भाषा

ENहिગુ
ग्रंथ पाठ

विनयसूत्र · अध्याय 7

7.1

। मर्यादा मध्यदेशस्य ।

7.2

। पूर्वेण पुण्डकच्छो नाम दावः पुरतः पुण्डवर्धनस्य ।

7.3

। शरावत्यास् तदुपा[49ब्4]ख्या नदी दक्षिणेत्र ।

7.4

। पश्चिमेन स्थूणोपस्थूणौ ब्राह्मणग्रामकौ ।

7.5

। उशीरगिरिर् उत्तरेण ।

7.6

। धारयेत् प्रत्यन्त उपनहौ ।

7.7

। शयनासनगुप्त्यर्थं च ।

7.8

। एकपलाशिके ।

7.9

। अर्गडिकदानेन प्रतिसंस्करणं ।

7.10

। न पुटान्तरस्य ।

7.11

। सप्त पदान्य् अन्ततो गृहिणा परिभुक्ते बहुपुटौ अपि ।

7.12

। नाकल्पिकस्य कल्पिकमात्रार्थतायां तद्योगवशं [49ब्5] ग्रहणमान्तता ।

7.13

। न चित्रोपचित्र्तां ।

7.14

। न वेषविषाणिकां* ।

7.15

। नाश्वत्थकरवीरपत्रिकां ।

7.16

। न सुवर्णरूप्रखचितां ।

7.17

। न किचिकिचायन्तीं* ।

7.18

। न किणिकिणायन्तीं* ।

7.19

। न खिणिखिणायन्तीं* ।

7.20

। न झिणिझिणायन्तीं* ।

7.21

। अन्यद् वा शौटीर्यम् उद्वहन्तीं* ।

7.22

। न तिर्यग्वधिऊकत्वस्याकल्पिकत्वं ।

7.23

। धारयेत् पुरः प्रार्ष्णिपुटके ।

7.24

। लाला[49ब्6]म्बुजां ।

7.25

। मुण्डपूलां च ।

7.26

। पिण्डीभवज्जने च जनपदे खोलां पूलां च ।

7.27

। न मान्यस्य सन्निधाव् उपानत्प्रवृत्तिम् भजेत ।

7.28

। न सिं*हव्याघ्रद्वीपिहस्त्याजानेयाङ्गस्य किञ्चित् काये वस्थितत्वं ।

7.29

। कक्षहस्तिखटुंकाश् च तदन्यचण्डमृगान्<<ण्>>आम् अप्य् एभिर् आक्षेपः ।

7.30

। नोपानाहम् आस्फोटयेत ।

7.31

। उदाअ<<का>>र्द्रेण नतुकेनैनां विरजीभावाय [50अ1] । । पोच्छयेत्* ।

7.32

। धारयेद् एनत्* ।

7.33

। ग्रथ्नीयाद् एनां ।

7.34

। प्रतिगुप्तप्रदेशे ऽप्रासादवस्तुनः करणं ।

7.35

। धारयेत् तदर्थमारां वद्ध्रञ् च ।

7.36

। न शत्रीम् ।

7.37

। न काष्ठपादुकायारोहेद् अन्यत्रान्तर्गृहद् अशुचिकुटेश् च ।

7.38

। न वंशपत्रमुंजसीरीदर्भाणां ।

7.39

। रज्जोश् च ।

7.40

। अवातशोणिते ।

7.41

। निषीदेच् चर्मण्यभावे न्यस्यान्तर्गृहे ।

7.42

। अत्राप्य् अत्र तद्रूपेष्व् अपि प्रत्ययेष्व् अनि[50अ2]पत्तव्यता प्रतिगृह्णीत् तर्क्षचर्म चक्षुषे ।

7.43

। पादस्थाने प्रज्ञपनम्* ।

7.44

। गन्धकुटिद्वारे बोद्धस्य ।

7.45

। उपानहोः प्रावरणम्* ।

7.46

। वाते निषद्या निपद्या च सर्वम् अर्शःस्वेतद् इत्य् अस्योपयोगः ।

7.47

। रोमसंस्पर्शेनो[प]कर्तृतां विद्यात्* ।

7.48

। बहुपुटत्वेन चोपनाहोः ।

7.49

। अनेकोपरिस्थेन चैकेनापि ।

7.50

। नानस्मापरान्तकेषु चर्म धारयेत्* ।

7.51

। न सिं*हादेः ।

7.52

। [50अ3] स्नाय्वस्थिदन्तमांसवंसानाम् अपि तस्याकल्पिकत्वं* यस्य चर्मणः ।

7.53

। धारयेत तृतिं* ।

7.54

। काषायं माणवकं वा ।

7.55

। न चित्रोपचित्रम्* ।

7.56

। न नाभिज्ञास्तरणे कृत्वा सविधानम् अगाधमम्भो वगाहेत्* ।

7.57

। शिक्षेत् तर्तुं प्रविविक्ते प्रदेशे ।

7.58

। न तदगाधे हेरो?गाम् अपाश्रयेत मुक्त्व्[आ]र्षभम्* ।

7.59

। अपाश्रयेत हस्त्यश्वमहिष्यरान्* ।

मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc