भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.35

1.35.1

मार्कण्डेय उवाच ॥
एवमुक्ता सत्यवती काले पूर्णे द्विजोत्तमम् ॥
जनयामास धर्मज्ञं जमदग्निं तपोधनम्

1.35.2

ततश्च जनयामास वात्स्यं भृगुकुलोद्वहम् ॥
ततोष्टनवतिं पुत्रान्गोत्रकारान्पृथक्पृथक्

1.35.3

गाधेरपि तदा भार्या जनयामास पुत्रकम् ॥
विश्वामित्रमिति ख्यातं युतं ब्राह्मणतेजसा

1.35.4

जितो युद्धे वसिष्ठेन मन्युना यः स पार्थिवः ॥
ब्राह्मण्यं तपसा लेभे धर्मात्मा संशितव्रतः

1.35.5

राजा प्रसेनजिन्नाम सुतां तस्याऽथ रेणुकाम् ॥
पत्न्यर्थे प्रतिजग्राह जमदग्निर्महातपाः

1.35.6

सा तं वनगतं भक्त्या नित्यं पर्यचरद्वने ॥
कदाचिदथ घर्मर्तौ मध्यं प्राप्ते दिवाकरे ॥

1.35.7

क्रीडार्थं प्रास्यति चिरं जमदग्निर्महातपाः ॥
क्षिप्ताःक्षिप्ताः शरास्तेन रेणुका चारुलोचना

1.35.8

आनयामास धर्मज्ञा भर्तुर्वचनकारिणी ॥
अथाऽर्कतापसंतप्ता दह्यमानांघ्रिपङ्कजा

1.35.9

पुष्पितस्य च वृक्षस्य छायामासाद्य विष्ठिता ॥
विश्रम्य तु मुहूर्तं सा भर्तुर्निन्ये शरोत्तमम्

1.35.11

तां प्राप्तां कुपितो भर्ता जमदग्निरभाषत ॥
क्रीडतो मे शरैर्भद्रे विघ्नं किं कृतवत्यसि ॥१ ०॥
न बिभेषि च मां भद्रे त्वथ वाप्यवमन्यसे

1.35.12

रेणुकोवाच ॥
अर्काग्नितापसंतप्ता क्षणमात्रं महाव्रत ॥
अपारयंती विश्रान्तो तस्मात्त्वं क्षन्तुमर्हसि

1.35.13

॥ मार्कण्डेय उवाच ॥ ॥
रेणुकाया वचः श्रुत्वा जमदग्निर्महातपाः ॥
जातरोषस्तदा सूर्ये सायकान्क्षेप्तुमुद्यतः

1.35.14

एतस्मिन्नेव काले तु विप्ररूपो दिवाकरः ॥
शीघ्रमागम्य तेजस्वी जमदग्निमभाषत

1.35.15

सूर्य उवाच ॥ ॥
स्वभाव एष मे ब्रह्मन् यदहं दहनात्मकः ॥
वर्ततश्च स्वभावेन न मे त्वं क्रोद्धुमर्हसि

1.35.16

पुत्रस्तेऽहं भविष्यामि त्वस्यामेव द्विजोत्तम ॥
सुरकार्यं करिष्यामि लोकानाञ्च हितं महत्

1.35.17

इयञ्च पत्नी धर्मज्ञा रेणुका तव सांप्रतम् ॥
छत्रोपानहमेतन्मे गृह्णातु वरवर्णिनी

1.35.18

तस्याऽनुकम्पया छत्रं तथा ब्रह्मन्मुपानहौ ॥
मया सृष्टौ जगत्यस्मिन्नित्यमेव भविष्यतः

1.35.19

छत्रोपानहयोर्दानं लोके श्रेष्ठं भविष्यति॥
छत्रोपानहदानेन नरः स्वर्गं गमिष्यति

1.35.20

एवमुक्तस्तु सूर्येण जमदग्निर्महातपाः ॥
संपूज्य सूर्यं जग्राह सवितुः सकलं वचः

1.35.21

ततः सूर्ये गते देवी सूर्यपुत्रा पुरा सती ॥
पुत्रं कनीयसं रामं जनयामास रेणुका ॥
तमन्वावसुषेणश्च वसुर्विश्वावसुस्तथा

1.35.22

तेषां जघन्यजो रामो विष्णुर्मानुषरूपधृक्

1.35.23

अंशेन जाते भुवि देवदेवे सुनिर्वृता भूमिरथो बभूव ॥
हृताञ्च मेने दितिजप्रजातां पीडां नृणां स्वस्य च सा धरित्री

1.35.35

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामोत्पत्तिर्नाम पञ्चत्रिंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc