्णुश् चैव सनातनः__व्ध_054.007
ब्रह्मा हुताशनः शक्रस्__व्ध_054.007
तपस्यन्ति सनातनाः__व्ध_054.007
षडशीतिसहस्राणि__व्ध_054.008
मुनीनाम् ऊर्ध्वरेतसाम्__व्ध_054.008
तपसा दिवि मोदन्ते__व्ध_054.008
समेता दैवतैः सह__व्ध_054.008
तपसा प्राप्यते राज्यं__व्ध_054.009
शक्रः सर्वसुरेश्वरः__व्ध_054.009
तपसा पालयन् सर्वम्__व्ध_054.009
अहन्य् अहनि वृत्रहा__व्ध_054.009
सूर्याचन्द्रमसौ देवौ__व्ध_054.010
सर्वलोकहिते रतौ__व्ध_054.010
तपसैव प्रकाशेते__व्ध_054.010
नक्षत्राणि ग्रहास् तथा__व्ध_054.010
न चास्ति तत् सुखं लोके__व्ध_054.011
यद् विना तपसा किल__व्ध_054.011
तपसैव सुखं सर्वम्__व्ध_054.011
इति धर्मविदो विदुः__व्ध_054.011
विश्वामित्रश् च तपसा__व्ध_054.*(64)
ब्राह्मणत्वम् उपागतः__व्ध_054.*(64)
सर्वं च तपसाभ्येति__व्ध_054.012
सर्वं च सुखम् अश्नुते__व्ध_054.012
तपस् तप्यति यो ऽरण्ये__व्ध_054.012
मुनिर् मूलफलाशनः__व्ध_054.012
ऋचम् एकां अपि पठन्__व्ध_054.012
स याति परमां गतिम्__व्ध_054.012
तस्मात् तपः समास्थाय__व्ध_054.*(65)
प्रार्थयेद् यद् अभीप्सितम्__व्ध_054.*(65)
सत्यम् एव परं ब्रह्म__व्ध_055.001
सत्यम् एव परं तपः__व्ध_055.001
सत्यम् एव परो यज्ञः__व्ध_055.001
सत्यम् एव परं श्रुतम्__व्ध_055.001

सत्यं देवेषु जागर्ति__व्ध_055.001
मुक्तिः सत्यतरोः फलम्__व्ध_055.001
तपो यशश् च पुण्यं च__व्ध_055.002
पितृदेवर्षिपूजनम्__व्ध_055.002
आद्यो विधिश् च विद्या च__व्ध_055.002
सर्वं सत्ये प्रतिष्ठितम्__व्ध_055.002
सत्यं यज्ञस् तथा वेदा__व्ध_055.003
मन्त्रा देवी सरस्वती__व्ध_055.003
व्रतचर्या तथा सत्यम्__व्ध_055.003
ओंकारः सत्यम् एव च__व्ध_055.003
सत्येन वायुर् अभ्येति__व्ध_055.004
सत्येन तपते रविः__व्ध_055.004
सत्येन चाग्निर् दहति__व्ध_055.004
स्वर्गं सत्येन गच्छति__व्ध_055.004
सत्येन चापः क्षिपति__व्ध_055.004
पर्जन्यः पृथिवीतले__व्ध_055.004
पारणं सर्ववेदानां__व्ध_055.005
सर्वतीर्थावगहनह्__व्ध_055.005
सत्यं च वदतो लोके__व्ध_055.005
तत् समं स्यान् न संशयः__व्ध_055.005
अश्वमेधसहस्रं च__व्ध_055.006
सत्यं च तुलया धृतम्__व्ध_055.006
अश्वमेधसहस्राद् धि__व्ध_055.006
सत्यम् एतद् विशिष्यते__व्ध_055.006
मुनयः सत्यनिरता__व्ध_055.*(66)
मुनयः सत्यविक्रमाः__व्ध_055.*(66)
मुनयः सत्यप्रपथाः__व्ध_055.*(66)
परां सिद्धिम् इतो गताः__व्ध_055.*(66)
सत्येन देवाः प्रीयन्ते__व्ध_055.007
पितरो ब्राह्मणास् तथा__व्ध_055.007
सत्यम् आहुः परं धर्मं__व्ध_055.007
तस्मात् सत्यं न लोपयेत्__व्ध_055.007
मुनयः सत्यनिरतास्__व्ध_055.008
तस्मात् सत्यं विशिष्यते__व्ध_055.008
स्वर्गे सत्यपरा नित्यं__व्ध_055.008
मोदन्ते देवता इव__व्ध_055.008
अप्सरोगणसंकीर्णैर्__व्ध_055.009
विमानैर् उपयान्ति ते__व्ध_055.009
वक्तव्यं हि सदा सत्यं__व्ध_055.009
न सत्याद् विद्यते परम्__व्ध_055.009

एतत् प्रमाणं यः कुर्यात्__व्ध_055.*(67)
सर्वयज्ञफलं लभेत्__व्ध_055.*(67)
अगाधे विमले शुद्धे__व्ध_055.010
सत्यतीर्थे ह्रदे शुभे__व्ध_055.010
स्नातव्यं मनसा युक्तैः__व्ध_055.010
स्नानं तत् परमं स्मृतम्__व्ध_055.010
आत्मार्थे च परार्थे वा__व्ध_055.011
पुत्रार्थे वापि पार्थिव__व्ध_055.011
ये ऽनृतं नाभिभाषन्ते__व्ध_055.011
ते नराः स्वर्गगामिनः__व्ध_055.011
अपि चेदं पुरा गीतं__व्ध_055.012
धर्मविद्भिर् युधिष्ठिर__व्ध_055.012
यः सत्यवादी पुरुषो__व्ध_055.012
नानृतं परिभाषते__व्ध_055.012
संप्राप्य विरजांल् लोकान्__व्ध_055.013
उषित्वा शाश्वतीः समाः__व्ध_055.013
शुचीनां श्रीमतां गेहे__व्ध_055.013
जायते सुमहामतिः__व्ध_055.013
विद्यारोग्यसुखैश्वर्यैर्__व्ध_055.*(68)
युक्तो योगपरो भवेत्__व्ध_055.*(68)
आदित्यचन्द्राव् अनलानिलौ च__व्ध_055.014
द्यौर् भूमिर् आपो हृदयं यमश् च__व्ध_055.014
अहश् च रात्रिश् च उभे च संध्ये__व्ध_055.014
धर्मश् च जानाति नरस्य वृत्तम्__व्ध_055.014
तस्मान् न वाच्यम् अनृतं हि सद्भिर्__व्ध_055.015
एवंविधैर् धर्मविदो वदन्ति__व्ध_055.015
सत्यं वदंस् तेजसा दीप्यमानो__व्ध_055.015
न हीयते धर्मयशो ऽर्थकामैः__व्ध_055.015
एष वाणीकृतो धर्मो__व्ध_055.016
वैदिको धर्मनिश्चये__व्ध_055.016
एवम् एतद् यथान्यायं__व्ध_055.016
सत्याध्याये प्रकीर्तितम्__व्ध_055.016
तत् प्रमाणं बुधः कुर्यान्__व्ध_055.016
न सत्याद् विद्यते परम्__व्ध_055.016
सर्वेषाम् एव वर्णानां__व्ध_056.001
प्रवक्ष्यामि युधिष्ठिर__व्ध_056.001
उपोषितैश् च कौन्तेय__व्ध_056.001
यत् प्रयोज्यं यथाविधि__व्ध_056.001
फलं यद् उपवासस्य__व्ध_056.002
तन् निबोध च पाण्डव__व्ध_056.002

अवाप्नोति यथा कामान्__व्ध_056.002
उपवासपरायणः__व्ध_056.002
मयैते नृपते काम्या__व्ध_056.003
विहिता हितम् इच्छता__व्ध_056.003
उपवासा मनुष्याणां__व्ध_056.003
मय्य् एवार्पितचेतसाम्__व्ध_056.003
पञ्चमीं चैव षष्ठीं च__व्ध_056.004
पौर्णमासीं च पाण्डव__व्ध_056.004
उपोष्य रूपवान् धन्यः__व्ध_056.004
सुभगश् चैव जायते__व्ध_056.004
अष्टमीं चैव कौन्तेय__व्ध_056.005
शुक्लपक्षे चतुर्दशीम्__व्ध_056.005
उपोष्य व्याधिरहितो__व्ध_056.005
वीर्यवांश् चैव जायते__व्ध_056.005
मार्गशीर्षं तु यो मासं__व्ध_056.006
नित्यम् एकाशनो भवेत्__व्ध_056.006
कृषिभागी भवेद् राजन्__व्ध_056.006
बहुपुत्रश् च जायते__व्ध_056.006
पौषमासे तु राजेन्द्र__व्ध_056.007
भक्तेनैकेन यः क्षपेत्__व्ध_056.007
सुभगो दर्शनीयश् च__व्ध_056.007
ज्ञानभागी च जायते__व्ध_056.007
पितॄन् उद्दिश्य माघं तु__व्ध_056.008
यः क्षपेद् एकभोजनम्__व्ध_056.008
मासेन पुरुषव्याघ्र__व्ध_056.008
सो ऽनन्त्यं फलम् अश्नुते__व्ध_056.008
भगदैवतमासं तु__व्ध_056.009
यः क्षपेद् एकभोजनम्__व्ध_056.009
स्त्रीषु वल्लभतां याति__व्ध_056.009
वश्याश् चास्य भवन्ति ताः__व्ध_056.009
चैत्रं तु पुरुषव्याघ्र__व्ध_056.010
यः क्षपेद् एकभोजनम्__व्ध_056.010
मासेन पुरुषव्याघ्र__व्ध_056.*(69)
मौनन् तु फलम् अश्नुते (?)__व्ध_056.*(69)
भगदैवतमासं तु__व्ध_056.*(69)
यः क्षपेद् एकभोजनः__व्ध_056.*(69)
स्त्रीषु वल्लभतां याति__व्ध_056.*(69)
वश्याश् चास्य भवन्ति ताः__व्ध_056.*(69)
चैत्रं तु पुरुषव्याघ्र__व्ध_056.*(69)
यः क्षपेद् एकभोजनः__व्ध_056.*(69)

सुवर्णमणिमुक्ताढ्ये__व्ध_056.010,*(69)
कुले महति जायते__व्ध_056.010,*(69)
निस्तरेद् एकभक्तेन__व्ध_056.011,*(69)
वैशाखं यो नराधिप__व्ध_056.011,*(69)
नरो वा यदि वा नारी__व्ध_056.011
ज्ञातीनां श्रेष्ठतां व्रजेत्__व्ध_056.011
ज्येष्ठमासम् अपानीयम्__व्ध_056.012
एकभक्तेन यः क्षपेत्__व्ध_056.012
ऐश्वर्यं पुरुषव्याघ्र__व्ध_056.012
स्त्रीभागी चोपजायते__व्ध_056.012
आषाढं भरतश्रेष्ठ__व्ध_056.013
एकभक्तेन यः क्षपेत्__व्ध_056.013
शूरश् च बहुधान्यश् च__व्ध_056.013
बहुपुत्रश् च जायते__व्ध_056.013
श्रावणं तु नरव्याघ्र__व्ध_056.014
भक्तेनैकेन यः क्षपेत्__व्ध_056.014
यत्र यत्रोपपद्येत__व्ध_056.014
तत्र स्याज् ज्ञातिवर्धनः__व्ध_056.014
मासं भाद्रपदं राजन्न्__व्ध_056.015
एकभक्तेन यः क्षपेत्__व्ध_056.015
धनाढ्यो वीर्यवांश् चैव__व्ध_056.015
ऐश्वर्यं प्रतिपद्यते__व्ध_056.015
यः क्षपेद् एकभक्तेन__व्ध_056.016
मासम् आश्वयुजं नरः__व्ध_056.016
धनवान् वाहनाढ्यश् च__व्ध_056.016
बहुपुत्रश् च जायते__व्ध_056.016
कार्त्तिकं तु नरो मासं__व्ध_056.017
नित्यम् एकाशनो भवेत्__व्ध_056.017
शूरश् च बहुभार्यश् च__व्ध_056.017
कीर्तिमांश् चैव जायते__व्ध_056.017
एते मासा नरश्रेष्ठ__व्ध_056.018
एकभक्तेन कीर्तिताः__व्ध_056.018
तिथीनां नियमांश् चैव__व्ध_056.018
ताञ् शृणुष्व नराधिप__व्ध_056.018
पक्षे पक्षे चतुर्थं तु__व्ध_056.019
भक्तं यः क्षपयेन् नरः__व्ध_056.019
विपुलं धनम् आप्नोति__व्ध_056.019
भगवान् अग्निर् अब्रवीत्__व्ध_056.019
मासे मासे चतुर्थं तु__व्ध_056.020
भक्तम् एकं तु यः क्षपेत्__व्ध_056.020

कृषिभागी यशोभागी__व्ध_056.020
तेजस्वी चापि जायते__व्ध_056.020
पक्षे पक्षे त्रिरात्रं तु__व्ध_056.021
यः क्षपेन् नरपुङ्गव__व्ध_056.021
गणे घोषे पुरे ग्रामे__व्ध_056.021
माहात्म्यं प्रतिपद्यते__व्ध_056.021
मासे मासे त्रिरात्रं तु__व्ध_056.022
भक्तेनैकेन यः क्षपेत्__व्ध_056.022
गणाधिपत्यं लभते__व्ध_056.022
निःसपत्नम् अकण्टकम्__व्ध_056.022
यस् तु सायं तथा कल्यं__व्ध_056.023
भुङ्क्ते नैवान्तरा पिबेत्__व्ध_056.023
अहिंसानिरतो नित्यं__व्ध_056.023
जुह्वानो जातवेदसम्__व्ध_056.023
षड्भिर् एव तु वर्षैस् तु__व्ध_056.024
सिध्यते नात्र संशयः__व्ध_056.024
अग्निष्टोमस्य यज्ञस्य__व्ध_056.024
फलं प्राप्नोति मानवः__व्ध_056.024
अष्टमेन तु भक्तेन__व्ध_056.025
राजन् संवत्सरं नयेत्__व्ध_056.025
गवामयस्य यज्ञस्य__व्ध_056.025
फलं प्राप्नोति मानवः__व्ध_056.025
हंससारसयुक्तेन__व्ध_056.026
विमानेन स गच्छति__व्ध_056.026
पूर्णं वर्षसहस्रं तु__व्ध_056.026
स्वर्गलोके महीयते__व्ध_056.026
आर्तो वा व्याधितो वापि__व्ध_056.027
गच्छेद् अनशनं तु यः__व्ध_056.027
पदे पदे यज्ञफलं__व्ध_056.027
तस्य मन्नामकीर्तनात्__व्ध_056.027
दिव्यऋक्षप्रयुक्तेन__व्ध_056.028
विमानेन स गच्छति__व्ध_056.028
शतम् अप्सरसां चैव__व्ध_056.028
रमयन्तीह तं नरम्__व्ध_056.028
सहस्रशतसंयुक्ते__व्ध_056.029
विमाने सूर्यवर्चसे__व्ध_056.029
आरूढस्त्रीशताकीर्णे__व्ध_056.029
विहरन् सुखम् एधते__व्ध_056.029
न क्रुद्धो व्याधितो नार्तः__व्ध_056.030
प्रसन्नमनसेन्द्रियः__व्ध_056.030

गच्छेद् अनशनं यस् तु__व्ध_056.030
तस्यापि शृणु यत् फलम्__व्ध_056.030
शतं वर्षसहस्राणां__व्ध_056.031
स्वर्गलोके महीयते__व्ध_056.031
स्वस्थः सफलसंकल्पः__व्ध_056.031
सुखी विगतकल्मषः__व्ध_056.031
स्त्रीसहस्रसमाकीर्णे__व्ध_056.031
सुप्रभे सुखम् एधते__व्ध_056.031
यावन्ति रोमकूपानि__व्ध_056.032
तस्य गात्रेषु भारत__व्ध_056.032
तावद्वर्षसहस्राणि__व्ध_056.032
दिव्यानि दिवि मोदते__व्ध_056.032
नास्ति वेदात् परं शास्त्रं__व्ध_056.033
नास्ति मातृसमो गुरुः__व्ध_056.033
न धर्मात् परमो लाभस्__व्ध_056.033
तपो नानशनात् परम्__व्ध_056.033
ब्राह्मणेभ्यः परं नास्ति__व्ध_056.034
दिवि चेह च पावनम्__व्ध_056.034
उपवासैस् तथा तुल्यं__व्ध_056.034
तपो ह्य् अन्यन् न विद्यते__व्ध_056.034
उपोष्य विधिवद् देवास्__व्ध_056.035
त्रिदिवं प्रतिपेदिरे__व्ध_056.035
मुनयश् च परां सिद्धिम्__व्ध_056.035
उपवासैर् अवाप्नुवन्__व्ध_056.035
दिव्यं वर्षसहस्रं तु__व्ध_056.036
विश्वामित्रेण धीमता__व्ध_056.036
क्षान्तम् एकेन भक्तेन__व्ध_056.036
येन विप्रत्वम् आगतः__व्ध_056.036
च्यवनो जमदग्निश् च__व्ध_056.037
वसिष्ठो गौतमो भृगुः__व्ध_056.037
सर्वे ह्य् एते दिवं प्राप्ताः__व्ध_056.037
क्षमावन्तो बहुश्रुताः__व्ध_056.037
विधिनानेन राजेन्द्र__व्ध_056.037
यो मया परिकीर्तितः__व्ध_056.037
पठेत यो वै शृणुयाच् च भक्त्या__व्ध_056.038
न विद्यते तस्य नरस्य पापम्__व्ध_056.038
उपद्रवैर् मुच्यते सर्वाङ्गिकैर्__व्ध_056.038
न चापि पापैर् अभिभूयते नरः__व्ध_056.038
ब्राह्मणत्वं सुदुष्प्रापं__व्ध_057.001
निसर्गाद् ब्राह्मणो भवेत्__व्ध_057.001

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc