भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.38

1.38.1

॥ मार्कण्डेय उवाच ॥ ॥
रत्नचित्रां सुविपुलां समासाद्य सभां तदा ॥
सिंहिकातनयः साल्वः शुक्रं वचनमब्रवीत्

1.38.2

साल्व उवाच ॥
दृश्यन्त एते भगवन्नुत्पाता घोरदर्शनाः ॥
आचक्षाणा महायुद्धं विनाशमपि दारुणम्

1.38.3

रिपुं न चैव पश्यामो येन युद्धं भविष्यति ॥
सर्वज्ञत्वाद्भवान्वेत्ति तन्नः प्रब्रूहि पृच्छताम्

1.38.4

शुक्र उवाच ॥
आराध्य देवं ब्रह्माणं तपसा सिंहिका पुरा ॥
त्रिदशेभ्यो ह्यवध्यत्वं स्वसुतानामलब्ध सा

1.38.5

वरदानकृतोत्साहैर्भवद्भिर्विद्यया मम ॥
निर्जितास्त्रिदशाः सर्वे शंकरं शरणं गताः

1.38.6

तेन युष्मद्वधार्थाय विष्णुर्मानुषरूपधृक् ॥
जमदग्निसुतो रामः प्रेषितो रणकर्कशः

1.38.7

सदा देवो महातेजा मानुषं स तु साम्प्रतम् ॥
मनुष्याच्च भयं घोरं युद्ध्यस्वाऽसुरसत्तम

1.38.8

साल्व उवाच ॥
भगवन्सर्वदेवानामीश्वरो मधुसूदनः ॥
तस्मात्परतरं देवं नाऽन्यं कञ्चन शुश्रुम

1.38.9

किमर्थं स महातेजाः शंकरस्य महात्मनः ॥
आज्ञाकारी भृगुश्रेष्ठ सैंहिकेयं जिघांसति

1.38.10

शुक्र उवाच ॥
यदा यदा हि धर्मस्य ग्लानिर्भवति दानव ॥
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजत्यसौ

1.38.11

कदाचिद्दैत्यदेवेषु कदाचिन्मनुजेषु च ॥
कदाचिदथ तिर्यक्षु ज्ञात्वा कार्यबलाबलम्

1.38.13

यदा भवति देवेषु देववच्चेष्टते तदा ॥
तिर्यक्षु च यदा देवस्तिर्यग्वच्चेष्टते तदा ॥
यदा भवति मानुष्ये तदा भवति मर्त्यवत्॥
मानुष्यं रूपमासाद्य तपसा त्रिपुरान्तकम्

1.38.14

आराधयामास हरं स्वदेहे परमं नृप ॥
स तु देववरस्याज्ञां पुरस्कृत्य महातपाः

1.38.15

युष्मद्वधार्थमायाति रामेण कृतलक्षणः ॥
तस्माच्छक्रेण संधानं भवतो मम रोचते

1.38.16

त्रिविष्टपञ्च देवानां भवत्वसुरसत्तम ॥
पातालनिलया यूयं निवसध्वं गतज्वराः

1.38.17

अहं निवारयिष्यामि शंकरेण च भार्गवम् ॥
अन्यथा निविशध्वं च मनुष्येण निराकृताः

1.38.18

मार्कण्डेय उवाच ॥
एवमुक्तास्तु शुक्रेण बुद्ध्वा दैतेयदानवाः ॥
ऊचुर्वाक्यं सुसंरब्धाः शुक्रं भृगुकुलोद्वहम्

1.38.19

दैत्या ऊचुः ॥ एकत्राऽधिष्ठितं सर्वं जगत्स्थावरजंगमम् ॥
यद्यस्मात्प्रतियुध्येत न भीस्तत्राऽपि विद्यते

1.38.20

ते कथं मानुषाद्भीता नाकं त्यक्ष्याम शत्रवे ॥
शंकरं तं विजेष्यामो येनाऽसौ प्रेषितो द्विजः

1.38.21

शुक्र उवाच ॥
एकत्र पिंडितं सर्वं जगत्स्थावरजंगमम् ॥
एकत्र भगवान्विष्णुर्जगतः सोऽतिरिच्यते

1.38.22

स न शक्यो युधा जेतुं नैव देवो महेश्वरः ॥
ते यूयं प्राकृतीं बुद्धिं त्यक्त्वा सर्वे महासुराः ॥
संधिं कुरुत देवेन शक्रेणाऽमित्रघातिना

1.38.23

शक्रकार्ये सदोद्युक्तो देवदेवो जनार्दनः ॥
येन दैत्या विनिहताः पूर्वे पूर्वतराश्च ये

1.38.24

शंबरो नमुचिः शम्बुः कार्तवीर्यः कृतागमः ॥
हिरण्यकशिपुः केशी हिरण्याक्षो मदोत्कटः

1.38.25

मधुश्च कैटभश्चैव विटो धूमोऽतिऽकोपनः ॥
हयग्रीवो निसुन्दश्च सुन्दश्चन्द्रार्कलोचनः

1.38.26

ऽ
चन्द्रार्कमर्दनश्चैव चन्द्रहर्ता रणप्रियः ॥
सूर्यशत्रुर्जितामित्रो यज्ञहा यज्ञतापनः

1.38.27

मेघनादो महारोमा मेघवादो भयानकः ॥
दशग्रीवः शतग्रीवो महाग्रीवश्च दानवः

1.38.28

कालकः कालकेयश्च कालनेमि सुलोचनः ॥
कालश्च कालकल्पश्च मकराक्षो जनान्तकः

1.38.29

अन्तः केशमनो भीमो देवान्तकनरान्तकौ ॥
क्रोधहा बहुनेत्रश्च महाकालो जलान्तकः

1.38.30

एकलव्यः स चाधारो दुर्मुखो दुर्धरो वडिः ॥
इन्दुतापनरम्भो च रणचण्डहरप्रियौ

1.38.31

किरीटी गजवक्त्रश्च महासालो विलोहितः ॥
ह्रादानुह्रादप्रह्रादवृक्षरक्षरदारुणाः

1.38.32

शतभः शलभश्चैव कूपनश्च महासुरः ॥
विप्रचित्तिः शिवः शङ्करयः शङ्कुस्तथैव च

1.38.33

अयःशिरा अश्वशिरा भीमदक्षो गुहाशयः ॥
वेगवान्केतुमानुग्रः सोग्रविग्रो महासुरः

1.38.34

पुष्करः पुष्कलश्चैव साल्वोश्वपतिरेव च ॥
कुम्भो निकुम्भः शतदा संग्रहो गगनप्रियः

1.38.35

एते चाऽन्ये च विख्याता दैतेया समरोद्धताः ॥
सर्वे लब्धवराः शूराः सर्वे च गतमन्यवः

1.38.36

सर्वैस्त्रिदशराज्यानि कारितानि बलोद्धतैः ॥
ते हतास्तेन देवेन वासवप्रियकाम्यया

1.38.37

केचिन्मनुष्यरूपेण तिर्यग्रूपेण चाऽपरे ॥
केचिच्च देवरूपेण निहता भूरितेजसा

1.38.38

साल्व उवाच ॥
जानामि तस्य माहात्म्यं देवदेवस्य शार्ङ्गिणः ॥
अहं स्वमरणं मत्वा तेन योत्स्यामि भार्गव

1.38.39

विशिष्टान्मरणं श्रेष्ठं न हीनाद्विजयो रणे ॥
विष्णोः करविनष्टानां भूयो राज्यं भविष्यति

1.38.40

मार्कण्डेय उवाच ॥
इत्येवमुक्तस्त्वसुराधिपेन भृगुप्रधानो भगवान् स शुक्रः ॥
ज्ञात्वा स दैत्यान्सकलान्विनष्टाञ्जगाम काष्ठामपरामभीष्टाम्

1.38.38

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे शुक्रसाल्वसंवादो नामाऽष्टात्रिंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc