विष्णुधर्मोत्तरपुराणम् · अध्याय 2.181.183
2.181
पुष्कर उवाच ॥
जितहस्तो जितमतिर्जितदृग्लक्ष्यसाधक ॥
नियतां सिद्धिमासाद्य ततो वाहनमारुहेत्
एष तत्रैव च विधिः कार्त्स्येन परिकीर्तितः ॥
अधिकं भ्रमतस्तस्य भागे ग्रहणमेव च
एतेषां चैव योगानां विधिर्यस्त्र्यैषुकस्य च ॥
वाहाश्रितस्य वक्ष्यामि सविशेषेण लक्षणम्
पाशासियष्टिदण्डानां विधिर्यः परिनिष्ठितः ॥
क्षेप एव यथान्यायं तस्य वक्ष्यामि या क्रिया
दशहस्तो भवेत्पाशो वृतः करमुखस्तथा ॥
शणकार्पासपुञ्जानां भग्न स्नाय्वस्थिचर्मणाम्
अन्येषां सुदृढानां च सुकृतं परिवेष्टितम् ॥
त्रयस्त्रिंशत्समं चापं बुधः कुर्यात्सुवर्तितम्
कर्तव्या शिबिकैस्तस्य स्थानं कक्ष्यासु वै तदा ॥
वामहस्तेन संगृह्य दक्षिणेनोद्धरेत्तु सः
कुण्डलस्याकृतिं कृत्वा ग्रामैकं मस्तकोपरि ॥
क्षिपेत्तृणमये तूर्णं पुरुषे चर्मवेष्टिते
चलिते च प्लुतं चैव तथा प्रजवितेषु च ॥
समायोगविधिं ज्ञात्वा प्रयुञ्जीत सुशिक्षितः
विजित्य तु यथान्यायं ततो बन्धं समाचरेत् ॥
कट्यां बद्ध्वा ततः खड्गं वामपार्श्वावलम्बिनम्
दृढं विगृह्य वामेन विकर्मे दक्षिणेन तु ॥
षडङ्गुलपरीणाहं समहस्तं समुच्छ्रितम्
अयोमयशलाकाश्च चर्माणि विविधानि च ॥
अपहस्तं समं चैव तिर्यगूर्द्ध्वहतं तथा
शोधयेद्विधिना येन तथा मे गदतः शृणु ॥
तार्णं चर्मावनद्धाङ्गं स्थापयित्वा नरं दृढम्
करेणादाय लगुडं दक्षिणाङ्गुष्ठकान्नरः ॥
उद्यम्य घातयेद्यस्य नाम्नस्तं शिरसो दृढम् ॥
उभाभ्यामपि हस्ताभ्यां कुर्यात्तस्य निपातनम्
बिम्बोयं विधि सहितो हितः सुमुक्तिः शिष्याणां हितमतिकुर्वता मया ते ॥
वाहानां श्रमरणप्रधारणार्थं योग्यार्हं प्रथमतरं बुधेन वध्यम्
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदविद्याकथनो नामैकाशीत्युत्तरशततमोऽध्यायः
2.182
पुष्कर उवाच ॥
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं निःसृतं सृतम् ॥
संपातं समुदीर्णं च सेनापातमनाकुलम्
उद्घातमवधृतं च सव्यदक्षिणमेव च ॥
अनालक्षिरविस्फोटो करालेन्द्रमहामुखौ
विकरालविपातौ च विभीषणभयङ्करौ ॥
समग्रां वा तृतीयां वा पादपादावजारिजाः
प्रत्यालीढमनालीढं वराहलुलितं तथा ॥
इति द्वात्रिंशधा ज्ञेया खड्गाश्चर्मविधारणाः
ऋज्वायतविशालं च तिर्यङ्नमितमेव च ॥
पञ्चकर्म विनिर्दिष्टं व्यस्त्रे प्रासं महात्मभिः
छेदनं तर्जनं पातो भ्रमणं भ्रामणं तथा ॥
विकर्तनं कर्तनं च चक्रभ्रमणमेव च
आस्फोटक्ष्वेडनं भेदस्त्रासोल्लासितकौ तथा ॥
शूलकर्माणि जानीहि षष्ठमाघ्रातसंज्ञकम्
दृष्टिघातं भुजाघातं पार्श्वघातं च भार्गव ॥
ऋज्वावक्षोपमाघातं तोमरस्य प्रकीर्तितम्
संहताविततं वामं गोमूत्रं कमलाविलम् ॥
ततोऽर्धभागनमितं वामदक्षिणमेव च
व्यावृत्तं च परावृत्तं पादोद्धूतमविप्लुतम् ॥
हंसमार्गविमार्गे च गदाकर्म प्रकीर्तितम्
करालमठपातं च दशोपप्लवमेव च ॥
क्षिप्तं हस्तस्थितं शून्यं परशोस्तु विनिर्दिशेत्
ताडनं छेदनं राम तथा चूर्णनमेव च ॥
मुद्गरस्य तु कर्माणि लगुडस्य च तान्यपि
अन्त्यमध्यं परावृत्तं निदेशार्द्धं तथैव च ॥
वज्रस्यैतानि कर्माणि पट्टिशस्य तथैव हि
हरणं छेदनं घातो भेदनं रक्षणं तथा ॥
कृपाणीकर्म निर्दिष्टं पातनं स्फोटनं तथा
त्रासनं रक्षणं घातं तलोद्धरणमायतम् ॥
क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु
सन्त्यागमङ्गमर्दञ्च वराहोद्धूतकं तथा ॥
हस्तार्धहस्तपालीनमेकहस्तार्धहस्तकम्
द्विहस्तबाहुपाशे च कोटिरेचितकोद्धते ॥
उरो ललाटघाते च भुजादिवसनं तथा
करोद्धतविमार्गं च पादाहति विपादकम् ॥
गात्रसंश्लेषणं कान्तं तथा गोविधिपर्ययम्
ऊर्ध्वप्रहारं घातं च गोमूत्रं सव्यदक्षिणम् ॥
पादसञ्चारकं गण्डं कबरीबन्धभाकुलम्
तिर्यग्गतमपामार्गं भीमवेगं सुदर्शनम् ॥
सिंहक्रान्तं गजक्रातं वृषभाक्रान्तमेव व
गदाकर्म विजानीयाद्धनुर्वेदविशारदः ॥
आकर्षणं विकर्षं च बाहुनामनमेव च
ग्रीवाविपरिवर्तं च पृष्ठभङ्गं सुदारुणम् ॥
पर्णासनं विपर्यासः पशुपारमजाविकम्
पादप्रहारमास्फोटं कविरेचितकं तथा ॥
गात्रश्लेषं कण्ठगतं महीत्याजनमेव च
उरोललाटघातं च विस्पष्टकरणं तथा ॥
उद्धूतमवधूतं च तिर्यग्मार्गगतं तथा
गजस्कन्धमवक्षेपमवाङ्मुखकमेव च ॥
देवमार्गमधोमार्गममार्गगमनाकुलम
मुष्टिवातमवक्षेपो वसुधादारणं तथा ॥
जानुबन्धं भुजाबन्धं ऊरुबन्धं सुदारुणम्
संसृष्टं सोदरं शुभ्रं भुजावेल्लितमेव च ॥
नियुद्धकर्म जानीयान्नियुद्धकुशलो जनः
प्रधानकर्माणि तवेरितानि न्यस्तप्रधाने पुरुषप्रवीर ॥
नामानि रूपाणि भवन्ति तानि ज्ञेयानि सर्वाणि यथानुरूपम् ।
इति श्रीविर्प्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदविद्यावर्णनो नाम द्व्यशीत्युत्तरशततमोऽध्यायः
2.183
॥ पुष्कर उवाच ॥
सन्नद्धैश्चर्मिभिर्भाव्यं तथा बद्धकृपाणिभिः ॥
चर्माणि तत्र वैयाघ्रमाहिषाण्यृषभाणि च
खेटकाद्यथ वा राम चर्माणि प्रभवन्ति तु ॥
तथा वरणमुख्यानि खड्गानि विविधानि च
बद्धादिभिः सतूणीरैस्तथा राम सतोमरैः ॥
बद्धगोधाङ्गुलित्राणैर्बद्धादर्शैर्विभीषणैः
तथा परश्वधोपेतै राम स्वासनयोधिभिः
गदाधरास्तथैवात्र सकृत्पाणिपरिच्छदाः ॥
सुसंनद्धा सुमनसो भवेयुर्विपुलौजसः
यत्र यस्य विशेषेण शस्त्रास्त्रैर्वातकौशलम् ॥
तदेव तस्य निर्दिष्टं यथावन्मनुजोत्तम
सखलीनाः सपर्याणास्तथा सास्तरणा हयाः ॥
कार्याः सकवचा युद्धे चामरापीडधारिणः
अश्वी भवेत्सुसन्नद्धो रश्मिप्रग्रहकोविदः ॥
तथा सावरणो राम सकृपाणी परिच्छदः
बद्धासिर्बद्धजीवश्च तुरगारूढपिण्डकः ॥
ससुप्रासो भवेद्राम नानायुधधरस्तथा
रथः कार्यस्तथा युक्तः ईषादण्डकबन्धुरैः ॥
सुचक्रोपस्करयुतः सर्वरूपः पताकराट्
त्रिवेणुसंततश्चैव वैयाघ्रपरिवारणः ॥
किंकिणीजालनिर्घोषस्तथा वै सुप्रतिष्ठितः
उपासङ्गैर्निषङ्गैश्च तूणीरैर्वरकार्मुकैः ॥
सर्वायुधैरुपेतश्च तथा वृक्षादनीयुतः
तोयजीरकपिण्डीभिर्युक्तः शृङ्गैस्तथैव च ॥
सन्नद्धः सारथिस्तत्र भवेद्राम प्रतोदवान्
रश्मिग्रहणविच्चापि तथा मण्डलकोविदः ॥
तथाश्वहृदयज्ञश्च दूरदृष्टिः सुयन्त्रितः
स्वासनः कालविच्चैव बद्धासिः पाशसंयुतः ॥
पार्ष्णिः स्यादायुधज्ञस्य तथैवायुधकोविदः
चिरेण मूले यस्य स्यादवस्थानं महाभुजः ॥
पताकावरणं यस्य आयुधानां समर्पणम्
समायान्तं महाभागं तथा सारथिरक्षणम ॥
स्यातां धनुर्धरौ तत्र तथा च रथिनावुभौ
योधौ धनुर्भृतां श्रेष्ठ सर्वायुधविशारदौ ॥
तुरगाश्च सुसंनद्धा दान्ताः कार्यास्तथा रथे ॥
तुल्यवेगबलाश्चैव तथा लघुपरिच्छदाः ॥
अतः परं प्रवक्ष्यामि तव नागेन्द्रकल्पनम्
कुञ्जरः स्यात्सुसन्नद्धः सपर्याणः कुथा वृतः ॥
सर्वायुधधरश्चैव तथा योधा वरायुधाः
परश्वधकराश्चैव तोयजीरकसंयुताः ॥
सम्यग्विभाज्याश्च तथा शृङ्खलावततास्तथा
पताका च तथा कार्या कुञ्जरस्य सुशोभना ॥
वराङ्कुशधरौ तत्र स्यातां मनुजपुङ्गवौ
एकः पृष्ठस्थितस्तत्र द्वितीयः स्कन्धगो भवेत् ॥
योधौ द्वौ वरधानुष्कौ द्वौ च खड्गधरौ दरौ
तयोरनुभवेतां वै तथा रक्षापरायणौ ॥
एकः पार्ष्णिस्थितस्तत्र वरशक्तिपताकधृक्
पालयेज्जघनं यद्वत्कुञ्जरस्य महामते ॥
एवं परस्परायत्ता रक्षा तेषां यथा भवेत्
महामात्रस्य धर्मज्ञ तथा च गजयोधिनः ॥
एवमेव तथा रक्ष्यो रथिनः स रथी भवेत्
कुञ्जरस्य तु रक्षार्थं भवेद्रथचतुष्टयम् ॥
रथेरथे गजे वापि तुरगाणां त्रयं भवेत्
धानुष्काणां त्रयं प्रोक्तं रक्षार्थं तुरगस्य च ॥
धन्विनो रक्षणार्थाय वर्मिणोऽपि नियोजयेत्
कार्यं सर्वं सुसंबाधं तथा तोरणरक्षणम् ॥
योजना च तथा कार्या यथा तु स्याद्धृतिक्रमः
संबाधश्च तथा राम न भवेच्च परस्परम्
नागेन्द्रकल्पं तव सर्वयुक्तं संक्षेपतो भार्गववंश मुख्य॥
एतत्तु कृत्वापि नरः सयुद्धे जयत्यवश्यं समुपार्जने च
इति श्रीविष्णुमहापुराणे द्वितीयभागे श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदे वाहनसज्जीकरणो नाम त्र्यशीत्युत्तरशततमोऽध्यायः
॥
समाप्तोऽयं विष्णुधर्मोत्तरद्वितीयखण्डः ।
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0