भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.5

1.5.1

॥ मार्कण्डेय उवाच ॥
भूर्लोकः प्रथमो राजञ्शृणुष्व गदतो मम ॥
पातालेन तु तत्तुल्यमूर्ध्वतः परिकीर्त्तितः

1.5.2

वायुस्कन्धा विनिर्दिष्टास्ते तु सप्त महात्मभिः ॥
एकैकं नियुताः पंच योजनानां प्रकीर्तितम्

1.5.3

पशवः पक्षिणः कीटा मनुष्याः किन्नरास्तथा ॥
यक्षराक्षसगन्धर्वाः पिशाचा भूमिगोचराः

1.5.4

सर्व एते विनिर्दिष्टा अन्नादा भूमिगोचराः ॥
विद्याधराणां प्रथमं वायुमार्गः प्रकीर्त्तितः

1.5.5

द्वितीयः सिद्धविद्यानां तृतीयस्तु गरुत्मताम् ॥
चतुर्थो वायुमार्गस्तु गन्धर्वाणां प्रकीर्त्तितः

1.5.6

विनायकाः पञ्चमगा षष्ठे च करिणां गणाः ॥
येषां शीकरतोयेन चावश्यायः प्रकीर्त्तितः

1.5.7

सप्तमे च महाभाग सिद्धास्तिष्ठंति यादव ॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः

1.5.8

भुवर्लोक इति ख्यातो यत्र तिष्ठंति देवताः ॥
मन्वन्तराधिकारेषु ये भविष्या महीपते

1.5.9

तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
स्वर्लोको वसतिर्यत्र प्रायशः पुण्यकर्मणाम्

1.5.1.5.10

सोमपानां च देवानां शक्रादीनां महीपते ॥
महर्लोकस्थितिर्यत्र देवतानां महात्मनाम्

1.5.11

विनिवृत्ताधिकाराणां सिद्धानां नृपसत्तम ॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः

1.5.12

जनलोकः स्थितिर्यत्र गवां पार्थिवसत्तम ॥
तिष्ठन्ति ब्रह्मणो रात्र्यां यत्र जीवाः समन्ततः

1.5.13

तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
तपोलोकः स्थितिर्यत्र प्राणेशानां महात्मनाम्

1.5.14

तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
सत्यलोकः स्थितिर्यत्र ब्रह्मणः परमेष्ठिनः

1.5.15

इत्येते कथिताः सप्त तव लोका महात्मनाम् ॥
एतावानेव सवितुर्विचरन्ति मरीचयः

1.5.16

एतेषु लोकसंज्ञोक्ता तस्मादेव मनीषिभिः ॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः

1.5.18

स्थानं रुद्रस्य कथितं रुद्रतेजोविराजितम् ॥
ब्रह्मलोकोपरिष्टात्तु रुद्रलोको महत्तमः ॥ १७
योजनानां सहस्राणि पञ्चभिर्निबिडं मतम् ॥
आदित्यमन्दिरं प्रोक्तं यदेतद्दिवि दृश्यते

1.5.19

यदेतद्दृश्यते नीलं तमस्तत्पृथिवीपते ॥
तमसस्तु परे पारे रुद्रलोकः स्वयं प्रभो

1.5.1.5.20

रुद्रत्वं समनुप्राप्तैस्तत्र भक्तैर्महानघ ॥
क्रीडन्नास्ते महादेवः सपत्नीको वृषध्वजः

1.5.21

तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
अगम्यस्सर्वदेवानां विष्णुलोकः प्रकीर्त्तितः

1.5.22

तस्योपरिष्टाद्ब्रह्माण्डः काञ्चनो दीप्तिसंयुतः ॥
भुवर्लोके तु वसतिर्वामनस्य महात्मनः

1.5.23

स्वर्लोके वसतिर्विष्णोर्वैकुण्ठस्य महात्मनः ॥
नृवराहस्य वसतिर्महर्लोके प्रकीर्तिता

1.5.24

नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः ॥
त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्तिता

1.5.25

लोकाः सन्तानका नाम सत्यलोके प्रकीर्त्तिताः ॥
एतेषु देवं पश्यन्ति देवाः सेन्द्रपुरोगमाः

1.5.26

तपसा महता राजन् भक्ताश्च सततं प्रभुम् ॥
रुद्रस्थानोपरिष्टात्तु विष्णोः स्थानं मयोदितम्

1.5.27

न कश्चिदेनं शक्नोति द्रष्टुं देववरं हरिम् ॥
न तत्र सूर्यस्तपति चन्द्रमा न विराजते

1.5.28

तेजसा तस्य देवस्य स तु देशो विराजते ॥
तस्योपरिष्टादारभ्य यावदन्तं महीपते

1.5.29

प्रोक्तं वराहस्थानस्य तत्र मानं निबोध मे ॥
योजनानां च षट्कोट्यस्त्रिंशच्च नियुतान्यथ

1.5.1.5.30

एतावच्चैव भूतानां वसतिः परिकीर्तिता ॥
एतावदेव चन्द्रस्य तलमुक्तं समंततः

1.5.31

एतेषु देवं पश्यन्ति देवाः सेन्द्रपुरोगमाः ॥
तपसा महता राजन् भक्ताश्च सततं प्रभुम्

1.5.32

बाह्यतोऽण्डं दशगुणं त्वद्भिस्तु परिवारितम् ॥
आपो दशगुणेनैव बाह्यतस्तेजसा वृताः

1.5.33

तेजोदशगुणेनैव बाह्यतः पवनेन च ॥
वायुर्दशगुणेनैव गगनेन तथावृतः

1.5.34

आकाशं च दशघ्नेन मनसा बाह्यतो वृतम्॥
मनश्च बुद्ध्या सकलं वृतं राजन् दशघ्नया

1.5.35

आत्मना चावृता बुद्धिर्दशघ्नेन समन्ततः॥
अव्यक्तेन तथैवात्मा दशघ्नेनैव चावृतः

1.5.36

अव्यक्तः पुरुषेणाथ त्वनन्तेनावृतोऽनघ ॥
एवं विधानामण्डानामव्यक्तः पुरुषोत्तमः

1.5.37

तिर्य्यगूर्ध्वमधः संख्या वक्तुं राजन्न शक्यते ॥
अनन्तत्वात्प्रधानस्य पुरुषस्य महात्मनः

1.5.38

एकरूपास्तथैवाण्डाः सर्व एव नराधिप ॥
तुल्यदेशविभागश्च तुल्यजन्तव एव च

1.5.39

देशेदेशे समाना ये अण्डेषु नृपसत्तम ॥
सुखदुःखे समे तेषां जीवितं मरणं तथा

1.5.1.5.40

सर्वाण्डानां समा ज्ञेया कालसंख्या नराधिप ॥
पौरुषस्य दिनस्यान्ते सर्वे ह्यण्डनिवासिनः

1.5.41

एकोऽप्यनन्तो राजेन्द्र नान्तरेव प्रकीर्तितः ॥
अयं मयोक्तो नृप सन्निवेशः संक्षेपमात्रेण चराचरस्य ॥
व्यासेन चैवं परिकीर्त्यमानः समाप्यते नैव कदाचिदेव

1.5.5

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे लोकवर्णनं नाम पञ्चमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc