भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.176.180

2.176.180.1

2.176
॥ राम उवाच ॥ ॥
यात्राविधानमाचक्ष्व सर्वधर्मभृतांवर ॥
जिगीषूणां नरेन्द्राणां सिद्धिकारणमुत्तमम्

2.176.180.2

पुष्कर उवाच ॥
सप्ताहेन यदा यात्रा भविष्यति महीपतेः ॥
तदा दिने तु प्रथमे पूजनीयो विनायकः

2.176.180.3

मोदकैरक्षतैर्दध्ना कुसुमैश्च तथा फलैः ॥
गन्धर्वास्त्रैरलङ्कारैर्धूपैर्दीपैर्मनोहरैः

2.176.180.4

द्वितीयेऽन्हि ततः कार्यं सर्वदिक्पालपूजनम् ॥
दिक्पालपूजनं कृत्वा तेषां च पुरतः स्थितः

2.176.180.5

शय्यां कुशाभिः कुर्वीत सितवस्त्रोत्तरच्छदाम् ॥
विकिरेन्नागपुष्पैस्तां तथा सिद्धार्थकैः शुभैः

2.176.180.6

तच्छीर्षके तु पूज्या श्रीर्भद्रकाली च पादयोः ॥
हरं दक्षिणपार्श्वे तु वामे ब्रह्माणमेव च

2.176.180.7

पूजितं कलशं हृद्यं कुर्यादुष्णीषके दृढम् ॥
नीलपल्लवसंछन्नं चारुपुष्पोज्ज्वलं शुभम्

2.176.180.8

एककालं हविष्यान्नं लघु भुक्त्वा महीपतिः ॥
स्वयं दक्षिणपार्श्वे च मन्त्रमेतदुदीरयेत्

2.176.180.9

नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च ॥
वामनाय विरूपाय स्वप्नाधिपतये नमः

2.176.180.2.176.10

भगवन्देवदेवेश शूलभृद्वृषवाहन ॥
इष्टानिष्टं समाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम्

2.176.180.11

यज्जाग्रतो दूरमिति मन्त्रमावर्तयेत्ततः ॥
हृदि न्यस्य कुशान्राज्ञः प्रयतस्तु पुरोहितः

2.176.180.12

ततः स्वप्ने शुभे दृष्टे यात्रा देया तु नान्यथा ॥
तृतीयेऽहनि संप्राप्ते देवं दिङ्नाथमर्चयेत्

2.176.180.13

एकमेव महाभाग दिननाथं तथा ग्रहम् ॥
यां दिशं नृपतिर्गच्छेन्नाथं तस्यास्तथैव ताम्

2.176.180.14

चतुर्थेऽहनि संप्राप्ते ग्रहयागो विधीयते॥
पञ्चमेऽहनि संप्राप्ते सर्वयागस्तथैव च ॥
देवतानां स्वनगरे कृता यासां तथालयाः

2.176.180.15

तासां संपूजनं कार्यं स्वपुरे ये तथा स्थिताः ॥
तत्रैव रात्रौ भूतानां कर्तव्यं च तथार्चनम्

2.176.180.16

एकवृक्षेषु चैत्येषु चत्वराट्टालकेषु च ॥
चतुष्पथेषु रथ्यासु पर्वतानां गुहासु च

2.176.180.17

नदीतीरेषु शैलेषु देवतायतनेषु च ॥
तेषां संपूजनं कृत्वा स्वगृहे तान्समर्चयेत्

2.176.180.18

तत्र कृत्वा ततो वाच्याः प्रमथा भूभुजा स्वयम् ॥
वासुदेवस्य देवस्य तथा संकर्षणस्य च

2.176.180.19

प्रद्युम्नस्यानिरुद्धस्य ब्रह्मणः शङ्करस्य च ॥
कीनाशशक्रवरुणधनेशानां तु ये गणाः

2.176.180.2.176.20

वायोश्च निरृतेर्वह्नेस्तथा चन्द्रार्कयोश्च ये ॥
ग्रहाणामथ ऋक्षाणां स्कन्दस्य च महाबलाः

2.176.180.21

विनायकस्य देवस्य देवतानां गणाश्च ये ॥
दैत्यानां राक्षसानां च सर्वेषामनुगाश्च ये

2.176.180.22

महाबला महाकाया महासत्त्वा महाब्रताः॥
अणिमा महिमा प्राप्तिः प्राकाम्येन च संयुताः

2.176.180.23

ईशित्वेन वशित्वेन प्राप्तिनाम्ना तथोदये ॥
यत्र कामावसायित्वात्तथा येषां च विद्यते

2.176.180.24

एवमष्टगुणैश्वर्यसंयुता भीमविक्रमाः ॥
नानासत्त्वशिरोग्रीवा नानाप्रहरणायुधाः

2.176.180.25

नानाविरागवसना नानासत्त्ववपुर्धराः ॥
तथा नानाविधाहारा महाचेष्टा महाबलाः

2.176.180.26

भक्तानुकम्पिनो वीरा वरदाः कामरूपिणः ॥
प्रमथाः परिगृह्णन्तु उपकारं नमोऽस्तु वः ॥
सपुत्रामात्यभृत्योऽहं सदारः शरणं गतः

2.176.180.27

रक्षन्तु मां महाभागा गृहे युद्धे तथाध्वनि ॥
चमूनां पृष्ठतो गत्वा नाशयध्वं तथा रिपून्

2.176.180.28

स्वप्ने शुभाशुभं वापि कथयध्वं समाहिताः ॥
विनिवृत्तश्च दास्यामि दत्तादभ्यधिकं बलिम्

2.176.180.29

विनिवृत्तेन दातव्यः स च यत्नेन भूभुजा ॥
पूर्ववच्च तथा रात्रौ स्वप्नप्रार्थनमिष्यते ॥

2.176.180.2.176.30

षष्ठेऽहनि जयस्नानं कर्तव्यं च तथा भवेत् ॥
विधिरस्याभिषेकार्थः सर्व एव विधीयते

2.176.180.31

ततो यात्रादिने प्राप्ते क्षौरकर्म विवर्जयेत् ॥
मुद्रणं भेदनं चैव तथा च नखकृन्तनम्

2.176.180.32

अभ्यङ्गं गृहकार्यं च क्रोधशोकौ च कङ्कतम् ॥
यातव्यं येन तेनाथ तदुक्तं स्नानमाचरेत्

2.176.180.33

स्नातः शुक्लाम्बरः स्रग्वी तथा श्वेतानुलेपनः ॥
चित्राभरणवान्राजा दूर्वापल्लवलाच्छनः

2.176.180.34

पूजयित्वा महाभागं देवदेवं त्रिविक्रमम् ॥
जुहुयाच्च तथा वह्नौ सुसमिद्धे पुरोहितः

2.176.180.35

आयुष्यमभयं चैव तथा स्वस्त्ययनं गणम् ॥
शर्मवर्मगणं चैव तथा प्रतिरथं शुभम

2.176.180.36

शकुनं च तथा सूक्तं सूक्तं वैष्णवमेव च ॥
तथाग्निलक्षणोत्पत्तौ शुभे यायान्महीपतिः

2.176.180.37

नक्षत्रस्य दिशश्चैव नैवेद्यं यत्प्रकीर्तितम् ॥
तदेव नृपतिः प्राश्य यात्रां विद्याद्यथाविधि

2.176.180.38

अहृद्यं मक्षिकाकेशकीटयुक्तं विवर्जयेत् ॥
दग्धे च वर्जयेद्यात्रां देया भवति चान्यथा

2.176.180.39

ततस्तु राजलिङ्गानां चायुधानां तथैव च ॥
नीराजनोक्तमन्त्रैस्तु सर्वांस्तानभिमन्त्रयेत्

2.176.180.2.176.40

दैववित्प्रयतो भूत्वा राजा वाथ पुरोहितः ॥
तेषां संपूजनं कृत्वा दैवज्ञं सपुरोहितम्

2.176.180.41

धनेन पूजयेद्राजा दक्षिणाभिर्द्विजोत्तमान् ॥
ततः पुण्याहघोषेण द्विजानां हतकल्मषः

2.176.180.42

मङ्गलालम्भनं कृत्वा मन्त्रमेतं निशामयन् ॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः

2.176.180.43

लोकपालाः सगन्धर्वा नद्यः शैला मही द्विजाः ॥
अग्निः स्वाहा स्वधा होमः स्कन्दो ब्रह्मा प्रजापतिः

2.176.180.44

मुहूर्तास्तिथयो भानि वेदाः सायनवत्सराः ॥
गावः सरस्वती देवी दीर्घमायुर्दिशन्तु ते

2.176.180.45

जगत्सृजोऽथ या सिद्धिर्बभूव ब्रह्मणः पुरा ॥
जगज्जिष्णोश्च या विष्णोः सिद्धिर्यासीत्त्रिविक्रमे

2.176.180.46

असुरैश्वर्यनाशे च बभूव त्र्यम्बकस्य या ॥
सिद्धिस्त्रिदर्शवृद्ध्यर्थं त्रिपुरान्तकृतः पुरा

2.176.180.47

शक्रे वृत्रवधे यावत्स्कन्दे देवारिसंक्षये ॥
तां प्राप्नुहि सदा सिद्धिं सा च यात्रास्तु ते सदा

2.176.180.48

रक्षन्तु सर्वतः सर्वे देवाः शक्रपुरोगमाः ॥
इति चोक्त्वा शुभां वाचं गृहीत्वा सशरं धनुः ॥

2.176.180.49

धन्वनागेतिमन्त्रेण दैवज्ञस्य करात्स्वयम् ॥
तद्विष्णोः परमित्येव शृण्वन्मन्त्रमनुत्तमम्

2.176.180.2.176.50

पैष्टे रिपुमुखे दद्यात्प्रथमं दक्षिणं पदम् ॥
पदद्वात्रिंशकं गत्वा विष्णुप्राच्यादिषु त्वथ

2.176.180.51

नागं रथं हयं चैव युञ्जाने चारुहेत्क्रमात ॥
आरुह्य सुमना गच्छेद्वाद्यघोषेण भूरिणा

2.176.180.52

स निष्क्रम्य महानीशो न पृष्ठमवलोकयेत् ॥
मङ्गलानि ततः पश्यन्स्पृञ्छृण्वञ्शनैर्व्रजेत्

2.176.180.53

क्रोशमात्रं ततो गच्छेन्नाधिकं तु कदाचन ॥
गत्वा देशे शुभे तिष्ठेत्पूजयित्वा सुरद्विजान्

2.176.180.54

ततः क्रमेण गच्छेच्च परदेशं महीपतिः ॥
आत्मसैन्यानुरूपेण कृतरक्षः पथा द्विज

2.176.180.55

त्रिरात्रमुषितो गच्छेद्भूयो नक्षत्रसम्पदा ॥
यवसैन्धवतोयानां रक्षको विषदूषणात्

2.176.180.56

परानभिमुखो गच्छेत्प्रभूतयवसैन्धवः ॥
स्वैरचंक्रमणं शय्यां भाण्डप्रक्षेपणं तथा

2.176.180.57

भोजन तं सुखं कुर्यात्प्रतिलोमं न चाचरेत ॥
राजाप्यमित्रदेशे तु देशाचारं न लंघयेत्

2.176.180.58

देवतापूजनं कुयार्न्नोच्छिंद्याद्दावमत्र तु ॥
कुलस्त्रियं च तन्वीं च वृद्धां नैवापमानयेत

2.176.180.59

कुलीनमभिनिन्देत्तु न वै नृपतिवंशजम् ॥
न कर्णनासाच्छेदांश्च न तथा नेत्रभेदनम् ॥
कालविन्मन्त्रिभिषजोर्वाक्यं कुर्यान्महीपतिः

2.176.180.2.176.60

ततः क्रमात्प्राप्य पुरीं स्वकीयां बलिं तु दद्यादधिकां पुरोक्ताम् ॥
कुर्यान्महीं यूपसुरालयांकां स्वर्लोकमिच्छन्पृथिवीं समग्राम्

2.176.180.176

इति श्रीविप्णु० द्वि० मा० व० स० यात्राविधिनाम षट्सप्तत्युत्तरशततमोऽध्यायः

2.176.180.1

2.177
राम उवाच ॥
सांग्रामिकमहं त्वत्तः श्रोतुमिच्छामि भूभुजः ॥
सर्वं वेत्सि महाभाग त्वं देव परमेष्ठिवत्

2.176.180.2

पुष्कर उवाच ॥
द्वितीयेऽहनि संग्रामो भविष्यति यदा तदा ॥
गजाश्वान्स्नापयेद्राजा सर्वौषधिजलैः शुभैः

2.176.180.3

गन्धमाल्यैरलंकुर्यात्पूजयेच्च यथाविधि ॥
नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः

2.176.180.4

छत्रं ध्वजं पताकाश्च धर्माश्चैव महाभुज ॥
आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा

2.176.180.5

तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम् ॥
कृत्वा तु प्रार्थयेद्राजा विजयायेतरो यथा

2.176.180.6

५॥
प्रमथांश्च सहायार्थे धरणीं च महाभुज ॥
भिषक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत्

2.176.180.7

संयतो ब्रह्मचारी च नृसिंहं संस्मरन्हरिम्॥
रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत्

2.176.180.8

रात्रिशेषे समुत्थाय स्नातः सर्वौषधी जलैः ॥
पूजयित्वा नृसिंहं तु वाहनाढ्यमशेषतः

2.176.180.9

पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम् ॥
पुरोधाः पूर्ववत्तत्र मन्त्रांस्तु जुहुयात्ततः

2.176.180.2.177.10

दक्षिणाभिः शुचिर्विप्रान्पूजयेत्पृथिवीपतिः ॥
ततोनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः

2.176.180.11

चन्दनागुरुकर्पूरकान्ताकालीयकैः शुभैः ॥
मूर्तिं कण्ठे समालभ्य रोचनां च तथा शुभाम्

2.176.180.12

आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितमम्॥
अलङ्करणमाबद्ध्याच्छ्रियं धातुरिति स्रजम्

2.176.180.13

या ओषधय इत्येवं धारयेदोषधीः शुभाः ॥
नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम्

2.176.180.14

ऐन्द्राग्नेति ततो चर्म धन्वनागेति वै धनुः॥
ततो राज्ञः समादद्यात्सशरन्त्वभिमन्त्रितम्

2.176.180.15

कुञ्जरं वा रथं चाश्वमारुहेदभिमन्त्रितम्॥
आरुह्य शिबिराद्राजा निष्क्रम्य समये शुभे

2.176.180.16

देशे त्वदृश्यः शत्रूणां कुर्यात्प्रकृतिकल्पनाम् ॥
संहतान्योधयेदल्पा कामं विस्तारयेद्बहून्

2.176.180.17

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥
व्यूहाः प्राण्यङ्गरूपाश्च द्रव्यरूपाश्च कल्पिताः

2.176.180.18

गारुडो मकरव्यूहश्चक्रं श्येनस्तथैव च॥
अर्धचन्द्रश्च चन्द्रश्च शकटव्यूह एव च

2.176.180.19

व्यूहश्च सर्वतोभद्रः सूचीव्यूहस्तथैव च ॥
पद्मश्च मण्डलव्यूहः प्राधान्येन प्रकीर्तिताः

2.176.180.2.177.20

व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना ॥
द्वौ पक्षौ बन्धपक्षौ द्वावौरस्यः पञ्चमो भवेत्

2.176.180.21

अनेन यदि वा द्वाभ्यां भागाभ्यां युद्धमाचरेत्॥
भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च

2.176.180.22

न व्यूहे कल्पना कार्या राज्ञो भवति कर्हिचित् ॥
पत्रच्छेदे फलच्छेदे वृक्षच्छेदावकल्पने

2.176.180.23

पुनः प्ररोहमायाति मूलच्छेदे विनश्यति ॥
स्वयं राज्ञा न योद्धव्यमपि सर्वास्त्रशालिना

2.176.180.24

नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमात्तराः ॥
सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः

2.176.180.25

भग्नसन्धारणं तत्र योधानां परिकीर्तितम् ॥
प्रधानभङ्गे सैन्यस्य नावस्थानं विधीयते

2.176.180.26

न भग्नान्पीडयेच्छत्रूनेकायनगता हि ते ॥
मरणे निश्चिताः सर्वे हन्युः शत्रूंश्चमूरपि

2.176.180.27

शटाभङ्गच्छलेनापि नयति स्वभुवं पराम् ॥
तेषां स्वभूमिसंस्थानां वधः स्यात्सुकरस्तदा

2.176.180.28

न संहतार्तविरलान्योधान्व्यूहे प्रकल्पयेत् ॥
आयुधानां तु संमर्दो यथा न स्यात्परस्परम्

2.176.180.29

तथा तु कल्पना कार्या योधानां भृगुनन्दन ॥
भेत्तुकामः परानीकं संहतैरेव भेदयेत्

2.176.180.2.177.30

भेदरक्षापरेणापि कर्तव्या संहता तथा ॥
स्वेच्छया कल्पयेद्व्यूहं ज्ञात्वा वा रिपुकल्पितम्

2.176.180.31

व्यूहे भेदावहं कुर्याद्रिपुव्यूहस्य पार्थिवः ॥
गजस्य देया रक्षार्थं चत्वारस्तु रथा द्विज

2.176.180.32

रथस्य चाश्वाश्चत्वारोऽश्वस्य तस्य च वर्मिणः ॥
वर्मिभिश्च समास्तत्र धन्विनः परिकीर्तिताः

2.176.180.33

पुरस्ताच्चर्मिणो देया देयास्तदनु धन्विनः ॥
धन्विनामनु चाश्वीयं रथांस्तदनु योजयेत्

2.176.180.34

रथानां कुञ्जराश्चानु दातव्याः पृथिवीक्षिता ॥
पदातिकुञ्जराश्वानां वर्म कार्यं प्रयत्नतः

2.176.180.35

अवर्मयित्वा यो वाहं चात्मानं वर्मयेन्नरः ॥
स राम नरकं याति स्वकृतेनापि कर्मणा

2.176.180.36

शूराः प्रमुखतो देया न देया भीरवः क्वचित् ॥
शूरान्वा मुखतो दत्त्वा स्कन्दमात्रप्रदर्शनम्

2.176.180.37

कर्तव्यं भीरुसंघेन शत्रुविद्रावकारकम् ॥
दारयन्ति पुरस्तात्तु विद्रुता भीरवः पुरः

2.176.180.38

प्रोत्सारयन्ते वरुणी भीरूञ्शूरान्पुनः स्थिताः ॥
प्रांशवः शुकनासाश्च ये च जिह्वेक्षणा नराः

2.176.180.39

संहतभ्रूयुगाश्चैव क्रोधनाः कलहप्रियाः ॥
नित्यं हृष्टाश्च ह्रस्वाश्च शूरा ज्ञेयाश्च कामिनः

2.176.180.2.177.40

दाक्षिणात्याश्च विज्ञेयाः कुशलाः खड्गवर्मिणः ॥
वङ्कला धान्विनो ज्ञेयाः पार्वतीयास्तथैव च

2.176.180.41

पाषाणयुद्धकुशलास्तथा पर्वतवासिनः ॥
पांचालाः शूरसेनाश्च रथेषु कुशला नराः

2.176.180.42

काम्बोजा ये च गांधाराः कुशलास्ते हयेषु च ॥
प्रायशश्च तथा म्लेच्छा विज्ञेयाः पाशयोधिनः

2.176.180.43

अङ्गा वङ्गा कलिङ्गाश्च ज्ञेया मातङ्गयोधिनः ॥
आहतानां हतानां च रणापनयनक्रिया

2.176.180.44

पत्तियोधगजानाञ्च तोयदानादिकं च यत् ॥
आयुधानयनं चैव पत्तिकर्म विधीयते ॥

2.176.180.45

रिपूणां भेदकामानां स्वसैन्यस्य तु रक्षणम् ॥
भेदनं संहतानां च कर्मणां चर्म कीर्तितम्

2.176.180.46

विमुखीकरणं युद्धे धन्विनां च तथोच्यते ॥
चर्मिभिः क्रियते शूरैर्भिन्नानामपि संहतिः

2.176.180.47

शूरापसरणं यावत्साश्वीयस्य तथोच्यते ॥
त्रासने रिपुसैन्यानां रथकर्म तथोच्यते

2.176.180.48

प्राकारगोमुखाट्टालद्रुमभंगाश्च भार्गव ॥
गजानां कर्म निर्दिष्टं यदसह्यं तथा परैः

2.176.180.49

पत्तिभूविषमाजेया रथाश्वस्य तथा समा॥
शर्माद्रुमा च नागानां युद्धभूमिरुदाहृता

2.176.180.2.177.50

एवं विरचितव्यूहः कृतपृष्ठदिवाकरः ॥
तथानुलोमशुक्रो वा दिक्पालबुधमारुताः

2.176.180.51

योधानुत्तेजयेत्सर्वान्रामगोत्रापदाननः ॥
भोगप्राप्तिश्च विजये स्वर्गप्राप्तिर्मृतस्य च

2.176.180.52

धन्यानि तु निमित्तानि वदन्ति विजयं द्विज ॥
स्पन्दनं शुभगात्राणां शुभस्वप्ननिदर्शनम्

2.176.180.53

निमित्तं च गजाश्वस्य सर्वतो दृश्यते शुभम् ॥
शकुना मङ्गलाश्चैव दृश्यन्ते हि मनोऽनुगा॥

2.176.180.54

विपरीतसरीसर्पान्मृत्युः स्पृशति नान्यथा ॥
भवन्तोऽपि कुले जाताः सर्वशस्त्रास्त्रपारगाः

2.176.180.55

गान्धर्वे च परा नित्यं नित्यं सन्मार्गमाश्रिताः ॥
अनाहार्याः परैर्नित्यं कथं न स्याज्जयो मम

2.176.180.56

राजश्रीर्भवतामेव भवद्भिः केवलं मम ॥
द्वे चामरेऽधिके शूराच्छत्रं चर्माभमेव च

2.176.180.57

जित्वरीन्भोगसंप्राप्तिर्मृतस्य च परा गतिः ॥
निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः

2.176.180.58

शूराणां यद्विनिर्याति रक्तमाबाधतः क्वचित् ॥
तेनैव सह पाप्मानं सर्व त्यजति धार्मिक

2.176.180.59

तथा बाधचिकित्सायां वेदनासहिते तथा ॥
ततो नास्त्यधिकं लोके किञ्चित्परमदारुणम्

2.176.180.2.177.60

मृतस्य नाग्निसंस्कारो नाशौचन्नोदकक्रिया ॥
कर्तुमिच्छति यस्येह संग्रामादधिकं नु किम्

2.176.180.61

तपस्विनो दानपरा यज्वानो बहुदक्षिणाः ॥
शूराणां गतिमिच्छन्ति दृष्ट्वा भोगाननुत्तमान्

2.176.180.62

वराप्सरःसहस्राणि शूरमायोधने हतम् ॥
अभिद्रवन्ति कामार्ता मम भर्ता भविष्यति

2.176.180.63

स्वामी सुकृतमादत्ते भग्नानां विनिवर्तताम् ॥
ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदेपदे

2.176.180.64

यः सहायान्परित्यज्य स्वस्तिमान्गन्तुमिच्छति ॥
अस्वस्ति तस्य कुर्वन्ति देवाः शक्रपुरोगमाः

2.176.180.65

अश्वमेधफलं प्रोक्तं भग्नानामनिवर्तताम् ॥
पदेपदे महाभागा संमुखानां महात्मनाम्

2.176.180.66

देवस्त्रियस्तथा लक्ष्मीः पाप्मानमयशस्तथा ॥
प्रतीक्षन्ते महाभाग संग्रामे समुपस्थिते

2.176.180.67

पराङ्मुखा मया ग्राह्या जीवन्तोप्यभवा मृताः ॥
इत्येवमयशस्तस्य पाप्मना सह तिष्ठति

2.176.180.68

लक्ष्मीः सन्तिष्ठते तस्य जीवतः कृतकर्मणः

2.176.180.69

मृतस्य चापि तिष्ठन्ति विमानस्था सुरस्त्रियः ॥
एवमुद्घोषणं कृत्वा धर्मेणेच्छेज्जयं रणे

2.176.180.2.177.70

अधर्मविजयो राज्ञो नृपलोके भयावहः ॥
अधर्मविजयादर्थैर्यच्छिद्रमुपधीयते

2.176.180.71

छिद्रादेव परं छिद्रं तस्य स्यान्नात्र संशयः ॥
न कर्णी न तथा दिग्धः शरः स्याद्धर्मयोधिनाम्

2.176.180.72

नास्थिशल्यः शरः कार्यो दारुशल्यश्च भार्गव ॥
समः समेन योद्धव्यो नापचारो रणे द्विज

2.176.180.73

सन्नद्धेन च सन्नद्धः साश्वश्चाश्वगतेन तु ॥
रथी च रथिना राम पदातिश्च पदातिना

2.176.180.74

कुञ्जरस्थो गजस्थेन योद्धव्यो भृगुनन्दन ॥
विमुखो भग्नशस्त्रश्च स्त्रीबालपरिरक्षिता

2.176.180.75

व्यायुधो भग्नगात्रश्च तथैव शरणागतः ॥
परेण युद्ध्यमानश्च युद्धप्रेक्षक एव च

2.176.180.76

आर्तस्तोयप्रदाता च दण्डपाणिस्तथैव च ॥
एते रणे न हन्तव्या क्षत्रधर्ममभीप्सता

2.176.180.77

पापिष्ठो कूटयुद्धे च कर्तव्यमपि चाहवे ॥
श्रान्तेन वाभिभूतेन अर्धोत्तीर्णबलेन च

2.176.180.78

दुर्दिने न च युद्धानि कर्तव्यानि महाबल

2.176.180.79

प्रवृत्ते समरे राम परेषां नामकारणात् ॥
बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे त्विति ॥
प्राप्तं मित्रबलं भूरि नायकोऽत्र निपातितः

2.176.180.2.177.80

सेनानीर्निहतश्चायं सर्वा सेनापि विद्रुता ॥
एवं चित्रासनं कुर्यात्परेषां भृगुनन्दन

2.176.180.81

विद्रुतानां तु योधानां सुविघातो विधीयते ॥
धनुर्वेदविधानेन कल्पना च तथा भवेत्

2.176.180.82

पापाश्च देया धर्मज्ञ तथैव परमोहनाः ॥
पताकाभ्युच्छ्रयः कार्यः स्वबले च तथा शुभः

2.176.180.83

संस्कारश्चैव कर्तव्यो वादित्राणां भयावहः ॥
एतस्य वर्षं वक्ष्यामि तवोपनिषदि द्विज

2.176.180.84

संप्राप्य विजयं युद्धे कार्यं दैवतपूजनम् ॥
पूजयेद्ब्राह्मणांश्चात्र गुरूनपि च पूजयेत्

2.176.180.85

रत्नानि राजगामीनि चर्म वाहनमायुधम् ॥
सर्वमन्यद्भवेत्तस्य यद्येनैव रणे हृतम्

2.176.180.86

कुलस्त्रियस्तु विज्ञेयास्तथा राम न कस्यचित् ॥
स्वदेशे परदेशे वा साध्वीं यत्नान्न दूषयेत्

2.176.180.87

अन्यथा संकरो घोरो भवतीह क्षयावहः ॥
शक्रः प्राप्य रणे मुक्तः पुत्रस्तस्य प्रकीर्तितः

2.176.180.88

पुरस्तेनास्य योद्धव्यं तस्य धर्मं विजानता ॥
देशेदेशे य आचारः पारम्पर्यक्रमागतः

2.176.180.89

स एव परिपाल्यः स्यात्प्राप्य देशं महीक्षिता ॥
नृणां प्रदर्शयेद्राजा समरेऽपि हते रिपौ

2.176.180.2.177.90

न मे प्रियं कृतं तेन येनायं समरे हतः ॥
किन्तु पूजा करोम्यस्य स्वच्छन्दमविजानतः

2.176.180.91

हतोऽयं मद्धितार्थाय प्रियं यद्यपि नो मम ॥
अपुत्राश्च स्त्रियश्चैव नृपतिः परिपालयेत्

2.176.180.92

ततस्तु स्वपुरं प्राप्य नृपतिः प्रविशेद्गृहम् ॥
यात्राविधानविहितं भूयो दैवतपूजनम्

2.176.180.93

पितॄणां पूजनं चैव तथा कुर्याद्विशेषवत् ॥
संविभागं परावाप्तेः कुर्याद्भृत्यजनस्य तु

2.176.180.94

अवाप्य धर्मेण नृपस्तु पृथ्वीमारामयूपादिसुरालयाङ्काम् ॥
कृत्वा तथान्यां द्विजसाच्च शक्त्या लोकं जयंत्यस्य नराधिपस्य

2.176.180.177

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने शत्रुप्रत्यभिगमनो नाम सप्तसप्तत्युत्तरशततमोऽध्यायः

2.176.180.1

2.178
राम उवाच ॥
धनुर्वेदं समाचक्ष्व संक्षेपात्सुरनन्दन ॥
सर्वं त्वमेव जानासि यथा देवः पितामहः ॥

2.176.180.2

पुष्कर उवाच ॥
चतुष्पादो धनुर्वेदस्तथा पञ्चविधो द्विज ॥
रथनागाश्वपत्तीनां पादानाश्रित्य कीर्तितः

2.176.180.3

यन्त्रमुक्तं प्राणिमुक्तं मुक्तसन्धारितं तथा ॥
अमुक्तं बाहुयुद्धं च पञ्चधा तत्प्रकीर्तितम्

2.176.180.4

तच्च शस्त्रास्त्रसंपत्त्या द्विविधं परिकीर्तितम् ॥
दण्डमायाविभेदेन भूयो द्विविधमुच्यते ॥
ऋजुमायाविभेदेन भूयो द्विविधमुच्यते

2.176.180.5

क्षेपणीचापयन्त्राद्यं यन्त्रमुक्तं प्रकीर्तितम्

2.176.180.6

शिलातोमरचक्राद्यं पाणिमुक्तं तथैव च ॥
मुक्तसन्धारितं ज्ञेयं पाशाद्यमपि यद्भवेत्

2.176.180.7

खड्गादिकमनुक्तं च तथा ज्ञेयं महाभुज ॥
नियुद्धं व्यायुधं ज्ञेयं पाणिप्रहरणादिकम्

2.176.180.8

तत्रादावेव योग्यत्वं गात्राणां तु विधीयते ॥
तथा व्यायामचारित्वं भारकर्षणमेव च

2.176.180.2.178.10

जितश्रमो हि युद्धेषु कर्मयोग्यत्वमाप्नुयात् ॥
रथाश्वगजपृष्ठेषु तानि शस्त्राणि चाभ्यसेत्॥॥
तानि वै खड्गमुख्यानि बाहुप्रत्यवराणि च॥
धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च

2.176.180.11

वैश्यस्य गुरुतां कुर्यान्न वा कुर्यात्तथा द्विजम् ॥
धनुर्वेदे न गुरुतां शूद्रः कुर्यात्कदाचन

2.176.180.12

स्वयमेव तु शूद्रं च कर्तव्या कर्मयोग्यता ॥
तस्मायुद्धाधिकारोस्ति शूद्रस्यापि विशांपते

2.176.180.13

सङ्गराणामपि तथा हितः स्यात्स स्वयं प्रभोः ॥
सर्वरत्नैर्महाराज राजा रक्ष्यः प्रयत्नतः

2.176.180.14

श्रद्धावतो भक्तिमतः सुशीलान्नम्रान्विनीतान्क्षमयोपपन्नान् ॥
स्निग्धान्नरेशान्सुदृढान्मनोज्ञानध्यापनीयांस्तु वदन्ति सन्तः

2.176.180.178

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे धनुर्वेदवर्णनो नामाष्टसप्तत्युत्तरशततमोऽध्यायः

2.176.180.1

2.179
॥ पुष्कर उवाच ॥
पाणिपादतले पृष्ठं सर्वे स्युः संहिता यदि ॥
दृष्टं सामपदं स्थानमेतल्लक्षणतस्तधा

2.176.180.2

बाह्यांगुलिः स्फिचौ पादौ स्तब्धजानुबलावुभौ ॥
त्रिवितस्त्यन्तरायाममेवं वैशाखमुच्यते

2.176.180.3

मण्डलाकारपादाभ्यामुद्यते यत्र जानुनी ॥
चतुर्विधं त्रिविच्छिन्नं तदेवं मण्डलं स्मृतम्

2.176.180.4

फलाकृतिसमं यच्च स्तब्धजानूरुदक्षिणम्॥
वितस्तिपञ्चविस्तारन्तदालीढं प्रकीर्तितम्

2.176.180.5

नमिता पूर्वजङ्घा च सदालीढविधीयते॥
तिर्यग्गतो भवेद्वामो दक्षिणोऽपि भवेदृजुः

2.176.180.6

गुल्फौ पार्णिस्थितावेव स्थिरौ पञ्चाङ्गुलान्तरौ ॥
स्थानजातं भवेदेतद्द्वादशाङ्गुलमायतम्

2.176.180.7

एतदेव विपर्यस्तं प्रत्याख्यातं प्रकीर्तितम् ॥
कुब्जजानुर्भवेद्वामो दक्षिणस्तु प्रसारितः

2.176.180.8

अथ वा दक्षिणं जानुं कुब्जं भवति निश्चलम् ॥
भवेद्दण्डायतो वामश्चरणः सह जानुना

2.176.180.9

एवं विकच्छमुद्दिष्टं द्विहस्तान्तरमायतम् ॥
जानुनी द्विगुणौ स्यातां ह्युत्तानौ चरणावपि

2.176.180.2.179.10

अनेन विनियोगेन सम्पुटं परिकीर्तितम् ॥
किञ्चिद्विवर्तितौ पादौ समदण्डायतौ स्थिरौ

2.176.180.11

दृष्टिमेव यथान्यायं षोडशाङ्गुलमायतम् ॥
स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विजः

2.176.180.12

कार्मुकं भृगुवामेन वामं दक्षिणकेन वा ॥
वैशाखेप्यथ वा जाते स्थितो वा प्यथ वायते

2.176.180.13

गुणाग्रं तु ततः कृत्वा कार्मुके प्रियकार्मुकः॥
अधःकोटिं तु धनुषः फलदेशे च पत्रिणः

2.176.180.14

धरण्यां स्थापयित्वा तु लालयित्वा तथैव च॥
भुजाभ्यामत्र कुब्जाभ्यां प्रकोष्ठाभ्यामरिंदम

2.176.180.15

न्यस्य बाणं धनुःश्रेष्ठं पुङ्खदेशे च पत्रिणः ॥
विन्यासो धनुषश्चैव द्वादशाङ्गुलमन्तरः

2.176.180.17

तयोर्भार्गव कर्तव्यो नातो हीनो न चाधिकः ॥
निवेश्य कार्मुकं कण्ठे नितम्बे शरसङ्करम्॥१६।
उत्क्षिपेदस्थिरंहस्तमन्तरेणाक्षिकर्णयोः ॥
पूर्वेण मुष्टिना ग्राह्यः स्तनाग्रं दक्षिणः शरः

2.176.180.18

हरणं तु ततः कृत्वा शीघ्रं पूर्वां प्रसारयेत्॥
नात्यन्तरा नैव बाह्या नोर्ध्वगा नाधरास्तथा

2.176.180.19

न च कुब्जा न चोत्ताना न चला नातिवेष्टिताः ॥
समाः स्थैर्यगुणोपेताः पूर्वे दण्डमिव स्थिताः

2.176.180.2.179.20

छादयित्वा ततो लक्ष्यं पूर्वेणानेन मुष्टिना ॥
तरसा तूत्थितो यत्नात्त्रिकोणविनतिस्थितः

2.176.180.21

स्रस्तांसो निश्चलग्रीवो मयूरांचितमस्तकः ॥
ललाटनासावक्त्रांसः कूर्परश्च समं भवेत्

2.176.180.22

अन्तरं त्वङ्गुलं ज्ञेयं चिबुकस्यांसकस्य च ॥
प्रथमे त्र्यङ्गुले विन्द्याद्द्वितीये द्व्यङ्गुलं स्मृतम्

2.176.180.23

तृतीयेऽङ्गुलमुद्दिष्टं चायतं चिबुकांसयोः ॥
गृहीत्वा सायकं तत्र तर्जन्यङ्गुष्ठमेव च

2.176.180.24

अनामया ततो गृह्य पुनर्मध्यमयापि च ॥
तावदाकर्षयेद्योगाद्यावद्बाणः सुपूरितः

2.176.180.25

।
एवंविधमुपक्रम्य मोक्तव्यो विधिवत्खगः ॥
दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्बाणेन भार्गव

2.176.180.26

मुक्त्वा चापं वामहस्तं क्षिपेद्वेगेन पृच्छतः ॥
एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज

2.176.180.27

कूर्परं त्रिविधं कार्यमाकृष्टन्तु धनुष्मता ॥
तत्रापि मुक्तके कार्यमक्षश्लिष्टस्तु मध्यमम्

2.176.180.28

ज्येष्ठं प्रकृष्टं विज्ञेयं धनुःशास्त्रविशारदाः ॥
ज्येष्ठस्तु पावको ज्ञेयो भवेद्द्वादशमुष्टयः

2.176.180.29

एकादश तथा साध्यः कनीयान्दशमुष्टयः ॥
चतुर्हस्तं धनुःश्रेष्ठं प्रयोगं चास्य मध्यमम्

2.176.180.2.179.30

कनीयसं त्रयः प्रोक्तं नित्यमेव पदातिना ॥
अश्वे रथे गजे ज्येष्ठं तदेव परिकीर्तितम्

2.176.180.31

तदेव हीनं खलु मध्यमं स्यात्तदेव हीनं च तथा कनीयः ॥
पूर्णायुधस्यैष विधिर्मया ते प्रोक्तः समासाद् भृगुवंशमुख्य

2.176.180.179

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० वज्र सं० रामं प्रति पुष्करोपाख्याने धनुर्वेदो नामैकोनाशीत्युत्तरशततमोऽध्यायः

2.176.180.1

2.180
पुष्कर उवाच ॥
पूर्णायुधो भृतिं कृत्वा ततो मांसैर्गतायुषाम् ॥
वराहमृगमेषाणां माहिषाद्यैस्तथा द्विज

2.176.180.2

मुनिधौतं ततः कुर्याद्युग्यं भूपैर्विधानवित् ॥
मृदुसंस्तरणोपेतं मृदु वल्गु च योजयेत्

2.176.180.3

ततो वाहं समारुह्य दंशितः सुसमाहितः ॥
तूर्णमारुह्य बध्नीयाद्दृढां कक्षां च दक्षिणाम्

2.176.180.4

वैकक्ष्यमपि तच्चापं धारयेद्यन्त्रसंस्थितम् ॥
ततो समुद्धरेद्बाणं ऋणाद्दक्षिणपाणिना

2.176.180.5

तज्जवः सहितं सर्वं मध्ये संगृह्य धारयेत् ॥
वामहस्तेन वै कक्ष्याद्धनुस्तस्मात्समुद्धरेत्

2.176.180.6

सुनिषण्णमणिर्भूत्वा गुणे पुङ्खं निवेशयेत् ॥
संपीड्य सिंहकर्णेन पुंखेनापि समे दृढम्

2.176.180.8

वामकर्णोपरिस्थं च फलं व्यामस्य धारणात् ॥
बलामध्यमया तत्र वामांगुल्या च धारयेत् । ७ ॥
मनोलक्ष्यगतं कृत्वा दृष्टिं च सुविधानवित् ॥
दक्षिणे गात्रभागे तु बलामाशु विमोक्षयेत्

2.176.180.9

ललाटपुटसंस्थानं दाणीं लक्ष्ये निवेशयेत्

2.176.180.2.180.10

आकृष्य ताडयेत्तत्र दण्डकं षोडशांगुलम् ॥
मुक्त्वा बाणं ततः पश्चाद्बलां शिक्षेत्तदातदा

2.176.180.11

विगृह्णीयान्मध्यमया ततोंगुल्या पुनःपुनः ॥
अभिलक्ष्याक्षिपेत्तूणांश्चतुरस्रं च दक्षिणम्

2.176.180.12

चतुरस्रगतं वैध्यमभ्यसेदादितः स्थितः ॥
तस्मादनन्तरं तीक्ष्णं परावृत्तगतं च यत्

2.176.180.13

निश्रमुन्नतवेद्यन्तमभ्यसेत्तुष्यकं ततः ॥
वेध्यस्थानेष्वथैतेषु सन्यस्तपुटकं धनुः

2.176.180.14

हस्तावापगतैः स्रस्तैर्जपेद्धस्तकरैरपि ॥
तस्मिन्वेध्यगते राम द्वे वेध्ये दृढसंज्ञिते

2.176.180.15

द्वे वेध्ये पुष्करे विद्धि द्वे तथा चित्रपुष्करे ॥
चतुरस्रं च तीक्ष्णं च दृढवेध्ये प्रकीर्तिते

2.176.180.16

चतुरस्रं स्थूलतीक्ष्णं...... ॥
निम्नं पुष्करमुद्दिष्टं वेध्यमूदूर्ध्वगतं च यत्

2.176.180.17

पुष्करेऽधमवेध्ये तु चित्रपुष्करसंज्ञके ॥
एवं वेध्यगणं कृत्वा दक्षिणेनेतरेण च

2.176.180.18

आरोहेत्प्रथमं धीरो जितलक्ष्यस्ततो नरः ॥
एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः

2.176.180.19

आदिकं भ्रमणं तस्य तस्माद्विद्वन्प्रकीर्तितम् ॥
लक्ष्यं संयोजयेत्तत्र प्रतियन्त्रगतं दृढम्

2.176.180.2.180.20

भ्रान्तं प्रचलितं चैव स्थितं यच्च भवेदिति ॥
समन्ताच्छादयेत्पश्चाच्छेदयेच्छ्लथयेदपि

2.176.180.21

कर्मयोगविधानज्ञो ज्ञात्वैवं विधिमाचरेत् ॥
मनसा चक्षुषा दृष्ट्या योगं शिक्षन्न्यसंजयेत्

2.176.180.22

दत्त्वा प्रयुक्तं सुकृतं प्रमाणान्न्यसेत्समन्तात्पुटकान्विचित्रान् ॥
अप्यङ्गुलीयप्रतिमां जपेच्च वालङ्गताः काष्ठगतं प्रलम्बम्

2.176.180.23

सिद्धार्थकान्गुञ्जयवांश्च तस्मिन्न्यसेद्विधिज्ञो भ्रमरीरिकाञ्च ॥
मृत्पिण्डसंस्थान्फलकांक्षितांश्च कबन्धनिष्पावकपेलवाश्च

2.176.180.24

हंसान्मयूरान्कुररांस्तथा च कारण्डवांश्चैव शिलीमुखांश्च ॥
गृध्रानुलूकानथ वापि चाषान्कपोतगोधाशुकसारिकाश्च

2.176.180.25

पलाशमूलोर्णवपूर्ण देहांश्चर्मावबद्धां मृदुचित्रगात्राम् ॥
वस्त्रयन्त्रैर्विविधैः सुयुक्तां काष्ठावसक्तैर्बहुभिः प्रकारैः

2.176.180.26

चलान्स्थिरांश्चाप्रगतांश्च विद्धान्न्यसेद्यथान्यायमथोर्ध्वसंस्थान् ॥
व्याघ्रान्मृगेन्द्रान्पृषतान्रुरूंश्च मृगान्सगोकर्णवराहवक्त्रान्

2.176.180.27

गोमायुमार्जारशशांस्तथान्यानृक्षान्मृगाश्चन्द्रमयेन्दुपूर्णान् ॥
अन्यान्समीपोपगतान्मृगांश्च विधानवित्तान्प्रतियन्त्रसंस्थान्

2.176.180.28

जातांस्तथान्यांश्च बहुप्रकाराननेकसंस्थानविबद्धदेहान् ॥
नानाविधैस्तैर्विशिखभ्रमस्थः सन्धानयोगैस्त्रिविधश्च हन्यात्

2.176.180.180

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदो नामाशीत्युत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc