विष्णु पुराण · अध्याय 4.18
इति विष्णुमहापुराणे चतुर्थांशे सप्तदशो ऽध्यायः (17)
श्रीपराशर उवाच
ययालेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः
सभानलपुत्रः कालानलः ॥ 2 ॥
कालानलात्सृंजयः
सृंजयात् पुरञ्जयः
पुरञ्जयाज्जनमेजयः
तस्मान्महाशालः
तस्माच्च महामनाः
तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ
उशीनरस्यापि शिबिनृगनवकृमि वर्माख्याः पञ्च पुत्रा बभूवुः
पृषदर्भसुवीरकेकयमद्रकाश्चत्वारशिशबिपुत्राः
तितीक्षोरपि रुशद्रथः पुत्रो ऽभूत्
तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश् च बलिः
यस्य क्षेत्रे दीर्घतमसांगवङ्गकलिङ्गसुह्यपैण्ड्राख्यं वालेयं क्षत्रमजन्यत
तन्नामसंतसतिसंज्ञाश् च पञ्चविषयाः बभूवुः
अङ्गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः
ततश्चित्ररथः रोमपादसंज्ञः
यस्य दशरथो मित्रं जज्ञे
यस्याजपुत्रो दशरथः शान्तां नाम कन्यामनपत्यस्यदुहितृत्वे युयोज
रोमपादाच्चतुरङ्गः तस्मात्पृथुलाक्षः
ततश्चंपः यश्चंपां निवेशायामास
चंपस्य हर्यङ्गो नामात्मजो ऽभूत्
हर्यङ्गाद्भद्ररथः भद्ररथाद्बृहद्रथः बृहद्रथाद्बृहत्कर्मा बृहत्कर्मणश् च वृहद्भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः
जयद्रथो ब्रहमक्षत्रान्तरालसंभूत्यां पत्न्यां विजयं नाम पुत्रमजीजनत्
विजयश् च धृतिं पुत्रमवाप
तस्यापि धृतव्रतः पुत्रो ऽभूत्
धृतव्रतात्सत्यकर्मा
सत्यकर्मणस्त्वतिरथः
यो गङ्गाङ्गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप
कर्णाद्वृषसेनः इत्येतदन्ता अङ्गवंश्याः
अतश् च पुरुवंशं श्रोतुमर्हसि
मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0