विष्णु पुराण · अध्याय 4.19
इति श्रीविष्णुमहापुराणे चतुर्थांशे ऽष्टादशो ऽध्यायः (18)
श्रीपराशर उवाच
पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युःसुद्योर् बहुगतः तस्यापि संयातिःसंयातेरहंयातिः ततो रौद्राश्वः
ऋतेषुकक्षेषुस्थण्डिलेषुकृतेषुजलेषुधर्मेधृतेषुस्थलेषुसन्नतेषुनामानो रौद्राश्वस्य दश पुत्रा बभूवुः
ऋतेषोरन्तिनारः पुत्रो ऽभूत्
सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप
अप्रतिरषस्य कण्वः पुत्रो ऽभूत्
तस्यापि मेधातिथिः
यतः कण्वायना द्विजा बभूवुः
अप्रतिरथस्यापरः पुत्रो ऽभूदैलीनः
एलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः
दुष्यन्ताच्चक्रवर्ती भरतो ऽभूत्
यन्नामहेतुर्देवैः श्लेको गीयते
माता भस्त्र पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्यन्तमावमंस्थाः शकुन्तलाम्
रेतोधाः पुत्रो नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला
भरतस्य पत्नित्रये नव पुत्रा बभूवुः
नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः
ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्वृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर् दत्तः
तस्यापि नामनिर्वचनश्लोकः पठ्यते
मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम्
भरद्वाजःस तस्य वितथे पुत्रजन्मनि मरुद्भिर् दत्तः ततो वितथसंज्ञामवाप
वितथस्यापि मन्युः पुत्रो ऽभवत्
बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः
नगरस्य संकृतिःसंकृतेर्गुरुप्रीतिरन्तिदेवौ
गर्गाच्छिनिः ततश् च गार्ग्याः शैन्याः क्षत्रोपेता द्विजातयो बभूवु
महावीर्याच्च दुरुक्षयो नाम पुत्रो ऽभवत्
तस्य त्रय्यारुणिः पुष्करिणः कपिश् च पुत्रक्षयमभूत्
तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम्
बृहत्क्ष6स्य सुहोत्रः
सुहोत्रद्धस्ती य इदं हस्तिनपुरमावासयामास
अजमीढद्विजमीढास्त्रयो
अजमीढात्कण्वः
कण्वान्मेधातिथिः
यतः कण्वायना द्विजाः
अजमीढस्यान्यः पुत्रो बृहदिषुः
बृहदिषोर्बृहद्धनुर्बृहद्धनुषश् च बृहत्कर्मा ततश् च जयद्रथस्तस्मादपिविश्वजित्
ततश् च सेनजित्
रुचिराश्वकाश्यदृढहनुवत्सनुसंज्ञाःसेनजितः पुत्राः
रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः
पारान्नीलः
तस्यैकशतं पुत्राणाम्
तेषां प्रधानः कांपिल्याधिपतिःसमरः
समरस्यापि पारसुपारसदश्वास्त्रयःच पुत्राः
सुपारात्पृथुः पृथोःसुकृतेर्विभ्राजः
तस्माच्चाणुहः
यः शुकदुहितरङ्कीर्ति नामोपयेमे
अणुहाद्ब्रह्यदत्तः
ततश् च विष्वक्सेनस्तस्मादुदक्सेनः
भल्लाभस्तस्य चात्मजः
द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः
तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश् च दृढनेमिस्तस्माच्च सुपार्श्वस्ततःसुमतिस्ततश् च सन्नतिमान्
सन्नतिमतः कृतः पुत्रो ऽभूत्
यं हिरण्यनाभो योगमध्यापयामास
यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार
कृताच्चोग्रायुधः
येन प्राचुर्येण नीपक्षयः कृतः
उग्रायुघात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रिपुञ्जयः तस्माच्च बहुरथैत्येते पौरवाः
अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रो ऽभवत्
तस्मादपि शान्तिः शान्तेःसुशान्तिःसुशान्तेः पुरञ्जयः तस्माच्च ऋक्षः
ततश् च हर्यश्वः
तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पञ्चानामैव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पाञ्चालाः
मुद्रलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः
मुद्गलाद्धर्यश्वः
हर्यश्वाद्दिवोदासो ऽहल्या च मिथुनमभूत्
शरद्वतश्चाहल्यायां शतानन्दो ऽभवत्
शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे
सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात
तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत्
तौ च मृगयामुपयातः शन्तनुर्दृष्ट्वा कृपया जग्राह
ततः कुन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्य भवत्
दिवोदासस्य पुत्रो मित्रायुः
मित्रायोश्चयवनो नाम राजा
च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः
सोमकाज्जन्तुः पुत्रशतज्येष्ठो ऽभवत्
तेषां यवीयान् पृषतः पृषताद् द्रुपदस् तस्माच्च धृष्टद्युम्नस्ततोधृष्टकेतुः
अजमीढस्यान्यो ऋक्षनामा पुत्रो ऽभवत् ॥ 74 ॥
तस्य संवरणः
संवरणात्सुरः
य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार
सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः बभूवुः
सुधनुषः पुत्रःसुहो6स्तस्माच्च्यवनः च्यवनात् कृतकः
ततश्चोपरिचरो वसुः
बृहद्रथप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्राःसप्ताजायन्त
वृहद्रथात्कुशाग्रः कुशाग्राद्वृषभः वृषभात् पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः
बृंहद्रथाच्चान्यः शकलद्वयजन्मा जरया संधितो जरासंधनामा
तस्मात्सहदेवःसहदेवात्सोमपस्ततश् च श्रुतिश्रवाः
इत्येते मया मागधा भूपालाः कथिताः
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0