भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 4.10

4.10.1

इति श्रीविष्णुमाहापुराणे चतुर्थांशे नवमो ऽध्यायः (9)
श्रीपराशर उवाच
यतिययातिसंयात्यायातिवियातिकृतिसंज्ञा नहुषस्य षट् पुत्रा महाबलपराक्रमा बभूवुः

4.10.2

यतिस्तु राज्यं नैच्छत्

4.10.3

ययातिस्तु भूभृदभवत्

4.10.4

उशनसश् च दुहितरं देवयानीं वार्षपर्वणीं शर्मिष्ठामुपयेमे

4.10.5

अत्रानुवंशश्लोको भवति

4.10.6

यदुं च दुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी

4.10.7

काव्यशापाच्च कालेनैव ययातिर्जरामवाप

4.10.8

प्रसन्नशुक्रवचनाच्च स्वजरां संक्रामयितुं ज्येष्ठं पुत्रं यदुमुवाच

4.10.9

वत्स त्वन्मातामहशापादियमकालेनैव जरा ममोपस्थिता तामहं तस्यै वानुग्रहाद्भवतःसंचारयामि

4.10.10

एकं वर्षसहस्रमतृप्तो ऽस्मि विषयेषु त्वद्वयसा विषयानहं भोक्तुमिच्छमि

4.10.11

नात्र भवता प्रत्याख्यानं कर्तव्यमित्युक्तःस यदुर्नैच्छत्तां जरामादातुम्

4.10.12

तं च पिता शशाप त्वत्प्रसूतिर्न राज्यार्हा भविष्यतीति

4.10.13

अनन्तरं च दुर्वसुं द्रुह्यमनुं च पृतिवीपतिर्जराग्रहणार्थं स्वयौवनप्रदानाय चाभ्यर्थयामास

4.10.14

तैर् अप्येकैकेन प्रत्याख्यातस्ताञ्छशाप

4.10.15

अथ शर्मिष्ठातनयमशेषकनीयांसं पुरुं तथैवाह

4.10.16

स चातिप्रवणमतिः सबहुमानं पितरं प्रणम्य महाप्रसादोयमस्माकमित्युदारमभिधायजरां जग्राह

4.10.17

स्वकीयं च यौवनं स्वपित्रे ददौ

4.10.18

सो ऽपि पौरवं यौवनमासाद्य धर्माविरोधेन यथाकामं यथाकालोपपन्नं यथोत्साहं विषयांश्चचार

4.10.19

सम्यक् च प्रजापालनमकरोत्

4.10.20

विश्वाच्या देवयान्या च सहोपभोगं भुक्त्वा कामानामन्तं प्राप्स्यामीत्यनुदिनं तन्मनस्को बभूव

4.10.21

अनुदिनं चोपभोगतः कामानतिरम्यान्मेने

4.10.22

ततश्चैनमगायत

4.10.23

श्लो-
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते

4.10.24

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
एकस्यापि न पर्याप्तं तस्मात्तृष्णां परित्यजेत्

4.10.25

यदा न कुरुते भावं सर्वभूतेषु पापकम् ।
समदृष्टोस्तदा पुंसः सर्वाःसुखमया दिशः

4.10.26

या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः ।
तां तृष्णां संत्यजेत्प्राज्ञःसुखेनैवाभिपूर्यते

4.10.27

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
धनाशा जीविताशा च जीर्यतो ऽपि न जीर्यतः

4.10.28

पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः ।
तथा प्यनुदिनं तृष्णा मम देषूपजायते

4.10.29

तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् ।
निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह

4.10.30

श्रीपराशर उवाच
पुरोःसकाशादादाय जरां दत्त्वा च योवनम् ।
राज्येभिषिच्च पूरुं च प्रययौ तपसे वनम्

4.10.31

दिशिदक्षिणपूर्वस्यां दुर्वसुं च समादिशत् ।
प्रतीच्यां च तथा द्रुह्युं दक्षिणायां ततो यदुम्

4.10.32

उदीच्यां च तथैवानुं कृत्वा मण्डलिनो नृपान् ।
सर्वपृथ्वीपतिं पुरुं सोभिषिच्य वनं ययौ

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc