भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.37

1.37.1

॥ मार्कण्डेय उवाच ॥ ॥
एतस्मिन्नेव काले तु काष्ठोदर्काः सुदारुणाः ॥
बभूवुः सुमहोत्पाताः सैंहिकेयनिवेशने

1.37.2

चचाल शब्दं कुर्वाणा मही सवनकानना ॥
पपात महती चोल्का मध्येनाऽऽदित्यमण्डलात्

1.37.3

अपर्वणि शशाङ्कार्कौ संछन्नौ तमसा तथा ॥
प्रवृष्टाश्च तथा रक्तं भूरि मेघा भयावहम्

1.37.4

शस्त्राणि मुमुचुर्धूममसकृदश्रुवाहनाः ॥
इन्द्रचापसवर्णेन परिवेशेन भास्करः

1.37.5

परिविष्ट उभे सन्ध्ये चन्द्रश्च सकलां निशम् ॥
सैंहिकेयो विपत्न्योपि साल्वस्य सुमहात्मनः

1.37.6

आक्रम्यजन्मन क्षत्रं केतुस्तस्थौ महाग्रहः ॥
ववुस्तीक्ष्णा महावाताः क्षोभयन्तो दिशो दश

1.37.7

भानुश्चाऽऽसीत्कबन्धाङ्गो मृगाश्चासन्नसस्वनाः ॥
न्यलीयन्त ध्वजाग्रेषु दानवानां दुरात्मनाम्

1.37.8

क्रव्यादपक्षिसंघाता ह्यपसव्यं भयानकाः ॥
शुष्केन्धनसमृद्धोऽपि न जज्वाल हुताशनः

1.37.9

वपूंषि दानवेन्द्राणां न प्राकाशंत यादव ॥
उष्णशीतविपर्यास ऋतूनामप्यदृश्यत

1.37.10

प्रसुस्रवुर्द्रुमा रक्तं व्यशीर्यन्त च भूषणाः ॥
खरा गोषु व्यजायन्त मार्जारा मूषिकासु च

1.37.11

अकाले पुष्पिता वृक्षा अकाले फलिता द्रुमाः ॥
विना वर्षं महानद्यः प्रतीपं जग्मुरोजसा

1.37.12

भयानकाञ्जातभयः सुघोरानुत्पातसंघान्प्रसमीक्ष्य राजा ॥
साल्वः समाहूय भृगोस्तस्तनूजं दैत्यैः समेतोऽथ चकार मन्त्रम्

1.37.37

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवाद औत्पातिकं नाम सप्तत्रिंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc