विष्णुधर्मोत्तरपुराणम् · अध्याय 3.236.240
3.236
ऋषय ऊचुः ॥
कर्माणि श्रोतुमिच्छामो यैः पापं विप्रणश्यति ॥
प्राप्नोत्यभ्युदयं चैव पुरुषः पक्षिसत्तम
हंस उवाच ॥
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ॥
त्र्यहं परञ्च नाश्नीयात्प्राजापत्यं चरन्द्विजः
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ॥
त्र्यहं चोपवसेदन्यदतिकृच्छ्रं चरन्द्विजः
तप्तकृच्छ्रं चरन्विप्रो दधिक्षीर घृतानिलान ॥
प्रतित्र्यहं पिबेदुष्णं सकृत्स्नायी समाहितः
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥
पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः
यथाकथञ्चित्पिण्डानां तिस्रोऽशीतिः समाहितः ॥
मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम्
महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् ॥
अहिंसासत्यमक्रोधमार्जवं च समाचरेत्
त्रिरह्नि त्रिर्निशायाञ्च सवासा जलमाविशेत् ॥
स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित्
स्थानासनाभ्यां विहरेदशक्तोऽधःशयीत वा ॥
ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ॥
सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ॥
सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादितः
कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ॥
नैनं कुर्याम्पुनरिति निवृत्त्या पूयते तु सः
ख्यापनेनानुतापेन तपसाध्ययनेन च ॥
पामकृन्मुच्यते पापात्तथा दानेन चापरः
यस्मिन्कर्मण्यपि कृते मनसः स्यादलाघवम् ॥
तस्मिँस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत्
पापस्य नाशस्तपसा विधेयो धर्मस्य वृद्धिस्तपसा विधेया ॥
पापप्रणाशे त्वथ धर्मवृद्धौ कामाः समृध्यन्ति नरस्य विप्राः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कृच्छ्रसान्तपनादिप्रायश्चित्तवर्णनो नाम षट्त्रिंशदधिकद्विशततमोऽध्यायः
3.237
॥ ऋषय ऊचुः ॥ ॥
कर्मणा केन पुरुषः किमाप्नोति महामते ॥
एतन्नः संशयं छिन्धि द्विजानां द्विजसत्तम
॥ हंस उवाच ॥
दानेन भोगी भवति तपसा विन्दते महः ॥
वृद्धोपसेवया विप्राः प्राज्ञो भवति मानवः
यज्ञेन लोकानाप्नोति पापनाशं हुतेन च ॥
जप्येन कामानाप्नोति सत्येन च परां गतिम्
स्नानेन शुद्धिमाप्नोति प्राणायामाद्विशेषतः ॥
ध्यानेन धारणाभिश्च पदमाप्नोत्यनुत्तमम्
दमेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥
शौचेन देवाः प्रीयन्ते प्रीयन्ते चोपवासतः
उपवासप्रतप्तानां कामावाप्तिर्ध्रुवं भवेत् ॥
ददाति विपुलान्भोगान्संग्रामेष्वपलायिनाम्
मधुमांसनिवृत्तोऽपि परं सौख्यमुपाश्नुते ॥
अहिंसया त्वरोगी स्याद्दीर्घायुश्चाप्यहिंसया
रूपलावण्यसौभाग्यधनधान्ययुतः सदा ॥
तीर्थानुसरणाद्विप्राः पापनाशमवाप्नुयात्।८॥
सर्वकल्मषहीनश्च याँल्लोकान्मनसेच्छति ॥
प्रतिश्रयप्रदानेन स्थानमाप्नोत्यनुत्तमम्
पूज्यपूजयिता विप्रा यशसा युज्यते नरः ॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः
समं कृत्वा विवर्धन्ते कीर्तिरार्युयशो बलम्
ऋतुकालादृते भार्या तथैव परिवर्जयेत् ॥
सर्वकामानवाप्नोति ब्रह्मलोकं च गच्छति
उभौ कालौ तु भुञ्जानस्त्वन्तरा परिवर्जयेत् ॥
पानीयमपि विप्रेन्द्रा ब्राह्मं लोकं प्रपद्यते
अनेनैव विधानेन देशकालाशनो नरः ॥
सर्वान्कामानवाप्नोति गतिमाप्नोत्यभीप्सिताम्
तथा भोजनकाले तु मौनं यस्तु समाचरेत् ॥
उपवासफलन्तस्य प्रत्यहं भोजने स्मृतम्
सर्वान्कामानवाप्नोति मौनी नक्ताशनस्सकृत् ॥
नाप्नोति नारकं दुःखं नित्यस्नायी नरो बहिः
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ॥
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् ॥
दद्यादतिथिपूजार्थं यज्ञाः पञ्च सुदक्षिणाः
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ॥
अनुव्रजेदुपासीत यज्ञाः पञ्च सुदक्षिणाः
स्थण्डिलेषु शयानानां गृहाणि शयनानि च ॥
चीर वल्कलसंवीत वासांस्याभरणानि च
वाहनासनयानानि योगात्मनि तपोधने ॥
अग्नीनुपशयानस्य राजपौरुषमुच्यते
रसानां प्रति संहारे सौभाग्यमधिगच्छति ॥
आमिषप्रतिसंहारे सर्वान्कामानवाप्नुयात्
अर्वाक्शिरास्तु यो लम्बेत्तोयवासं च यो वसेत् ॥
सततं चैकशायी च लभते चेप्सितां गतिम्
वीरासनं वीरशय्यां वीरस्थानमुपासतः ॥
अक्षयास्तस्य वै लोकाः सर्वकामप्रदाः स्मृताः
धनं भवति दानेन मौनेनाज्ञां प्रयच्छति ॥
उपभोगाँश्च तपसा ब्रह्मचर्येण जीवितम्
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ॥
फलं फलाशिनां राज्यं स्वर्गः पर्णाशिनां फलम्
पुष्पाशिनां तथैश्वर्यं धनं शाकाशिनां महत् ॥
पयोभक्ष्या दिवं यांति अब्भक्ष्याश्चामितां गतिम्
दंतोलूखलिको विप्रो यश्चाप्युञ्छेन जीवति ॥
कापोतीञ्चाश्रितो वृत्तिं यथेष्टाङ्गतिमाप्नुयात्
प्रायोपवेशनाद्राज्यं सर्वत्र फलमश्नुते॥
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम्
गवोढाः शाकदीक्षायाः स्वर्गकामी तृणाशनः
त्र्यहस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ॥
यज्ञयाजी तथाप्नोति याँल्लोकान्मनसेच्छति
उपवासं च दीक्षां चाप्यभिषेकं च वै द्विजाः ॥
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते
अधीत्य सर्वान्वेदान्वै सर्वदुःखैर्विमुच्यते ॥
मानसं हि धनं धर्मः स्वर्गलोकमवाप्नुयात्
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः॥
प्रीणाति मातरं येन पृथिवी तेन पूजिता
येन प्रीणात्युपाध्यायन्तेन स्याद्ब्रह्म पूजितम्॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः
।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥
गुरुशुश्रूषया विद्या नित्यं श्राद्धेषु सन्ततिः
नित्यस्नायी भवेद्दक्षः संध्ये तु द्वे जपन्सदा॥
द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम्
देवशुश्रूषया कामान्यथेष्टान्प्राप्नुयान्नरः ॥
सान्त्वदः सर्वभूतानां सर्वशोकैः प्रमुच्यते
केशश्मश्रून्वारयतः त्वग्र्या भवति सन्ततिः ॥
गन्धमाल्यान्निवृत्त्या तु कीर्तिर्भवति पुष्कला
परिचर्यारतः सम्यङ् न रोगैस्त्वभिभूयते ॥
गोलोकमाप्नोति तथा गवाञ्च परिचर्यया
देवमाल्यापनयनात्पादशौचाद्द्विजस्य तु ॥
श्रान्तसंवाहनाद्विप्राः सुखमत्यन्तमश्नुते
जले सप्तसहस्राणि एकादश हुताशने ॥
भृगुप्रपाते च दश संग्रामे विंशतिस्तथा
नरो वर्षसहस्राणि तनुं त्यक्त्वा तु मोदते ।
अनाशके तु धर्मज्ञाः परिसंख्या न विद्यते
मेरौ साधयते राज्यं यथेष्टं भुवि जायते ॥
महाप्रस्थानमाविश्य यथेष्टां गतिमाप्नुयात्
वह्निप्रवेशनियतममीष्टं लोकमश्नुते ॥
वारुणं लोकमाप्नोति त्यक्त्वाम्भसि तनुं नरः
अनार्तो व्याधिरहितो न त्यजेदात्मनस्तनुम् ॥
असूर्या नाम ते लोका अन्धेन तमसा वृताः ॥
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः
अनिष्टैरात्मनो ज्ञात्वा मृत्युकालमुपस्थितम् ॥
व्याधितो भिषजा त्यक्तः पूर्णे चायुषि वासके ॥
यथागमानुसारेण संत्यजेदात्मनस्तनुम् ॥
तस्मिन्काले तनुत्यागाद्यथोक्तं फलमाप्नुयात्
आयुषस्तु परं दृष्टं मरणं ब्राह्मण द्वयोः ॥
क्षत्रियस्य तु सङ्ग्रामे मृते भर्तरि योषितः
ब्राह्मणार्थे गवार्थे वा यस्त्यजेदात्मनस्तनुम् ॥
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः ॥
शष्पं मृगखरोत्सृष्टं यो मृगैः सह सेवते ॥
दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम्
रोवलं शीर्णपर्णं वा तद्व्रतं यो निषेवते ॥
शान्तो यो मनसा नित्यं स गच्छेत्परमाङ्गतिम्
वायुभक्ष्योम्बुभक्ष्यो वा फलमूलाशनोपि वा ॥
यक्षेशैश्वर्यमादाय मोदतेऽप्सरसाङ्गणैः
अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा ॥
तीर्त्त्वा द्वादशवर्षाणि राजा भवति पार्थिवः
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् ॥
व्रतं संसाध्य काले तु राजा भवति पार्थिवः
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः ॥
प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम्
स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च ॥
गृहाणि शयनार्हाणि चन्द्रशुभ्राणि ब्राह्मणः ॥ ५७ ।
आत्मानमुपजीवन्यो नियतो नियताशनः ॥
देहं चानशने त्यक्त्वा स स्वर्गं समुपाश्नुते
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ॥
अश्मना चरणौ हत्वा गुह्यकेषु च मोदते
साधयित्वात्मनात्मानं निर्द्वन्द्वो निष्परिग्रहः ॥
तीर्त्वा द्वादशवर्षाणि दीक्षामेकांमनोगताम् ॥
स्वर्गलोकमवाप्नोति देवैश्च सह मोदते
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ॥
हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते
यस्तु विप्रो यथान्यायं दीक्षितो नियतेन्द्रियः ॥
आत्मन्यात्मानमादाय निर्द्वन्द्वो धर्मलालसः
चीर्त्वा द्वादश वर्षाणि दीक्षामेतां मनोगताम्॥
अरणीसहितः स्कन्धे बद्ध्वा गच्छत्यनावृतम्
वीराद्ध्वानमनानीत्य वीरासनरतस्सदा ॥
वीरस्थायी च सततं स वीरगतिमाप्नुयात्
धीरलोकगतो वीरो वीरयोगवहः सदा ॥
सत्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः ॥
शक्रलोकगतः श्रीमान्मोदते दिवि देववत्
उपवासव्रतैर्दान्ता अहिंसासत्यवादिनः ॥
संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः
मण्डूकयोगशयना यथास्थानं यथाविधि ॥
दीक्षां चरति धर्मात्मा स नागैः सह मोदते
आर्द्रवासास्तु शिशिरे व्रतं वहति यो नरः ॥
द्वादशाब्दानि नियतं राजा भवति पार्थिवः
वर्षरात्रे तथा यश्च भवत्याकाशसाधकः ॥
अनपस्तीर्थशायी च राजा भवति पार्थिवः
त्यक्त्वा वनगताः प्राणान्सप्तपूर्वांस्तथापरान् ॥
नरांस्तारयिता दुःखादात्मानं च विशेषतः
येनयेन शरीरेण यद्यत्कर्म करोति यः ॥
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् ॥
तस्यां तस्यामवस्थायां तत्फलमुपाश्नुते
नरेण हि कृतं कर्म सदा पञ्चेन्द्रियैरिह ॥
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥
एवमेतत्कृतं कर्म कर्त्तारमनुविन्दति
अवश्यं हि कृतं कर्म भोक्तव्यं द्विजपुङ्गवाः ॥
सुकृतं दुष्कृतं वापि तस्मात्सुकृतमाचरेत्
अचोद्यमानानि यथा पुष्पाणि च फलानि च ॥
स्वकालं नातिवर्तन्ते तथा कर्म पुरा कृतम्
यन्मन्त्रे भवति वृथाभियुज्यमाने यत्सत्ये भवति वृथाभिपूयमाने ॥
यच्चाग्नौ भवति वृथाभिहूयमाने तत्सर्वं भवति वृथाभिधीयमाने
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कर्मफलविवेको नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः
3.238
ऋषय ऊचुः ॥
दृष्टारिष्टस्य भवता देहत्यागः प्रकीर्त्तितः ॥
तस्मादस्माकमाचक्ष्व त्वरिष्टानि महामते
हंस उवाच ॥
प्रवृत्तेर्विकृतिर्नॄणां बुद्धीन्द्रियशरीरजा ॥
अकस्माद्दृश्यते येषां तेषां मरणमादिशेत्
एतत्समासात्कथितं विस्तरोऽयमतः परम् ॥
सूक्ष्मारिष्टावबोधार्थं तथा स्पष्टार्थमेव च
न तु कर्मणि यो व्यभ्रे प्रभाकर्म निशाभृतः ॥
छायां चन्द्रार्कयोर्वापि तयोश्च गमनं तथा
देवमार्गे प्रभा वह्नेर्ध्रुवं तारामरुन्धतीम् ॥
पश्यत्यदृष्टामन्यैर्वा मृत्युः स्यात्तस्य वत्सरात्
सप्रभानामथान्येषां प्रभां यस्तु न पश्यति ॥
तस्यैकादशमे मासे मरणं परिकीर्तितम्
सुवर्णं रजतं मूत्रं पुरीषं वमते निशि ॥
स्वप्ने स मासे दशमे प्रयाति यममन्दिरम्
रक्षःप्रेतपिशाचानां यक्षाणामपि दर्शनात् ॥
अतीन्द्रियाणामन्येषां नवमे मरणं धुवम्
दौर्बल्यं जायते यस्य बहुसम्पन्नभोजिनः ॥
अनश्नन्तोऽपि पीनत्वमष्टमे स्यात्स मृत्युभाक्
पदं चासकलं यस्य खण्डं विकृतमेव वा ॥
पांसुकर्दमयोर्दृश्येत्सप्तमे मासि मृत्युभाक्
क्रव्यादाः पक्षिणो यस्य मूर्ध्नि लीयन्ति वै द्विजाः॥
काकश्येनादयस्तस्य पष्ठे मरणमादिशेत्॥
यस्य गोमयचूर्णाभं शरीरान्मृज्यते रजः ॥
स्वदेहच्छायाविकृतिः पञ्चमे स तु मृत्युभाक्
अनभ्रे विद्युतं दृष्ट्वा चतुर्थे म्रियते ध्रुवम्॥
शक्रचापं जले दृष्ट्वा गगनं वा द्विजोत्तमाः ॥
अविद्यमानं धर्मज्ञस्तृतीये म्रियते ध्रुवम्
अवघट्टनं नेत्रस्य विना रोगं यदा भवेत् ॥
एकस्य यदि वा दृश्येत्स्थानभ्रंशो विधीयते
मासेन विकृता नासा वक्रा च मरणप्रदा
अर्धमासेन दुर्गन्धप्रभवं स्वशरीरतः ॥
परचक्षुषि यश्छायामात्मनस्तु न पश्यति॥
स पश्यति महाभागा द्वादशाहेन वै यमम्
निर्वाणदीपगन्धं तु यस्तु नाघ्राति मानवः ॥
सप्ताहेन तु धर्मज्ञाः पश्यत्यर्कसुतं ध्रुवम्
सद्यः स्नातानुलिप्तस्य हृत्पादशिरसा भवेत् ॥
क्षिप्रं संशोषणं तस्य त्र्यहान्मरणमादिशेत्
गण्डयोस्तिलकान्रक्तान्वर्णवैकृतमेव च ॥
अहोरात्रेण मरणं पुरुषस्य समादिशेत्
अङ्गुलिभ्यान्तु पिहिते श्रोत्रे तु न शृणोति यः
शब्दं न पश्येत्तु मुखं निर्मले दर्पणे तथा ॥
पश्येच्च पुरुषान्प्राप्तान्सद्यो मरणमादिशेत्
मूर्धधूमविनाशे तु जलार्द्राद्वा तदुद्भवेत् ॥
नासाभङ्गेन धर्मज्ञा द्व्यहान्मरणमादिशेत्
स्पर्शदृष्टिरसप्राणशब्दचेष्टाविपर्ययः ॥
दृश्यते तु मुमूर्षूणां स्वस्थातुरशरीरिणाम्
श्लक्ष्णं खगं वरं लक्ष्म शीतोष्णस्य विपर्ययः ॥
अकस्माद्वेत्ति यो देही दुर्लभं तस्य जीवितम्
तोयवन्मेदिनीं तोयं मेदिनीमिव पश्यति ॥
अतीन्द्रियं निरीक्षेत न वीक्षेत करस्थितम्
पृथिवीमिव चाकाशं चाकाशमिव मेदिनीम् ॥
आकाशमिव चात्मानं पूर्णमिन्दुमथातिथौ
शुक्लकृष्णविपर्यासं स्थूलसूक्ष्मविपर्ययम् ॥
विपर्यासं सदसतां दृश्यते जीवितक्षये
षण्णां रसानां पर्यास इष्टानिष्टविपर्ययः॥
सर्वथा ग्रहणं पश्यन्निग्रहातीन्द्रियग्रहः
अभक्ष्यलौल्यमत्यर्थं मरणायोपजायते ॥
शोभनाशोभनघ्रेयग्रहणे तु विपर्ययः
इष्टैरनिष्टैः संयोगोऽनिष्टैरिष्टसमागमः ॥
भयधैर्यविपर्यासो जायते प्राणसंक्षये
अतिदीर्घोऽतिह्रस्वो वा सतमस्कोऽतिशीतलः ॥
उच्छ्वास प्राणसन्त्यागे गतासूनां प्रजायते
अनाहतानां शब्दः स्यादाहतानामशब्दता ॥
आहतानामशब्दत्वं मुमूर्षूणां नृणां गृहे
उदक् प्रवृत्ते दिवसस्य नाथे पुण्ये दिने मोहविवर्जितस्य ॥
नारायणे चेतसि संस्थिते वा मृत्युर्भवेत्पुण्यवतो द्विजेन्द्राः
इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मार्कण्डेयवज्रसंवादे ऋषीन्प्रति हंसगीतास्वरिष्टयोगवर्णनो नामाष्टत्रिंशदधिकद्विशततमोऽध्यायः
3.239
ऋषय ऊचुः ॥
के दोषाः पापशमना मनुष्याणां विनाशकाः ॥
के गुणाश्च महादेव नित्यमभ्युदयात्मकाः
हंस उवाच ॥
सर्वेषामेव दोषाणामज्ञानः परमो मतः ॥
अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति
कामः क्रोधस्तथा लोभो हर्षो मानः सदैव च ॥
अज्ञानेनावृतं जन्तुं निविशन्ते द्विजोत्तमाः
अज्ञानादेव पापानि विचिनोत्यविचक्षणः ॥
अज्ञानादुत्पथं गत्वा नरकं प्रतिपद्यते
अज्ञानेनावृतो जन्तुः शुभे मार्गे न तिष्ठति ॥
अज्ञानशमने यत्नस्ततः कार्यो विजानता
शास्त्रान्ववेक्षणं तस्य वृद्धसेवा तथैव च ॥
तथा च गुरुशुश्रूषा त्वज्ञानशमनी मता
लोकद्वये नास्ति महानुभावा अज्ञानतुल्यः पुरुषस्य शत्रुः ॥
अतो हि लोकद्वितयं सुखार्थी ज्ञाने तु कुर्यात्पुरुषः प्रयत्नम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु ज्ञानवर्णनो नामैकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः
3.240
॥ हंस उवाच ॥ ॥
पापेन सर्वदुःखानां नरो भवति भाजनम् ॥
पापेन नरकं याति द्वेष्यश्चेह तथा भवेत् ॥
नरः पापसमाचारः पापादपि विनश्यति ॥
पापमेकं परं दुःखं सर्वेषां द्विजपुङ्गवाः
कृतपुण्योऽपि यः पापं करोति पुरुषः क्वचित् ॥
स्वर्गेऽपि न सुखं तस्य तद्भयादुपजायते
स एकः पुरुषो लोके यस्य पापं न विद्यते ॥
दीनान्धकृपणानाथांस्तथा च परमार्भकाः
तिर्यग्योनिगताश्चान्ये नरकेषु तथा परे ॥
स्थावरासु च योनीषु तिर्यग्योनिषु चाप्यथ
व्याधिबन्धवधक्लेशताडनान्यप्यनेकशः॥
नरः प्राप्नोति धर्मज्ञस्तथा पापेन कर्मणा
ये पापहीनाः पुरुषाः प्रधानास्तेषां न दुःखं भवतीह किञ्चित् ॥
तस्मात्प्रयत्नेन विवर्जनीयं पापं बुधैः पुण्यचयश्च कार्यः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पापनिदर्शनवर्णनो नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0