भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.4

1.4.1

॥ मार्कण्डेय उवाच ॥
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ॥
प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते

1.4.2

त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ॥
ता राजसर्षपास्तिस्रस्तास्त्रयो गौरसर्षपाः

1.4.3

सर्षपाः षड्यवो मध्ये अङ्गुलं च तदष्टकम् ॥
द्वादशाङ्गुलिकः शङ्कुस्तद्द्वयं हस्त उच्यते

1.4.4

तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिका ॥
क्रोशद्वयं च गव्यूतिः योजनं तच्चतुष्टयम्

1.4.5

योजनानां प्रमाणेन चायुतानां शतत्रयम् ॥
अयुतानां च पञ्चाशच्छेषस्थानं मनोहरम्

1.4.6

स एव लोके वाराहः कथितश्च स्वयं प्रभुः ॥
वाराहरूपी भगवाञ्छतरूपधरस्तथा

1.4.7

तत्रास्ते भगवान्विष्णुर्भक्तैः सह महात्मभिः ॥
लोकोऽयमंडसंलग्नश्छत्राकारः प्रकीर्तितः

1.4.8

स्वयं प्रभुर्वीतरजाः सर्वदुःखविवर्जितः ॥
एकान्तभावोपगतास्तं प्रयान्ति हरि जनाः

1.4.9

सर्वाधस्तादयं लोकः कथितस्ते मनोहरः ॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः

1.4.1.4.10

कालाग्निरुद्रलोकस्तु कथ्यतेऽग्निसमर्चितः ॥
एक एव स तत्रास्ते स्वप्रभाभास्वरात्मकः

1.4.11

तस्मात्समुत्थितो वह्निर्जगत्प्राप्ते दिनक्षये ॥
भस्मसात्कुरुते सर्वं यच्चेङ्गं यच्च नेङ्गते

1.4.12

तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥।
पातालनामा पातालः प्रथमः परिकीर्तितः

1.4.13

योगमायां समास्थाय द्वितीयामास्थितस्तनुम् ॥
सर्वतो भगवानास्ते शेषमूर्तिर्जनार्दनः ॥

1.4.14

रुक्मभौमः स पातालो धृतो रुद्रस्य तेजसा ॥
तस्मिन्स भगवानास्ते शेषपर्यङ्कमास्थितः

1.4.15

नित्यं तालध्वजो वाग्मी वनमालाविभू षितः ॥
धारयञ्छिरसा नित्यं रत्नचित्रां फणावलीम्

1.4.16

लाङ्गली मुसली खड्गी नीलाम्बरविभूषितः ॥
स्तूयमानः स गन्धर्वैर्नागैरृषिवरैस्तथा।

1.4.17

तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
सुतलसंज्ञः पाताल शिलाभासः समन्ततः

1.4.18

बलिस्तु भगवांस्तत्र बहिस्तिष्ठतिसंयतः ॥
रम्यं पुरवरं तस्य विष्णुना निर्मितं स्वयम्

1.4.19

निवासं देवराजस्य विशिष्टं तत्पुरोत्तमम् ॥
सा वैष्णवी कला प्रोक्ता ययेदं धार्यते जगत्

1.4.1.4.20

(फणेषु तस्य विश्रान्ता मिलिता च शुभाशुभा ॥
तत्रास्ते स महाभागः श्रिया परमया युतः

1.4.21

तमुपासन्ति सततं गन्धर्वाप्सरसां गणाः ॥)
तत्रास्ते देवदेवस्य मूर्तिः कृष्णस्य चापरा

1.4.22

तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
आभासतल इत्येव पातालो नीलमृत्तिकः

1.4.23

तृतीयः स तु विख्यातः सुरभिर्यत्र तिष्ठति ॥
दिग्धेनवस्तथा तत्र चतस्रश्च तथा स्थिताः

1.4.24

सुभद्रा वह्निरूपा च विश्वरूपा तथैव च ॥
रोहिणी च महाभागा याभिर्वृतमिदं जगत्

1.4.25

तासां क्षीरेण सर्वासां कृतः क्षीरार्णवः प्रभो ॥
पातालमध्ये तस्मिंस्तु पुरं विष्णोर्मनोरमम्॥

1.4.26

यत्रास्ते भगवान्विष्णुः शेषपर्यङ्कगस्तथा ॥
अग्निज्वालापरिक्षिप्तः सह लक्ष्म्या परन्तप

1.4.27

तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
पीतभौमश्चतुर्थस्तु गभस्तितलसंज्ञितः

1.4.28

तत्रास्ते भगवान्विष्णुर्देवो हयशिरोधरः ॥
शशांकशतसंकाशः शातकौंभविभूषणः

1.4.29

पुरं तत्रैव विख्यातं गरुडस्य महात्मनः ॥
(प्रह्रादस्यासुरेन्द्रस्य बाष्कलेश्च महात्मनः)

1.4.1.4.30

तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
महा तलेति विख्यातो रक्तभौमस्तुपञ्चमः

1.4.31

सरोवरं तस्य मध्ये योजनानां दशायुतम् ॥
जंगमाजंगमैः सर्वेर्जलजैश्च विवर्जितम्

1.4.32

तत्रारूपेण वसति कूर्मरूपधरो हरिः ॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः

1.4.33

षष्ठश्चैव महाराज नाम्ना भीमतलस्तु सः ॥
तत्रापि सरसी दिव्या योजनानां शतं गता ॥
तस्यां च वसते देवो मत्स्यरूपधरो हरिः

1.4.34

सप्तमः कृष्णभौमस्तु नाम्ना भीमतलस्तु सः ॥
तत्रास्ते कपिलो देवो वासुदेवः स्वयं प्रभुः

1.4.35

तत्राश्मनगरं नाम वरुणस्य पुरं स्मृतम् ॥
तथा दानववीराणां नगराणि पृथक्पृथक्

1.4.36

विरोचनस्य कुम्भस्य निकुम्भस्य हरस्य च ॥
शम्बरस्य करालस्य नरकस्य हयस्य च

1.4.37

हयग्रीवस्य सुन्दस्य घसस्य प्रघसस्य च ॥
बलेः पुरवरं चात्र योगीशस्य तथापरम्

1.4.38

यत्रस्थमेनं ददृशे रावणो लोकरावणः ॥
तथा पुरवरं तत्र विष्णोरमिततेजसः

1.4.39

लक्ष्मीसहायो यत्रास्ते चाग्नेयाम्बरसंवृतः ॥
तिस्रः कोट्यस्तु यत्रास्य भक्तानां सुमहात्मनाम्

1.4.1.4.40

शङ्खचक्रगदापद्मधारिणां पीतवाससाम्

1.4.41

नीलोत्पल सवर्णानां विष्णोः सदृशतेजसाम् ॥
विष्णोः सुतानां हृष्टानां सततं भूरिवर्चसाम्

1.4.42

तत्रस्थो दृष्टवान्देवो पौलस्त्यो रावणः पुरा ॥
पुरी भोगवती तत्र तथा वासुकिपालिता

1.4.43

नागानां च पुराण्यत्र तथैव च पृथक्पृथक् ॥
पद्मस्य धृतराष्ट्रस्य विरक्तस्य कुरोस्तथा

1.4.44

तक्षकस्यैलपत्रस्य तथा कर्कोटकस्य च ॥
धनञ्जयस्य शङ्खस्य तथैवाश्वतरस्य च

1.4.45

कन्दलस्य सुरासस्य सुमुखस्य गयस्य च ॥
दिशां गजानां च तथा तत्र स्थानं पृथक्पृथक्

1.4.46

येषां स्कंधगता भूमिः सशैलवनकानना ॥
विरूपाक्षस्य नागस्य महापद्मस्य चाप्यथ

1.4.47

तथा सुमनसश्चात्र रुद्रस्य च महात्मनः ॥
पश्चायुतपरीमाणा भूमिः सर्वेषु पार्थिव

1.4.48

पातालेषु विनिर्दिष्टा पठितान्तरवर्तिनी ॥
अण्डस्यार्धमिदं प्रोक्तमधस्तात्तु प्रमाणतः

1.4.49

तिस्रः कोट्यस्तु राजेन्द्र नियुतानि तथा दश ॥
पञ्चान्यानि महीपाल भूमि पुष्ट्या महानघ

1.4.1.4.50

पञ्चायुतपरीमाणाः पुष्टिर्भूमेः प्रकीर्तिता ॥
भूमेरथोपरिष्टाच्च अण्डस्यार्धमथापरम् ॥
एतावदेव निर्दिष्टा भूमिपाल प्रमाणतः

1.4.51

चन्द्रार्कभासा रहितं नृवीर स्वयं प्रभेदं कथितं मयैतत् ॥
पातालपूगं विविधं सुरम्यं शृणुष्व लोकान् गदतो ममान्या न्

1.4.4

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पातालवर्णनो नाम चतुर्थोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc