विनयसूत्र · अध्याय 8
। प्रतिसेवेत भैषज्यम् ।
। चातुर्विध्यम् अस्य ।
। ग्लानं प्रत्यप्रथमता ।
। सर्वं चोचमोचकोलाश्वोत्थोदुम्बरपुरुषकमृद्धीकखर्जूरपानानाम् ।
। तद्वच् छुक्तशुलुकदधिमण्डोदश्विन्मण्डकानि दकभिन्नानि पट्टपरिश्रुतानि स्वच्छानि मुखदर्शीनि शरकाण्डवर्णानि ।
। अयुक्तिः प्राग् एवं [प]श्चाद् उपसंपन्नेन यर्शनस्य स[50अ5]मानव्यंजनेन ।
। हरीतक्यादेः पञ्चकस्य ।
। गुडस्य च ।
। अधिष्ठितस्यास्य भक्षणे ग्लानवत्त्वमच्चोद्धोपधिवारिके नवकर्मिणाम् ।
। भक्तिच्छिन्नकस्यात्र चाकालिकाभक्षणे च ।
। पानानियामिकम् ।
। स्वच्छानि ।
। अतत्त्वात् तद्द्रव्यस्य कालिकं चेद् अनुपसंपन्नेन मर्द्धनं परिश्रावणञ् च पटेन ।
। दाडिमवीजपूरकाद् अन्येष्व् एषु द्रव्यम् ।
। कालि[50अ6]कत्वे स्य यामान्तः पर्यन्तः ।
। अन्यत्वे यस्तिस्मिन् ।
। अनितिवृत्ताव् एषोतिवृत्तौ यतः सेत्येकः ।
। तदसदतिरिक्तकालाश्रितावरूढिप्राप्ते तस्यां चागम्यत्वाद् भविष्यतः प्राकृतानाम् अनधिष्ठेयतापत्तेः ।
। प्रविष्टत्वम् अत्र रसचूर्णारिष्टयोः ।
। सौवीरकस्य च स्वच्छस्य ।
। पूलादिभैषज्यं शूतपच्लम् एतत् ।
। सर्प्पिस् तैलमधुफाणितानि सप्ताहिकम् ।
। [50ब्1] सर्वेषां गुडखण्डशकरादीनां फाणितत्वेनाक्षेपः ।
। सर्पिष्ट्वसुधायाः ।
। तैलवत्त्वं वशानां पञ्च परिसूतानाम् ।
। मत्स्यशुशुशिरम् आरक्षसूकाराणाम् ।
। आसम्भूयान् ग्लान्य उपयोगः ।
। स्वस्थतायाम् आसां ग्लान्यानिमित्तं पाचते दानम् ।
। अभावे ऽस्य ग्लानकोष्ठिकायां कषायांजनयोश् च ।
। यावज् जीविकं मू[50ब्2]लगण्डपत्रफलम् अस्फरित्रामिषार्थस्य ।
। तद्यथा मुस्तं वचा हरिद्रार्द्रकमतिविषा ।
। चन्दनं चविका पद्मकं गुडूचि देवदारु हरिद्रार्द्रकम् ।
। वासककेशातकीपटोलनिम्बसप्तपत्रपत्राणि ।
। पुष्पानि वासकनिम्बधातकीनागानां पद्मकेसरञ् च ।
। हरितक्यामलकं बिभीतकं मरीचं पिप्यली ।
। जतु ।
। तद्यथा हिङ्गुसर्जरसः ।
। स्तपः [50ब्3] स्तपकर्णी स्तपाकरः ।
। क्षारः ।
। तद्यथा तिलपलाशस्वर्जिकायवशूकवासकानाम् ।
। क्षारक्षारश् च ।
। लवणम् ।
। तद्यथा सैन्धवं सौवर्चलं विटं सामुद्रं रोमकम् ।
। कषायः ।
। तद्यथाम्रनिम्बकोषाम्बशिरीषजम्बूनाम् ।
। यावद् आप्तं दानं स्नात्वा पुनरसं स्पर्षं सकृत् स्नानम् इति कषायदानम् ।
। न विकृतभोजनस्य भैषज्यग्र[50ब्4]हणेनान्तता ।
। यावज् जीविकत्वम् अस्य ।
। तदाख्यं पुनर् उच्चारप्रस्रावौ स्तन्ययानयायिनां वत्सकानां विषे ताव् उपकारौ ।
। छाविका ।
। काञ्चनपीतशालाश्वत्थोदुम्बरन्यग्रोधानां सा ।
। मृच्चतुरङ्गुलादधोभूमेः साध्वी ।
। स्राद्धाद् अस्यादानम् उपासकात् ।
। तेन प्रतिग्रहणम् ।
। मांसभैषज्यस्य चामस्य ।
। ग्रहणं [50ब्5] वस्तूनातः सर्वस्य ।
। कार्यत्वम् अस्य ।
। जरकुचोच्चारयवाश्चेदकालोपयोज्यतायां याचकृतभैषज्यस्य तदर्थं स्फरेयुः नान्यात् परिभुञ्जीत् ।
। पट्टपरिश्रुता च दबक्षारी नान्यत् ।
। कोकोच्चारसांसंचेन्मांसभैषज्यस्य नान्यत ।
। पट्टपरिश्रुतेश् चेद्रसको नान्यत् ।
। सान्ये पि सद्भावस् तदद्याचारस्य तस्माद् पूर्वकल्पेन तत्साह्ये प्रवृत्तिः ।
। [50ब्6] नानापन्नस्य रूपान्तरम् अपूर्वरूपत्वं तस्मान् न विसंपच्चितस्य परतः स्वकल्पेनाकल्पनम् ।
। सम्पद्यते प्रक्षालनेन शक्ततण्डुलेषु प्रवृत्तावस्थानस्य स्वमात्रसंख्यता गुडस्य ।
। गुडत्वे गुडवत्त्वे प्रतिपत्तिः ।
। अनुत्थानम् अधितिष्ठते सान्निहित्यस्याधितिष्ठेत् ग्लान्यनिमित्तपरिभोगार्थम् ।
। आश्वकालपर्यन्तात् ।
। पूर्वभक्ते ।
। [51अ1] । । प्रतिग्राहितम् ।
। रक्ष्यो ऽप्रतिग्राहितसन्निहितसम्पर्कस् तस्मान् निर्माद्य हस्तौ ।
। नोद्गृहीतसन्निहिताप्रतिग्राहितान्तरुषितपक्वभिक्षुपक्वेष्व् अधिष्ठानस्य रूढिः ।
। सन्निहितत्वं रसाच्छता परिवृत्तौ ।
। नाधरेण सार्धम् अधिष्ठितं परिभुञ्जीत् ।
। निदर्शनं भैषज्यानु(क्)क्रमः ।
। प्रतिसेवतांजनम् ।
। नाभैषज्यार्थम् ।
। योग्यम् अस्य भाजनम् ।
। रसाञ्जनस्य [51अ2] समुद्गकः ।
। गोणिकागुडिकांजनस्य ।
। पुष्पकल्कं चूर्णांजनानां नाडिका ।
। धारयेच् छलाकाम् ।
। ताम्रलोहयोस् साध्वी मणिभूतयोः ।
। धारयेद् आवाधिकः कच्छपुटं भैषज्यनिधानाय ।
। स्वसंभवतां तत्र भारीकृत्य सूतं वा निधानम् ।
। शोषणतः कालेन कालं निहितस्य पौत्यानुपगतिः ।
। छायातपे ।
। वीर्यस्य शोषे हानिः ।
। [51अ3] अनयनेत स्वयम् उपयात्रे विनाशहेतोर् अभावे नुसंपन्नस्य ।
। धारयेद् भैषज्यसरावकम् ।
। भैषज्यकटछुकम् ।
। विषीदनके चानुपानपट्टकम् ।
। आवाधिको लवणम् ।
। नाडिकस्य साधु स्थानं साङ्गा ।
। गोमयेन परिक्वाथितस्य ।
। विधानकस्य तद्विरहादोषाभावाय दानम् ।
। अतन्मयस्यैव ।
। गन्धपरिभाविनां मृदं ।
। पा[51अ4]नीयतापनार्थ(ं)मयस् पिण्डम् ।
। उपयोजयेत् सर्वः ।
। सृङ्खलायास् तप्तोत्क्षेपार्थं तत्र लगनम् ।
। आर्द्रमृत्तिकया तापनकाले तदवष्टम्भः ।
। नास्त्य् आमिषोपदेहस्य भावे ऽवस्थानम् ।
। कल्पिकस्य पूर्वं तापनं पश्चात् परिभोगिकस्य ।
। भजनं बस्तिचिकीत्सितस्य ।
। स्थूलम् अत्रान्यथाशक्यतायां व्युत्थापनस्य ।
। मणेर् लोह[51अ5]स्य वात्र नाडीकसाध्वी नायसः ।
। तद्वत् शस्त्रचिकित्सितम् ।
। नैतद् अन्यच् चिरावेधान्मुखे भजेत् ।
। नार्शसां छेदम् ।
। अन्येनापि शस्त्रात् ।
। मन्त्रौषधाभ्याम् एषां विचिकित्सनम् ।
। न प्रदुष्टेन चिकित्सयेत् ।
। न रात्रिर् अभ्यवहारे विचिकित्सायाम् अप्रतिरूपा ।
। अनाशंक्यम् अत्राप्रतिग्राहितसन्निहितयोर् अकल्पिकत्वम् ।
। पानं विचिकित्सायै धूपवर्त्तेः [51अ6] नेत्रिकयास्य सम्पत्तिः ।
। अयोमय्याः करणम् ।
। द्वादशाङ्गुला साध्वी न तीक्ष्णा पुरुषा वा ।
। स्थविकायां निधानं म्रक्षयित्वा सर्पिषा तैलेन वा ।
। नागदन्तके चीवरवंशे वा तस्या स्थापनम् ।
। निर्मादनार्थम् अग्नौ प्रक्षेपः ।
। करणं नस्तः कर्मणः ।
। नस्तकरणे नास्यसंपत्तिः ।
। द्व्यतीक्ष्णचंचुकं साधु ।
। कारणम् अस्य ।
। प्रतिसेवे[51ब्1]तामनांसं भैषज्यार्थे ।
। भुक्त्यै तस्यासक्तवत उपायः ।
। पिधानमक्ष्णोः पट्टकेन ।
। भावनं सुगन्धिनानुत्थानाय ।
। अपेततायां पलिगोधस्य स्थितत्वे च मनोज्ञस्य पुरतः खाद्यभोज्यस्य मोक्षः ।
। स्थूलम् अन्यार्थे ऽस्यास्याम् ।
। सर्वत्र मानुषमांसस्य ।
। नोद्दिश्यकृतं ज्ञात्वा मांसं भुञ्जीत् ।
। न व्याघ्रशेषम् ।
। न हस्त्यश्वनागानाम् ।
। [51ब्2] नैकखुरसृगालम्र्कटकाकेटककाकगृ(द्)ध्रवलाकाभषकालिकोलूकतदन्यकुणपखादकपक्षिवकजान्तुकोपलद्धागण्डूपककृमीणाम् ।
। प्रतिक्षिप्तमयतामेति मांसं प्रतिग्राहयन्तं पृच्छेत् ।
। प्रथमो ऽनेकत्वे ।
। अन्तरोहापनायाम् ।
। अप्य् एयत्वं हस्तिमानुषक्षीरयोः ।
। अदुष्टं त्व् अग्वणदेहनस्यदानाक्ष्यञ्जनम् अभक्ष्येणो ।
। [51ब्3] पेयत्वं ग्लानेन मूर्छितस्य ।
। सर्प्(य्)इषा तैलेन चामद्यस्य ।
। निर्दोषममद्यत्वे ।
। संपत्तिर् अस्य क्वाथात् ।
। प्रक्षिप्तभर्जितयवस्यास्य भूमौ निहितस्य सुक्ते त्वोपगतिः ।
। भवत्य् अनुपगतिः ।
। मद्यत्वे क्वाथेन द्राक्ष्यरसस्य ।
। नाव्यवपृक्ततायाम् अस्तित्वम् ।
। सत्वं वासनाभूतत्वम् ।
। पानं मद्यतृद्विगमाय मद्यगन्धपरिभावितमूलगण्डपत्र[51ब्4]पुष्प-फलभैषज्यशुष्कचूर्णोदकस्य ।
। समद्ये भाण्डे लम्बनस्थापनेन परिभावनम् ।
। रक्ष्यस् संसर्गस् तस्माद् ऊने विगतवेगतायाञ् च ।
। तथा विरसीकरणेनाकालपाने चामिषेण ।
। प्रासादिकञ् च साधु तस्माच् छुक्लनत्रकेन सूतीकरणम् ।
। अपानं ग्लानेन मद्यस्य कुशाग्रेणापि ।
। अदानञ् च सर्वेणौपासकात् ।
। चिकित्सार्थतां मुक्त्वे[51ब्5]त्य् अप्रकृतिसावद्ये सर्वत्र शेषः ।
। न लशुनं पलाण्डुं गृञ्जनकं वा परिभुञ्जीत ।
। प्रतिगुप्तिप्रदेशे ग्लानः ।
। नोपयुञ्जनः परतश् च सप्ताहं लशुने पलाण्डौ त्रिरात्रम् एकरात्रं गृञ्जनविहारं परिभुञ्जीत् ।
। शयनासनम् ।
। न वर्चकुटिं प्रवेशेत् ।
। न प्रस्रावकुटिम् ।
। न संघमध्ये ऽवतरेत् ।
। नोपविचारे चैत्यस्य ।
। व्यामोध्व प्रमाणम् ।
। [51ब्6] न गृहिभ्यो धर्मं देशयेत् ।
। न कुलाक्षय संक्रामेत ।
। न जनाकीर्णान् प्रदेशान् ।
। स्नानम् अन्ते ।
। अपनयनञ् च चीवराणां गन्धस्य ।
। शोचनधूपनाभ्याम् ।
। आयुष्करा दुर्भिक्षे ।
। वाह्यवकवायसोर् अधिष्ठितं कल्पिकत्वेन ।
। अधितिष्ठेन् न वृक्षमूलहस्तिशालतीर्थिकावसथराजकुलवस्तु भिक्षुणी वर्षकावैहारमेधीद्वार[52अ1] । । कोष्ठकप्रासादजेन्ताकोपस्थापन-शालम् ।
। अभ्यवकाशाग्निशालाचैत्यवस्तु गृहपतिवसूनि चैत्यपरं ।
। साधनपचनस्याप्य् अत्राकारणम् ।
। पञ्चोपस्करणञ् च ।
। चत्वारात्रकालाः ।
। प्रथमाष्टकान्यस्य मानत्वम् ऊर्ध्वं सनवकर्मत्वम् ।
। अन्यदानपगतभिक्ष्वधिवासनत्वम् ।
। निरेतदोधिवसनाय भिक्षूणां संप्राप्तिः ।
। आकृत्या[52अ2]न्तरारम्भप्रतिशान्तिभ्यां तत्वम् ।
। सर्वत्र संघः कर्मणा ।
। प्रथमयोः पुद्गलो ऽपि ।
। नवकर्मिकः ।
। केवलो ऽस्याद्या ।
। भाषणतः ।
। अवधाने द्वितीये संबहुलानां भिक्षूणाम् ।
। यावन्तस्ता[व?]न्तस् सन्निहिताश् चतुर्थे संमंकल्पिकशालाम् वाङ् भावकवचनोदाहारतः ।
। नान्ये कस्यैकस्य यानायाविहारस्य कृत्यकरणम् अप्रासादिकम् ।
। न पृथग्भू[52अ3]तस्यैतत् कल्पिकत्वम् उक्तम् ।
। भुञ्जीत् भिक्षु[ः] पक्वोद्गृहीतप्रतिगृहीते ।
। पुरोभक्तिकाम् ।
। पेयां सर्वदा ।
। प्रागप्रतिग्राहितं प्रध्वाद्योत्थितः ।
। उत्तिष्ठेत् तदान्त्यै ।
। शिष्टम् ।
। अभिनिर्हृतम् ।
। निर्हरेद् एनत् ।
। वनस्थिकानि ।
। तदाख्यम् ।
। तद्यथा द्राक्ष्यदाडिमखर्जूराक्षोष्टौ वाताम उरुमानरामापिकाकुरुमायिकानिकोचोबभूः पिञ्चितिका[52अ4]पुष्करञ् च तदाख्यम् ।
। तद्यथा विन्मंमृणालिकावेट्टशालूकं पद्मकर्कटिका ।
। न राज्यम् उपार्धम् वास्य प्रतीच्छेत ।
। प्रतिगृह्णीयात् संघार्थं ग्रामां ।
। क्षेत्रञ् च ।
। नैतद् अभ्युपेक्षेरन् ।
। भोगेनास्य दानम् ।
। मार्गणं भाग्यस्य ।
। कृष्णातो ऽस्य विहारे नेयत्वम् ।
। प्रथमतरम् आत्मीयात् ।
। रक्षणाय [52अ5] भिक्षूणां नियोगः ।
। नाप्रज्ञायमानाय व्ययो भयान्यतरे गणनां मृगयेत् ।
। अन्यत्र स्मृतिस,प्रजन्यपुर[ः]सरस् तत्र प्रवर्त्तेत् ।
। प्रतिगृज्णीयात संघार्थम् उपस्थायकान् ।
। यतो नागतिः शब्दस्य विहारे तत्र कल्पकारम् आपनम् ।
। देयत्वं भक्तस्य करणं चेत कर्मणः ।
। गोमहिष्याजैडकहस्त्यश्वोष्ट्रगर्दभामधान्यभाजनं च [52अ6] न स्तूपस्यैषाम् अकल्पनम् ।
। धारयेत् कलाविकालवणपातलिकाञ् च ।
। नाभ्याम् अनुपानपट्टकाच् चान्यत् कंसभाजनं पुद्गलो धारयेत् ।
। उपस्थापयेद् आरामिकम् ।
। ग्रहणं रक्षायै प्रतिपाद्यमानानाम् अप्य् अन्यानां समानव्यञ्जनानाम् ।
। आसक्तकण्ठचीवरकत्वम् एषां वेषः ।
। कट्यां वा प्रतिपालनम् अनुकम्पाचरितेन ।
। [52ब्1] ग्रहणं तत् ज्ञात्युपसंकृतस्य ।
। निष्त्रयत्वेन चान्ते ।
। तैश् च कृतज्ञतया ।
। नैतन् मूल्यं याचेत् ।
। स्वीकुर्यात् फललाभम् ।
। घृततैलमधुफाणितघटान् ।
। तद्भाजनञ् च ।
। स्थापयेद् एनाम् आधारके ।
। अनुपभोज्यत्वम् उच्चारप्रस्रावम् अद्य घटानाम् ।
। प्रतिजागृयात् संघार्थयोः साधनपचनयोः ।
। नापार्श्वनिहिततां प्रागावात् पात्र[52ब्2]स्य पिण्डाय प्रवृत्तौ भजेत् ।
। पिण्डोपभानं धारयेत् ।
। अनाशंक्यम् अत्र लोहभाण्डाधारणे चासाधारणत्वम् ।
। अकल्पिकत्वं च ग्लानायाः चेलाभरणस्य ।
। नाविशभरावकेण पिण्डाय कुलं प्रविशेत् ।
। धारयेद् एनम् ।
। निष्काशप्रवेशकौशले प्रयते[त] ।
। अभिज्ञानकरणेन पिण्डापाता च करादिना ।
। न धर्मवणिज्यपजीवितां कल्पयेत् ।
। [52ब्3] शोचनम् असंभवे जलस्य दध्यादिमण्डेन पादयोः ।
। निषदनं पिण्डके ।
। स्थापनम् एकान्ते ऽभ्यवकाशे ।
। राशीकृत्यापि ।
। प्रमी लनम् अन्ते ।
। करणं प्राभूत्ये पाटिकानेकत्वस्य ।
। शतपंचकशः ।
। प्रतिवृद्धान्तम् उपन्वाहारः ।
। अधिष्ठापकानाम् अपहर्तृत्वे वा करणम् उद्देशः ।
। प्रथमतरं भोजनव्यापारिकैः भक्तिः ।
। यथा वृद्धिकया [52ब्4] निषादनाय दापनाय च महासन्निपाते भिक्षूणाम् उद्देशः ।
। निषदेयुः द्वित्रावर्जां यथेष्टम् अत्र भिक्षुण्याः ।
। अल्पशब्दो ऽभ्यवहाराग्रं गच्छेत् ।
। सुसंवृतेर्यः ।
। प्रासादिकः ।
। एवं तिष्ठेत् ।
। नाभ्यवहार्यं पादेनाक्रामेत् ।
। न यदा पात्राधिष्ठानं स्पृशेत् ।
। स्मृतिम् उपस्थाप्याविक्षिप्तचित्त[ः] पिण्डपातं गृह्णीयात् ।
। अनवकिरन् [52ब्5] पात्रामात्रकम् ।
। असंमिश्रयन्नेन ।
। अनान्वालयम् ।
। सुप्रतिछन्नम् ।
। अनतिपातं कालम् अभिनिर्हरेत् ।
। न येन मन्त्रित ततो ऽन्यस्य लब्धेः स्वीकारे ऽस्त्य् अयुक्तत्वम् ।
। निर्दोषत्वं स्वभोजने ऽन्यप्रतीष्टेः ।
। तद् अन्तर्गतवद् अन्योपनिमन्त्रणे निषण्णस्यानुज्ञातं तेनान्यदत्तम् ।
। अभिप्रेतेनार्थेन शब्दप्रयोगे व्यवस्थानप्रसिद्धेन ।
। नान्तं विसर्जयेत् [52ब्6] दृष्टिशीलसम्पन्नाभ्यामान्तस्यान्यत्र यथासंख्यं दानम् अतिरिक्तस्य चालोपाद् यात्राकारिणो ग्रहणम् ।
। भोगश् च विनिपातनं श्रद्ध्[आ]देयस्य ।
। मात्[आ]पितृग्लानपुत्रह्यापेक्षकुक्षीमतीभ्यो विनेयाकां क्षापिण्डपातं स्पृष्टवते गृहिणे च संप्राप्ताय संविभागश् च तत्ः करणम् ।
। आलोपपिण्डां स्थापयेत् ।
। अव्यवच्छिद्य भोकारम् ।
। [53अ1] तिरश् चे च दद्यात् ।
। नानवशिते भक्त्यर्थम् उपनिक्षिप्ताद् ददीत्* ।
। न निमन्त्रणके श्रद्धदेयत्वेन पात्राधिष्ठाने ऽस्योच्छिष्टाशिलां यथा सुखकरणम् ।
। नैवासिकानां बलिदानम् ।
। तत्कल्पानुगत्या पूर्वाह्वादौ ।
। भिन्नकल्पत्वे भेदेन ।
। नावर्धको किलिकभावस्थामाम्रं भक्षयेत् ।
। नाकल्पिकत्वं मूलगण्डपत्रपुष्पफलखादनीयौदनकुल्मासम[53अ2](छ?)त्स्यमांसापूपक्षीरदधिनवनीतमत्स्यवल् लूराणाम् ।
। अनाशङ्क्यद्गसार्षपमूलगण्डपत्रपुष्पफलादियवागूनाम् अनिषेध्यत्वम् ।
। ओजस्करत्वं दूतस्योदकेनापि ।
। नाकल्पिकत्वं तृतिगतस्य ।
। कल्पते भाजने भोजनम् ।
। यार्यां ।
। शेलामये च ।
। कृतभोजने ऽपि निःश्रितव्यापारो निर्मादनम् ।
। भुक्ते ऽपि ।
। नापरेण सार्द्धम् एकत्र भाजने भुञ्जीत्* ।
। [53अ3] भुञ्जिदाध्वन्यसंभवे भाजनानां भिक्षूणाम् ।
। उद्धृते ऽन्यस्य हस्ते स्वं प्रक्षिपेत् ।
। श्रामणेरे च सार्द्धं परवदयोगे कल्पकारकानां पिण्डीकृत्य दानम् ।
। ज्ञातिना सर्वत्र हार्देन प्रार्थितः ।
। प्रतिगुप्ते प्रदेशे ।
। रक्षत्वम् अनयेष्प्रतिग्रहध्वस्तेनप्रतिग्राहितसंपृक्तेश् च ।
। न सोपानत्थो भुञ्जीत्* ।
। आक्रम्य ग्लानः ।
। न नग्न एकचीवरो वा ।
। अनापत्तिर् ग्लानस्योपस्था[53अ4]यको ऽस्य गुप्तिं कुर्यात् ।
। संकक्षिकां शक्तौ संश्रयेत ।
। गुप्तञ् च प्रदेशम् ।
। नेदमितो वा देहीति भोजनार्थम् उपविष्टपरिवेष्टारं बोधयेत् ।
। अनापत्तिर् ग्लाने ऽनुक्तयस्य ।
। तद्यथा मन्दाग्नौ पक्वस्यामस्य दीपताग्नौ ग्लानसंज्ञाम् ।
। स्वत्रोपस्थाप्य भुञ्जीत्* भैषज्यसंज्ञाम् आहारे ।
। स्मृतिञ् च ।
। समुदागमसादृश्यपरिणतप्रत्यर्थिकत्वनिष्यन्द प्रतीत्य विधिपरीष्टिपराधीन[53अ5]त्वन् मव्याबाधिकत्वप्रत्येकगततातिरास्थितप्रातिकुल्यम् ।
। उपस्थितस्मृतिः ।
। अविक्षिप्तः ।
। संप्रजानन्न् अल्पशब्दः ।
। अकुर्वन्न् एनम् ।
। अनुत्थापयन् यवाग्वाम् ।
। अमटमटायमानः ।
। मृदुकरणं शब्दकृताम् उदकादिना ।
। न तद्भुक्त्यर्थं वाद्यमानत्वे ।
। न देशनकृयमाणतायां प्रतिसंवेदितस्य ।
। अत्यये कालस्य द्वित्रयोगार्थयोः ।
। गा[53अ6]थां भुक्ता भाषेत्* ।
। दक्षिणादेशनधर्मदेशनयोः निमन्त्रणकं भुक्त्वा करणम् ।
। निर्ज्ञाय भुक्तिवतां सर्वेषाम् ।
। अवलोकनेन ।
। प्रथमेनानेकत्वे ।
। अशक्ताव् अध्येषणं प्रतिबलस्य ।
। अकृते चेद् गमनप्रत्ययः परिवारदानं भिक्षूणाम् ।
। चतुर्णाम् अन्ततः ।
। गमनप्रत्यये त्र दन्तस्यावलोक्य ।
। नन्दोपनन्दयोर् दक्षिणादेशने नामग्रहणम् ।
। निगिलेष्व [53ब्1]नाडिकोकालोङ्गरान् द्वित्रानादौ छोरयित्वा मुखं निर्माद्य ।
। नैतन् नामिषम् ।
। तस्मान् मुखम् अकाले प्रवारितश् चोद्गारारामे निर्मादयेद् अन्यः ।
। नाप्रज्ञप्ते प्रदेशे श्लेष्मानां छोरयेत् ।
। न परिकरिमिते ।
। नैतत् छन्दं वा स्थाविरस्य पुरतष्कुर्यात् ।
। न भुञ्जानस्य ।
। न पुनः पुनः शिष्टस्यापि ।
। अन्येनाशक्तौ प्रक्रमणम् ।
। नान्यस्यास्पर्शकरणम् ।
। नक्ता[53ब्2]ध्वकप्रश्नः ।
। चंक्रमणे नान्येन वा प्रक्रमणम् ।
। पात्रम् अस्य हस्तिपदबुध्नं साधारकस्य ।
। तप स्थापयेद् एनम् ।
। क्षोदकवालुकछायिकानां धारणं मक्षिकाणां प्रतिविधेः ।
। अदुर्गन्धीभावप्राणकासंभवाय कालेन कालं शोचनं शोषणञ् च ।
। तत्कालार्थम् अपरोपस्थापनम् ।
। अविघातार्थं कोणस्तम्भपार्श्वे विहारस्य ।
। चतुर्णाम् अपि [53ब्3] श्लेष्मकटकस्थापनम् ।
। न सशब्दं वातकर्म कुर्वीत्* ।
। नाधो वृक्षस्योच्चारप्रस्रावम् ।
। मुक्तानिरवकाशत्वं तैर् अट्टव्याम् ।
। कण्टकिनश् च ।
। करणं वर्चस्कुटेः ।
। विहारे चेद् उत्तरपश्चिमे पार्श्वे ।
। क्षोमस्य तम् अङ्गस्य वा ।
। कण्टकिनामधो वृक्षाणां रोपणम् ।
। पादकयोर् उपछिद्रम् उपरि दानम् ।
। कुण्डिकास्थानकरणम् ।
। विकर्णाकारया द्वारम् ।
। [53ब्4] कवाटस्य दानम् ।
। कटकार्गडयोश् च ।
। शब्दनं प्रविविक्षता ।
। सूते तत्र च प्रविष्टेण ।
। सुसंगृहीतचीवरः प्रविशेत् संप्रजनन् ।
। मध्ये निषीदेत ।
। शनैरलिंपनकुटिपादुकं कुर्वीत्* ।
। नानागतम् आगमयेत् ।
। नागतं विधारयेत् ।
। न तत्प्रतिबद्धकार्याद् अन्येन तत्समीपे तिष्ठेत् ।
। प्रतिदिनं शोचनम् उपधिवारिकेन ।
। मृत्पात्रोपस्थापनञ् च ।
। [53ब्5] नाप्रज्ञप्ते प्रदेशे प्रस्रावं कुर्यात्* ।
। नानेकत्र ।
। प्रोढौ गर्तायां खानयेत्* ।
। करणं प्रस्रावकुटेः ।
। पार्श्वे स्याः ।
। तमङ्गस्य ।
। प्रनाडिकादानम्* ।
। समानम् इतरत ।
। करणं छीद्रपीठस्य चोदनारोगे ।
। संवर्तनेन बालस्य ।
। असंपत्तौ छेदनम्* ।
। सामन्तके दुःखनं चेत् पात्रवैभङ्गुकानां दानम्* ।
। रक्ष्यो भूमिनाशस् तस्माद् अष्कर्यकरस्य ।
। [53ब्6] नान्युच्चा साधु ।
। कालेन कालम् अदुर्गन्धतायै शोचनम्* ।
। शोषणं म्रक्षणञ् च कटुकतैलेन ।
। तत्कालार्थम् अपरार्जनम्* ।
। असंपत्तौ पतलिकाधारत्वेनोपयोगः ।
। कृत्वोच्चारं तत्करणशुद्धेत्* ।
। न तीक्ष्णेन तृणकुर्वकेन वा ।
। नतुकपत्तलिकपत्रवैभङ्गुकलोष्ठकाष्ठानाम् अत्र साधुत्वम् ।
। द्वाभ्यां च मृद्भ्यां शोचयेत् ।
। प्राक् स्थापिताभिः [54अ1] । ।प्रविभागेन मृद्भिर् उत्तरः शोचः ।
। सनैर् मन्दमन्दमनाशयताविस्कम्भिनाचमनिकापादुकाम् ।
। सप्तभिर् वामस्य ।
। सप्तभिर् उभयोः वाह्विः शोचनम्* ।
। पुनः हस्तयोर् मृदा ।
। अपराया[ः] कुण्डिकायाः पादप्रक्षालनम्(अ) ।
। निर्दोषं शूते कुक्षेः प्रागन्तात् पोच्चनमात्रं कृत्वासनं नातो न्यः ।
। सत्य् उदके नावान्ते निषीदेत्* ।
मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0