भाषा

ENहिગુ
ग्रंथ पाठ

विष्णु पुराण · अध्याय 2.8

2.8.1

इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे सप्तमो ऽध्यायः (7)
प्राशर उवाच
व्याख्यातमैतद्ब्रह्मण्डसंस्थानं तव सुव्रत ।
ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मै

2.8.2

योजनानां सहस्राणि भास्करस्य रथो नव ।
ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम

2.8.3

सार्धकोटिस् तथा सप्त नियुतान्यधिकानि वै ।
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम्

2.8.4

त्रिनाभिमति पञ्चारे षण्णेमिन्यत्रयात्मके ।
संवत्सरमये कृत्स्त्रं कालचक्रं प्रतिष्ठितम्

2.8.5

हयाश् च सप्तच्छदांसि तेषां नामानि मे शृणु ।
गायत्री च बृहत्युष्णिग्जगती त्रिष्टुभेव च ।
अनुष्टुप्पङ्क्तिरित्युक्ता छन्दांसि हरयो रवेः

2.8.6

चत्वारिंशत्सहस्राणि द्वितीयो ऽक्षो विवस्वतः ।
पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते

2.8.7

आक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयो ।
ह्रस्वोक्षस्तद्युगार्धेन ध्रुवाधारो रथस्य वै ।
द्वितीयेक्षे तु तच्चक्रं सस्थितं मानसाचले

2.8.8

मानसोत्तरशैलस्य पूर्वतो वासवी पुरी ।
दक्षिणे तु यम स्यान्याप्रतीच्यां वरुणस्य च ।
उत्तरेण च सोमस्य तासां नामानि मे शृणु

2.8.9

वस्वौकसारा शक्रस्य याम्या संयमनी तथा ।
पुरी सुखाजलेशस्य सोमस्य च विभावरी

2.8.10

काष्ठां गतो दक्षिणतः क्षिप्तेषुरिव सर्पति ।
मैत्रेय भगवान्भानुर्ज्योतिषां चक्रसंयुतः

2.8.11

अहोरात्रव्यवस्थानकारणं भगवान्रविः ।
देवयानः परः पन्था योगिनां क्लेशसंक्षये

2.8.12

दिवसस्य वरिर्मध्ये सर्वाकालं व्यवस्थितः ।
सर्वद्वीपेषु मैत्रेय निशार्धस्य च सन्मुखः

2.8.13

उदयास्तमने चैव सर्वकालं तु संमुखे ।
विदिशासु त्वशेषासु तथा ब्रह्मन् दिशासु च

2.8.14

यैर् यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः ।
तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः

2.8.15

नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ।
उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः

2.8.16

शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् ।
विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान्द्वे पुरे तथा

2.8.17

उदितो वर्धमानाभिरामध्याह्नात्तपन्रविः ।
ततः परं ह्रसन्तीभिर् गोभिर् अस्तं नियच्छति

2.8.18

उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ ।
यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः

2.8.19

ऋते ऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम् ।
येये मरीचयोर्कस्य प्रयान्ति ब्रह्मणः सभाम् ।
तेते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै

2.8.20

तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि ।
सर्वेषां द्वीपवर्षाणां सेरुरुत्तरतो यतः

2.8.21

प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे ।
विशत्यग्निमतो रात्रौ वह्निर्दूरात्प्रकाशते

2.8.22

वह्नोः प्रभा तथा भानुर्दिनेष्वाविशति द्विज ।
अतीव वह्निसंयोगादतः सूर्यः प्रकाशते

2.8.23

तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी ।
परस्परानुप्रवेशादाप्यायेते दिवानिशम्

2.8.24

दक्षिणोत्तरभूम्यर्ध समुत्तिष्ठति भास्करे ।
आहोरात्रं विशत्यम्भस्तमः प्राकाश्यशीलवत्

2.8.25

आताम्रा हि भवत्यापो दिवानक्तप्रवेशनात् ।
दिनं विशति चैवांभो भास्करेस्तमुपेयुषि ।
तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात्

2.8.26

एवं पुष्करमध्येन यदा याति दिवाकरः ।
त्रिंशद्भागस्तु मेदिन्यास्तदा मौहूर्तिकी गतिः

2.8.27

कुलालचक्रपर्यन्ते भ्रमन्नेष दिवाकरः ।
करोत्यहस् तथा रात्रिं विमुञ्चन्मेदिनीं द्विजः

2.8.28

अयनस्योत्तरस्यादौ मकरं याति भास्करः ।
ततः कुम्भं च मीनं च राशे राश्यन्तरं द्विज

2.8.29

त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् ।
प्रयाति सविता कुर्वन्नहोरात्रं ततः समम्

2.8.30

ततो रात्रिः क्षयं याति वर्धते ऽनुदिनं दिनम्

2.8.31

ततश् च मिथुनस्यान्ते परां काष्ठामुपागतः ।
राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम्

2.8.32

कुलालचक्रपर्यन्तो यथाशीघ्रं प्रवर्तते ।
दक्षिणप्रक्रमे सूर्यस् तथा शीघ्रं प्रवर्तते

2.8.33

अतिवेगितया कालं वायुवेगबलाच्चरन् ।
तस्मात्प्रकष्टां भूमिं तु कालेनाल्पेन गच्छति

2.8.34

सूर्यो द्वादशभिः शैघ्र्यान् मुहूर्ते दक्षिणायने ।
त्रयोदशार्धमृक्षाणामह्ना तु चरति द्विज ।
मुहूर्तैस् तावदृक्षाणि नक्तमष्टादशैश् चरन्

2.8.35

कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति ।
तथोदगयने सूर्यः सर्पते मन्दविक्रमः

2.8.36

तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्चति ।
अष्टादशसुहूर्तं यदुत्तरायणपश्चिमम्

2.8.37

अहर्भवति तच्चापि चरते मन्दविक्रमः

2.8.38

त्रयोदशार्धमह्ना तु ऋक्षाणां चरते रविः ।
मुहूर्तैस् तावदृक्षाणि रात्रौ द्वादशभिश्चरन्

2.8.39

अतो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा ।
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा

2.8.40

कुलालचक्रनाभिस् तु यथा तत्रैववर्तते ।
ध्रुवस् तथा हि मैत्रेय तत्रैव परिवर्तते

2.8.41

उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु ।
दिवा नक्तं च सूर्यस्य मन्दा शीघ्राच वै गतिः

2.8.42

मन्दाह्नि यस्मिन्नयने शीघ्रा नक्तं तदा गतिः ।
शीघ्रा निशि यदा चास्य तदा मन्दा दिवा गतिः

2.8.43

एक प्रमाणमेवैष मार्गं याति दिवाकरः ।
अहोरात्रेण यो भुङ्क्ते समस्ता राशयो द्विज

2.8.44

षडेव राशीन् यो भुङ्क्ते रात्रावन्यांश् च षड्दिवा

2.8.45

राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिने ।
तथा निशायां राशीनां प्रमाणैर् लघुदीर्घता

2.8.46

दिनादेर्दिर्घह्रस्वत्वं तद्भोगेनैव जायते ।
उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर्दिवा

2.8.47

दक्षिणे त्वयने चैव विपरीतां विवस्वतः

2.8.48

उषा रात्रिः समाख्याताव्युष्टिश्चाप्युच्यते दिनम् ।
प्रोच्यते च तथा संध्या उषाव्युष्ट्योर्यदन्तरम्

2.8.49

संध्याकाले च संप्राप्ते रौद्रे परमदारुणे ।
मन्देहा राक्षसा घोराः सूर्यमिच्छिन्ति खादितुम्

2.8.50

प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम् ।
अक्षयत्वं शरीराणां मरणं च दिने दिने

2.8.51

ततः सूर्यस्य तैर् युद्धं भवत्यत्यन्तदारुणम् ।
ततो द्विजोत्तमा स्तोयं संक्षिपन्ति महामुने

2.8.52

ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् ।
तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा

2.8.53

अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिः ।
सूर्योज्योतिः सहस्रांशु समा दीप्यति भास्करः

2.8.54

ओङ्कारो भगवान्विष्णुस्त्रिधामा वचसां पतिः ।
तदुच्चारणतस्ते तु विनाशं यान्ति राक्षसाः

2.8.55

वैष्णुवोंशः परः सूर्यो योन्तर्ज्योतिरसंप्लवम् ।
अभियायक ओङ्कारस्तस्य तत्प्रेरकं परम्

2.8.56

तेन संप्रेरितं ज्योतिर् ओंकारेणाथ दीप्तिमत् ।
दहत्यशेषरक्षांसि मन्देहाख्यान्यघानि वै

2.8.57

तस्मान्नोल्लङ्घनं कार्यं संध्योपासनकर्मणः ।
स हन्ति सूर्यं सन्ध्याया नोपास्तिं कुरुते तु यः

2.8.58

ततः प्रयाति भगवान्ब्राह्मणैर् अभिरक्षितः ।
वालखिल्यादिभिश्चैव जगतः पालनोद्यतः

2.8.59

काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलां च ।
त्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस् त्रिंशता रात्र्यहनी समेते

2.8.60

ह्रासवृद्धी त्वहर्भागोर्दिवसानां यथाक्रमम् ।
सन्ध्यामुहूर्तमात्रा वै ह्रासवृद्धौ समा स्मृता

2.8.61

रेखाप्रभृत्यथादित्ये त्रिमुहूर्तगते रवौ ।
प्रातः स्मृतस्ततः कालो भागश्चाह्नः स पञ्चमः

2.8.62

तस्मात्प्रातस्तनात्कालात्त्रमुहूर्तस्तु सङ्गवः ।
मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालात्तु सङ्गवात्

2.8.63

तस्मान्माध्याह्निकात्कालादपराह्न इति स्मृतः ।
त्रय एव मुहूर्तास्तु कालभागः स्मृतो बुधैः

2.8.64

आपराह्ने व्यतीते तु कालः सायाह्न एव च ।
दशपञ्च मुहूर्तं वै मुहूर्तास्त्रय एव च

2.8.65

दशपञ्च मुहूर्तं वै अहर्वैषुवतं स्मृतम्

2.8.66

वर्धते ह्रसेत चैवाप्ययने दक्षिणोत्तरे ।
अहस्तु ग्रसते रात्रिं रात्रिर्ग्रसति वासरम्

2.8.67

शरद्वसन्तयोर्मध्ये विषुवं तु विभाव्यते ।
तुलामेषगते भानौ समरात्रिदिनं तु तत्

2.8.68

कर्कटावस्थिते भानौ दक्षिणायनमुच्यते ।
उत्तरायणमप्युक्तं मकरस्थे दिवाकरे

2.8.69

त्रिंशन्मुहूर्तं कथितमहोरात्रं तु यन्मया ।
तानिपञ्चदश ब्रह्मन् पक्ष इत्यभिधीयते

2.8.70

मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः ।
ऋतुत्रयं चाप्ययनं द्वे ऽयने वर्षसंज्ञिते

2.8.71

संवत्सरादयः पञ्च चतुर्मासविकल्पिताः ।
निश्चयः सर्वकाल्सय युगमित्यभिधीयते

2.8.72

संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।
इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः ।
वत्सरः पञ्चमश्चात्र कालोयं युगसंज्ञितः

2.8.73

यः श्वेतस्योत्तरः शैलः शृङ्गवानिति विश्रुतः ।
त्रीणि तस्य तु शृङ्गाणि मैरयं शृङ्गवान् स्मृतः

2.8.74

दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथा ।
शरद्वसंतयोर्मध्ये तद्भानुः प्रतिपद्यते ।
मेषादौ च तुलादौ च मैत्रेय विषुवं स्मृतम्

2.8.75

तदा तुल्यमहोरात्रं करोति तिमिरापहः ।
दशपञ्च मुहूर्तं वै तद् एतद् उभयं स्मृतम्

2.8.76

प्रथमे कृत्तिकाभागे यदा भास्वांस्तदा शशी ।
विशाखानां चतुर्थे ऽंशे मुने तिष्ठत्यसंशयम्

2.8.77

विशाखानां यदा सूर्यश्चरत्यंशं तृतीयकम् ।
तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम्

2.8.78

तदैव विषुवाख्यो ऽयं कालः पुण्यो ऽभिधीयते ।
तदा दानादि देयानि देवेभ्यः प्रयतात्मभिः

2.8.79

ब्रह्मणेभ्यः पितृभ्यश् च मुखमेतत्तु दानाजम् ।
दत्तदानस्तु विषुवे कृतकृत्योभिजायते

2.8.80

अहोरात्रार्धमासा तु कलाः काष्ठाः क्षणास् तथा ।
पौर्णमासी तथा ज्ञेया अमावास्या तथैव च ।
सिनीवाली कुहूश्चैव एका चानुमतिस् तथा

2.8.81

तपस्तपस्यै मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात् ।
नभोनभस्यौ च इषस्तथोर्जःसहः सहस्याविति दक्षिणं तत्

2.8.82

लोका लोकश् च यः शैलः प्राग् उक्तो भवतो मया ।
लोकपालास्तु चत्वारस्तत्र तिष्ठन्ति सुव्रताः

2.8.83

सुधामा शङ्खपाच्चैव कर्दमस्यात्मजौ द्विज ।
हिरण्यरोमा चैवान्यश्चतुर्थः केकुमानपि

2.8.84

निर्धन्द्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः ।
लोकपालाः स्थिता ह्येते लोका लोके चतुर्दिशम्

2.8.85

उत्तरं पदगस्त्यस्य अजवीथ्याश् च दक्षिणम् ।
पितृयानः स वै पन्था वैश्वानरपथाद्बाहिः

2.8.86

तत्रासते महात्मान ऋषयो ये ऽग्निहोत्रिणः ।
भूतारंभकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः ।
प्रारभन्ते तु ये लोकास्तेषां पन्थाः स दक्षिणः

2.8.87

चलितं ते पुनर्ब्रह्म स्थापयन्ति युगेयुगे ।
सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च

2.8.88

जायमानास्तु पूर्वे च पश्चिमानां गृहेषु वै ।
पश्चिमाश्चैव पूर्वेषां जायन्ते विधनेष्विह

2.8.89

एवमावर्तमानास्ते तिष्ठन्ति नियतव्रताः ।
सवितुर्दक्षिणं मार्गं श्रिता ह्यचन्द्रतारकम्

2.8.90

नागावीथ्युत्तरं यच्च सप्तर्षिभ्यश् च दक्षिणम् ।
उत्तरः सवितुः पन्था देवयानश् च स स्मृतः

2.8.91

तत्र ते वासिनः सिद्धाविमला ब्रह्मचारिणः ।
सन्ततिं ते जुगुप्संति तस्मान्मृत्युर्जितश् च तैः

2.8.92

अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेत साम् ।
उदक्पन्थनमर्यम्णः स्थिता ह्याभूतसंप्लवम्

2.8.93

ते सेप्रयोगाल्लोभस्य मैथुनस्य च वर्जनात् ।
इच्छाद्वेषाप्रवृत्त्या च भूतारम्भवि वर्जनात्

2.8.94

पुनश् च कामासंयोगाच्छब्दादेर्देषदर्शनात् ।
इत्येभिः कारणैः शुद्धास्तेमृतत्वं हि भेजिरे

2.8.95

आभूतसंप्लवं स्थानममृतत्वं विभाव्यते ।
त्रैलोक्यस्थितिकालोयमपुनर्मार उच्यते

2.8.96

ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः ।
आभूतसंप्लवान्तन्तु फलमुक्तं तयोर्द्विज

2.8.97

यावन्मात्रे प्रदेशे तु मैत्रेयावस्थितो ध्रुवः ।
क्षयमायाति तावत्तु भूमेराभूतसंप्लवात्

2.8.98

ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ।
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भासुरम्

2.8.99

निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् ।
स्थानं तत्परमं विप्र पुण्यपापपरिक्षये

2.8.100

अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः ।
यत्र गत्वा न शोचन्ति तद्विष्णोः परपं पदम्

2.8.101

धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः ।
तत्सार्ष्ट्योत्पन्नयोगर्धिस्तद्विष्णोः परमंपदम्

2.8.102

यत्रोतमेतत्प्रोतं च यद्भूतं सचराचरम् ।
भव्यं य विश्वं मैत्रेय तद्विष्णोः परमं पदम्

2.8.103

दिवीव चक्षुराततंयोगिनां तन्मयात्मनाम् ।
विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम्

2.8.104

यस्मिन्प्रतिष्ठितो भास्वान्मेढीभूतः स्वयं ध्रुवः ।
ध्रुवे च सर्वज्योतींषि ज्योतिष्वम्भोमुचो द्विज

2.8.105

मेघेषु संगता वृष्टिर्वृष्टेः सृष्टेश् च पोषणम् ।
आप्यायनं च सर्वेषां देवादीनां महामुने

2.8.106

ततश्चाज्याहुतिद्वारा पोषितास्ते हविर्भुजः ।
वृष्टेः कारणतां यान्ति भूतानां स्थितये पुनः

2.8.107

एवमेतत्पदं विष्णोस्तृतीयममलात्मकम् ।
आधारभूतं लोकानां त्रयाणां वृष्टिकारणम्

2.8.108

ततः प्रभवति ब्रह्मन् सर्वपापहरा सरित् ।
गङ्गा देवाङ्गनाङ्गानामनुलेपनपिञ्जरा

2.8.109

वामपादाम्बुजाङ्गुष्ठ-नखस्त्रोतोविनिर्गताम् ।
विष्णोर्बिभार्ति यां भक्त्या शिरसाहर्निशं ध्रुवः

2.8.110

ततः सप्तर्षयो यस्याः प्राणायामपरा यणाः ।
तिष्ठन्ति वीचिमालाभिरुह्यमानजटाजले

2.8.111

वार्योघैः संततैर् यस्याः प्लावितं शशिमण्डलम् ।
भूयोधिकतरां कान्तिं वहत्येतदुह क्षये

2.8.112

मेरुपृष्टे पतत्युच्चैर् निष्क्रान्ता शशिमण्डलात् ।
जगतः पावनार्थाय प्रयाति च चतुर्दिशम्

2.8.113

सीती चालकनन्दा च चक्षुर्भद्रा च संस्थिता ।
एकैव या चतुर्भेदा दिग्भेदगतिलक्षणा

2.8.114

भेदं चालकनन्दाख्यं यस्याः शर्वोपि दक्षिणाम् ।
दधार शिरसा प्रीत्य वर्षाणामधिकं शतम्

2.8.115

शम्भोर्जटाकलापाच्च विनिष्क्रान्ताश्थिशर्कराः ।
प्लावयित्वा दिवं निन्ये या पापान्सगरात्मजान्

2.8.116

स्त्रातस्य सलिले यस्याः सद्यः पापं प्रणश्यति ।
अपूर्वपुण्यप्राप्तिश् च सद्यो मैत्रेय जायते

2.8.117

दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः ।
समाशतं प्रयच्छन्ति तृप्तिं मैत्रेय दुर्लभाम्

2.8.118

यस्यामिष्ट्वा महायज्ञैर् यज्ञेशं पुरुषोत्तमम् ।
द्विजभूपाः परां सिद्धिमवापुर्दिवि चेह च

2.8.119

स्नानाद्विधूतपापाश् च यज्जलैर् यतयस् तथा ।
केशबासक्तमनसः प्राप्ता निर्वाणमुत्तमम्

2.8.120

श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता ।
या पावयति भूतानि कीर्तिता च दिवेदिने

2.8.121

गगागङ्गेति यैर् नामयोजनाना शतष्वपि ।
स्थितैर् उच्चारितं हन्ति पापं जन्मत्रयार्जितम्

2.8.122

यतः सा पावनायालं त्रयाणां जगतामपि ।
समुद्भूता परं तत्तु तृतीयं भगवत्पदम्

मूल पाठ: Viṣṇupurāṇa · Edition: Bombay : Venkatesvara Steam Press 1910 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc