विष्णु पुराण · अध्याय 4.22
इति श्रीविष्णुमहापुराणे चतुर्थांश एवविंशो ऽध्यायः (21)
श्रीपराशर उवाच
अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते
बृहद्बलस्य पुत्रो बृहत्क्षणः
तस्मादुरुक्षयस्तस्माच्च वत्सव्यूहस्ततश् च प्रतिव्योमस्तस्मादपि दिवारकः
तस्मात्सहदेवः सहदेवाद्बृहदश्वस्तत्सूनुर्भानुरथस्तस्य चज प्रतीताश्वस्तस्यापि सुप्रतीकस्ततश् च मरुदेवस्ततः सुनक्षत्रस्तमात्किन्नरः
किन्नरादन्तरिक्षस्तस्मात्सुपर्णस्ततश्चामित्रजित्
ततश् च बृहद्भाजस्तस्यापि धर्मी धर्मीणः कृतञ्जयः
कृतञ्जयाद्रणञ्जयः
रणञ्जयात्संजयस्तस्माच्छाक्यश्छाक्याच्छुद्धोदनस्तस्माद्राहुलस्ततः प्रसेनजित्
ततश् च क्षुद्रकस्ततश्चज कुण्डकस्तस्मादपि सुरथः
तत्पुत्रश् च सुमित्रः
इत्येते चेक्ष्वाकवो बृहद्बलान्वयाः
अत्रानुवंशश्लोकः
इक्ष्वाकूणामयं वंशःसुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0