भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 4.21

4.21.1

इति श्रीविष्णुमहापुराणे चतुर्थांशे विंशो ऽध्यायः (20 )
श्रीपराशर उवाच
अतः परं भविष्यानहं भूपालान्कीर्तयिष्यामि

4.21.2

यो ऽयं सांप्रतमवनीपतिः परीक्षित्तस्यापि जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चत्वारः पुत्रा भविष्यन्ति

4.21.3

जनमेजयस्यापि शतानीको भविष्यति

4.21.4

यो ऽसौ याज्ञवल्क्याद्वेदमधीत्य कृपादस्त्राम्यवाप्य विषमविषयविरक्तचित्तवृत्तिश् च शौनकोपदेशादात्मज्ञानप्रवीणः परं निर्वाणमवाप्स्यति

4.21.5

शतानीकादश्वमेधदत्तो भविता

4.21.6

तस्मादप्यचधिसीमकृष्णः

4.21.7

अधिसीमकृष्णान्निचक्नुः

4.21.8

यो गङ्गयापहृते हस्तिनपुरे कौशांब्यां निवत्स्यति

4.21.9

तस्या प्युष्मः पुत्रो भविता

4.21.10

उष्णाद्विचित्ररथः

4.21.11

ततः शुचिरथः

4.21.12

तस्माद्वृष्णिमांस्ततःसुषेणस्तस्यापि सुनीथःसुनीथान्नृपचक्षुस्तस्मादपि सुखिबलस्तस्य च पारिप्लवस्ततश् च सुनयस्तस्यापि मेधावी

4.21.13

मेधाविनो रिपुञ्जयस्ततोर्वस्तस्माच्च तिग्मस्तस्माद्बृहद्रथः बृहद्रथाद्वसुदासः

4.21.14

ततो ऽपरः शतनीकः

4.21.15

तस्माच्चोदयन उदयनाद्विहीनरस्ततश्चदण्डपाणिस्ततो निमित्तः

4.21.16

तस्माच्च क्षेमकः

4.21.17

अत्रायं श्लोकः

4.21.18

ब्रह्मक्षत्रस्य यो यो निर्वंशो देवर्षिसत्कृतः ।
क्षेमकं प्राप्य राजानं संस्थानं प्राप्यते कलौ

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc