भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.34

1.34.1

ऋचीक उवाच ॥
ब्रह्मणोऽत्रिः सुतः सौम्यः सुतस्तस्याऽपि चन्द्रमाः ॥
सोमस्य तु बुधः पुत्रो बुधपुत्रः पुरूरवाः

1.34.2

श्रुतायुस्तनयस्तस्य पुत्रस्तस्यापि नग्नजित् ॥
तस्याऽपि काञ्चनः पुत्रः सुहोत्रस्तस्य चाऽऽत्मजः

1.34.3

तस्य जह्नुः स्मृतः श्रीमान्येन गङ्गा तु जाह्नवी ॥
सुव्रतस्तनयस्तस्य चालर्कस्तस्य चात्मजः

1.34.4

तस्य पुत्रो बलाकश्च कुशिकस्तस्य चाऽऽत्मजः ॥
महोदयपुरवरे स तु नित्यं कृतालयः

1.34.5

एतस्मिन्नेव काले तु श्वसुरः च्यवनस्तव ॥
स्ववंशसंकरं बुद्ध्वा कुशिकेभ्यो महायशाः

1.34.6

कुशिकानां समुच्छित्यै कुशिकं नृपतिं ययौ ॥
पूजितः कुशिकेनापि कुशिकं वाक्यमब्रवीत्

1.34.7

राजन्वक्ष्यामि कार्यं ते यदि शुश्रूषसेनघ ॥
सभार्येण च कर्तव्यं राजञ्छुश्रूषणं त्वया

1.34.8

कुशिक उवाच ॥
स्वमेवेदं तव गृहं यथेष्टं वस भार्गव॥
शक्तितस्तव शुश्रूषां करिष्ये भार्यया सह

1.34.9

ऋचीक उवाच॥
गृहोषितं तं च्यवनं शुश्रूषुरनहंकृतः ॥
पूजयामास सततं सर्वकामसमृद्धिभिः

1.34.1.34.10

बहुसंख्यान्दिनगणांश्च्यवनो नावबुद्ध्यति ॥
निराहारः सभार्यस्तं पर्युपास्ते महीपतिः

1.34.11

अकाले प्राशयत्यन्नं कदाचिदपि दुलर्भम् ॥
कृतमित्येव तद्राजा निवेदयति सत्वरम्

1.34.12

कदाचिद्बहु भुङ्क्तेन्नं न भुङ्क्ते दिवसान्बहून् ॥
धनेन च तदीयेन तर्पयामास वै द्विजान्

1.34.13

कदाचिद्दीपयत्येव वह्निं तातगृहोद्भवम् ॥
कदाचिच्च रथे युक्तं सभार्यो राजपुङ्गवम्

1.34.14

राजमार्गे प्रतोदेन तुदन्यति यथेच्छया॥
तस्याऽसौ हितमेवेदं कर्मणा मनसा गिरा

1.34.15

समाचरति यत्नेन भार्गवप्रियकाम्यया ॥
यदा न वृजिनं किंचिद्दृष्टवांस्तस्य भार्गव

1.34.16

तदा तस्य वरं प्रादाद्वरं यन्मनसेप्सितम्

1.34.17

च्यवन उवाच ॥
वर वरय भद्रं ते प्रसन्नोऽहं तवानघ ॥
निर्व्याजं तेऽनया राजस्सेवयाऽनघया सदा

1.34.18

कुशिक उवाच ॥
यदि मे त्वं प्रसन्नोऽसि भृगूणां वंशवर्धन ॥
वंशो ब्राह्मणतां यातु वरमेतद्वृणोम्यहम्

1.34.19

च्यवन उवाच ॥
एतदेव ध्रुवं भावी नन्मां वरयसे नृप ॥
अस्मद्वंशानुवंशस्य ब्राह्मण्यं ते भविष्यति

1.34.1.34.20

तव वंशकृतोऽस्माकं क्षत्रधर्म्मो द्विजोत्तमः॥
भविष्यति नरेन्द्रेन्द्र चैतत्सुविदितं मम

1.34.21

एतज्ज्ञात्वा समुत्सेधं चिकीर्षुः स्वकुलस्य ते ॥
विकारैः क्रोधनार्थं ते गृहेऽहमवसं चिरम्

1.34.22

विकारं न ततो दृष्टं मया भाव्यर्थचोदितम् ॥
तस्मान्मातुस्वया प्राप्तं वरमेतत्सुदुर्लभम्

1.34.23

कुशास्यनामा पुत्रस्तु भविताऽति स्वधार्मिकः ॥
तस्यापि भविता पुत्रो गाधिरित्येव विश्रुतः

1.34.24

विश्वामित्रः सुतस्तस्य ब्राह्मण्यमुपलप्स्यति ॥
कृत्वा वैरं वसिष्ठेन तपसा महता नृप

1.34.25

स्त्रीणां चरुविपर्यासाद्विश्वामित्रस्य संभवः ॥
अस्मद्वंशानुभविता निर्वृत्तो भव पार्थिव

1.34.26

यत्ते विनाशितं दग्धं भविता तद्विशेषवत् ॥
भार्यया सहितश्चैव जराहीनो भविष्यसि

1.34.27

एवमुक्त्वा गते विप्रे राजा पूर्णमनोरथः ॥
उवाच सुमुखीं भद्रे जराशोक विवर्जिताम्

1.34.28

एतत्सुनेत्रे च्यवस्य वाक्यं कस्याऽस्ति शक्तिर्भुवि मानवस्य ॥
कर्तुं मृषा तेन वरोरुमध्ये पौत्रस्तवोग्रो भविता नृलोके ॥

1.34.34

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कुशिकवरप्रदानं नाम चतुस्त्रिंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc