विष्णुधर्मोत्तरपुराणम् · अध्याय 1.49
॥ मार्कण्डेय उवाच ॥ ॥
ततः साल्वो महातेजाः कुञ्जरेण तरस्विना ॥
अर्पयामास धर्मज्ञ रेणुकानन्दवर्धनम्
स्तब्धकर्णो विवृत्ताक्षः कृत्वा कुण्डलिनं करम् ॥
ग्रीवां सञ्चालयन्नागो ययौ गजमदोद्धतम्
दृष्ट्वैवापततस्तस्य वेगं रामोऽपि तं गजम् ॥
हुंकारमात्रेण रणे स्तम्भयामास वेगितम्
स्तम्भयामास नागेन्द्रं शैलेन्द्रशिखरोपमम् ॥
तस्थौ स पुरतस्तस्य साल्वस्य समरप्रियः
परशुं रुधिराक्ताङ्गं सकलङ्कमलं करे ॥
धारयन् विष्णुवद्याति सकलं कमलङ्करे
दन्तिना दन्तिनः पृष्ठं रामस्याऽऽरोढुमिच्छतः ॥
जहार वेगवान्वेगं शरैः सन्नतपर्वभिः
साल्वसायकसंघातविमुखीकृतविक्रमम् ॥
रामं रणे दैत्यगणाश्छादयन्ति वरायुधैः
महता सोऽस्त्रपुंजेन रामः संछादितो रणे ॥
निमीलिताक्षश्चिक्षेप साल्वाय परशुं तदा
आगच्छमानं वेगेन साल्वस्तं परशुं रणे ॥
आयुधैर्वारयामास न शशाक च शत्रुहा
स साल्वायुधसंघातं भङ्क्त्वा सर्वमशेषतः ॥
जहार शीर्षं साल्वस्य मुकुटोत्तमभूषितम्
रामोऽपि भूतलात्प्राप्य गदां हेमविभूषिताम् ॥
आविध्य निजघानोग्रं साल्वं कुञ्जरसंस्थितम्
द्वावङ्कुशधरौ श्रेष्ठौ द्वौ च चर्मासिधारिणौ ॥
पताकाधारिणं चैकं गजस्य जघने स्थितम्
देहं च तस्य साल्वस्य पताकां च मनोरमाम् ॥
एतदादाय सकलमाजगाम वसुन्धराम्
सिंहनादेन रामस्य वित्रस्तो गजयूथपः ॥
आर्त्तनादं महत्कृत्वा प्रदुद्राव नराधिप
रामकर्मणि वृत्ते तु भूतलात्परशुं रणे ॥
जग्राह वेगावान्वेगाद्दानवान्तचिकीर्षया
दृष्ट्वा सपरशुं रामं साल्वं च विनिपातितम् ॥
हतशेषास्तु ते दैत्याः प्रविष्टा वरुणालयम्
एतस्मिन्नेव काले तु देवाः सेन्द्रपुरोगमाः ॥
आयोधनमुपाजग्मुः पुरस्कृत्य पितामहम्
प्रणाममकरोत्तेषां रामो रतिकरः पितुः ॥
पूजयित्वा तु ते रामं ययुर्देवाः स्वमालयम्
शक्रोऽपि लब्ध्वा त्रिदिवं रामबाहुप्रसाधितम् ॥
विजहार दिवं राजन्पालयानो जगत्त्रयम्
रथेन सिंहयुक्तेन महादेवोऽपि भार्गवम्॥
आदाय प्रययौ शीघ्रं कैलासं पर्वतोत्तमम्
स्नेहेन चाऽस्य गात्राणां चक्रे सम्मार्जनं हरः ॥
येनाऽऽसीद्बलवान् रामो निर्व्रणश्च महाशयाः
गतव्रणं श्रियोपेतं जयं लब्ध्वा ह्युपस्थितम् ॥
रामं प्रहरतां श्रेष्ठं शंकरो वाक्यमब्रवीत्। २२ ॥
शङ्कर उवाच ॥
रामराम महाभाग त्वयाऽहं परितोषितः ॥
तस्मात्तवाऽहं दास्यामि चास्त्रग्रामं ह्यनुत्तमम्
अस्त्राणां धारणे शक्तस्त्वमेको भुवि भार्गव ॥
तव धैर्यमनौपम्यं तव सत्त्वमनुत्तमम्
अस्त्रयोगमिहस्थस्त्वं कृत्वा पुत्र शनैःशनैः ॥
सर्वास्त्रवित्ततो राम गन्तासि पितरं स्वकम्
यश्चैव परशुर्दिव्यः पित्रा दत्तस्तवाऽनघ ॥
अद्य प्रभृति ते क्षिप्तः करं भूयः समेष्यति
उपलक्षणमेतच्च तथा तव भविष्यति ॥
छेत्स्यामि ते संशयांश्च निर्वृतो भव पुत्रक
मार्कण्डेय उवाच ॥
इत्येवमुक्तः परिपूर्णकामो रामो महात्मा जितसैन्यनावः ॥
उवास तत्र प्रमथैः समेतः सर्वाण्यथास्त्राण्यनुशिक्षमाणः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्ववधो नामैकोनपञ्चाशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0