भाषा

ENहिગુ
ग्रंथ पाठ

विनयसूत्र · अध्याय 6

6.1

। नाशस्त्रलूनं वासः परिभुञ्जीत ।

6.2

। छिन्नस्यूतं चीवरत्वायाधिष्ठेत् ।

6.3

। भक्तिचित्रताशेष[45अ6]सममध्यान्यत् तद्गतपत्रमुखत्वपरिमण्डितत्वेः ।

6.4

। अन्तरवास उत्तरवासंगं संघाटीञ् च ।

6.5

। कूसुलकसंघक्षिके च यत् तद्विधे भिक्षुणी ।

6.6

। मतसंभवे याच्ञायापि ।

6.7

। नैतद् विहासरुतोद्गतिम् आगमयेत् ।

6.8

। रोहत्य् अन्यासंपत्तावरक्तकस्याधिष्ठानं ।

6.9

। अछिन्नकस्य च ।

6.10

। आसेवकानाम् अत्र दानं संभवश् चेत् ।

6.11

। [45ब्1] आगारिकविधस्य च ।

6.12

। नमतकोचवप्रावारस्थूलकम्बलपैलातिकम् अच्छिन्नम् आसैवकदानसूतम् ।

6.13

। तत्क्षणाद् एवाशुचिम्रक्षणं सम्पत्तौ शयनासनं शोचयेत ।

6.14

। नैनं सांघिकम् अखटमंचपीठमप्रत्यास्तृतमतेनानिषादात् संवरणं वा दत्तान्तर्द्धानम् उपभुञ्जीत ।

6.15

। सर्वञ् च चित्रम् अभूयो विनष्टं ।

6.16

। न कल्पभूते[45ब्2]न मलववता वा ।

6.17

। धारणं प्रत्यास्तरणस्य येन एकपुटं न्याय्यम् ।

6.18

। द्विपुटं पैलोतिकम् ।

6.19

। अकल्पिकं चित्रोपचित्रं ।

6.20

। पत्रमुखम् अस्य कुर्वीत्* ।

6.21

। अधस् तृतीयभागादौ ।

6.22

। नैकखण्डम् अधितिष्ठेत् ।

6.23

। कण्डूप्रतिछादनं तद्वान् धारयेत् ।

6.24

। पञ्चयैर् एनद् दविसैः शोचयेत् ।

6.25

। कल्पते कोशेयमूर्णकं शानकं [45ब्3] क्षौमकञ् च ।

6.26

। नातन्तोतभांगेयम् ।

6.27

। केशमयनाग्न्यौलूकपक्षिकत्वसमादानम् ।

6.28

। स्थूलम् अत्र ।

6.29

। अन्यद् एतत् भजनम् ।

6.30

। केशलुञ्चनपर्णशाट्यजिनसान्तरोत्तरयापनतिरिटाङ्गनाडीसर्वनीलप्रवारणदीर्घदशफणदशकंचुकोष्णीषशिरोवेष्टनकुतपोष्टक बलतीर्थिकध्वजञ् च ।

6.31

। पुलासपत्रपूरदीपवर्ति[45ब्4]कामात्रतयापि समतयै विभजनम् ।

6.32

। विक्रीयकोचवतद् विधानाम् ।

6.33

। न पाटयित्वा ।

6.34

। पञ्चानां लभेः भाजने करणम् अद्यलाभो भाजयिष्यते तत्र युष्माभिः सन्निपतितव्यम् इत्य् आरोचनं संघे ।

6.35

। गण्ड्या कोटनम् ।

6.36

। शलाकाचारणम् ।

6.37

। गणनम् ।

6.38

। प्रत्यंशप्रवारणं ।

6.39

। ईशित्वक्रियमाणतायामान्त्यादि[45ब्5]गतस्य ।

6.40

। नावसितत्वे ।

6.41

। कुलाभके प्य् एतत् ।

6.42

। नानर्हः प्रक्रान्तायां तल्लाभक्रिया प्रविष्टेः ।

6.43

। तस्मान् नियुञ्जीत्* ग्रहणे प्रक्रामन् ।

6.44

। दस्युत्वम् अग्रहणे प्रतिज्ञातवतः ।

6.45

। पणपञ्चकात् प्रभृति कुलाभके ।

6.46

। नानुक्तो गृह्णीयात् ।

6.47

। गृह्णीयाद् आचार्योपाध्यायो वा ।

6.48

। विश्रम्भस्थानार्थञ् च ।

6.49

। नास्वपक्षार्थं ।

6.50

। [45ब्6] शयनासने प्य् एतत् ।

6.51

। भक्ते वा ।

6.52

। परस्परार्थं गृह्णन् विज्ञपयेत् ।

6.53

। नानाभवन् तम् अन्तर्भूयः ।

6.54

। नैकत्वम् अर्द्धस्य सुवरुता च लब्धेर् अनर्हप्रवेशे कारणं ।

6.55

। अनर्हः संघलाभस्याधर्मपक्षेषु पतितो भिन्नेषु ।

6.56

। उषितत्वं बहुतरम् उषितस्य तत्कालके लाभे हानायास्यावृत्तौ मृत्यौ च ।

6.57

। यथाविनियतिलाभस्य व्यवस्था ।

6.58

। [46अ1] लब्धृभिश् च ।

6.59

। कृत्स्नप्रतिपादने पि ।

6.60

। कर्मसीम्ना संघस्यापरिच्छेदे परिच्छेदः ।

6.61

। तत्त्वम् अत्रैकादेः ।

6.62

। धर्मलाभे तद्भाणकानाम् ईशित्वम् ।

6.63

। एकार्षगाथाधारणं तत्त्वे त्र पर्यन्तः ।

6.64

। अर्हत्वं भिन्नव्यञ्जनस्येतरसन्निधौ मृतपरिष्कारे ।

6.65

। तथोत्क्षिप्तस्य ।

6.66

। असन्निधौ वा निवृत्ते निमित्ताच् चेतसि ।

6.67

। अभिन्नत्वम् अस्य तारादीयमैतद्ग्रा[46अ2]ह्यतायां ।

6.68

। भिन्नत्वं भिन्नस्य ।

6.69

। नान्यस्य प्रव्रजितात् सब्रह्मचारिणस् तदीशित्वम् ।

6.70

। न ज्ञप्त्याधिष्ठिते प्राप्तस्य पूर्वचरमेण वा ।

6.71

। कस्यचित् ततः संघवृद्धनवकयोः दानं तद् आख्यं ।

6.72

। यत्राधिष्ठेयस्य गतता तत्सीमान्तर्गतानाम् अधिष्ठतृत्वम् ।

6.73

। अकरणम् अत्र मरणस्थानता ।

6.74

। सीमान्तरिकात् स्थलग्ने काये न्यत्र वा यातामा[46अ3]क्रान्तिस् तावद् गतानां ।

6.75

। सप्रतिवस्तुकत्वे यत्रासौ तद्गतत्वं परिस्कारस्य ।

6.76

। प्रतिवस्तुकेनान्यस्थम् अधितिष्ठेयुः ।

6.77

। प्रेषितस्याप्रतिक्षिप्तस्य संप्रदानेन तदीयत्वम् ।

6.78

। प्रतिक्षिप्तस्य प्रेषयितृत्वम् ।

6.79

। प्रतिक्षिप्तस्यापि तेन ।

6.80

। बहिर् अस्य रूढिः ।

6.81

। सीम्नो न्तः संज्ञिना केवलाधिष्ठानम् ।

6.82

। नाकृते निर्हारसत्करणधर्मश्रवणदक्षि[46अ4]णादेशने धितिष्ठितेयुः ।

6.83

। अन्तर्गृहस्थत्वे पात्रचीवरस्य यस्मै गृहपतिना दानं तस्यैशित्वम् ।

6.84

। अर्हश् चेत् ।

6.85

। विहीनश् च तेन ।

6.86

। अदाने याचितवतः ।

6.87

। क्रमे प्रथमम् ।

6.88

। असत्त्वे नुद्देशत्वात् पृष्टौ गतवतः ।

6.89

। तद्वत् क्रमे ।

6.90

। एनिकोद्भूतो तद्देयपरिमाणस्य तद्गामित्वं मृतपरिस्कारस्य ।

6.91

। विभक्तस्यापि ।

6.92

। यत् तेन सा[46अ5]र्द्धम् अवस्थितं तस्य देयत्वं ग्राह्यता वा न तस्यैव ।

6.93

। नानेन सब्रह्मचारिणाम् ऋणित्वं ।

6.94

। रत्ना दीपित्वं संभावने यावद्भ्य एतत् तावत्सु नावकर्मिकस्य विनियोगः समं स ग्लानोपस्थायक्रात्वतद्गामित्वं परिस्कारषट्कस्य नाधिष्ठेयत्वम् ।

6.95

। सोत्तमाधमम् अध्यमस्य ।

6.96

। साधारण्यम् अनेकत्वे तस्य ।

6.97

। प्रक्रान्ततायां ग्लानस्य मृत्यौ [46अ6] तादर्थ्ये देयत्वं ।

6.98

। नैतन् मृतद्रव्ये नर्हस्य ।

6.99

। न नान्यत्रोपगते ।

6.100

। सर्वार्हत्वम् अत्रानुसंपन्ने ।

6.101

। हायते ग्लानस्योक्तोक्तेन दाने यथोक्तेन दाने यथोक्तं कार्यत्वं ।

6.102

। अप्रगमो मृतकालस्वत्वसंपादने धनिनः ।

6.103

। प्रगमो गृहस्थस्य ।

6.104

। निर्यात्य गृहिणि मृते पुत्रदारस्य यथासुखकरणं ।

6.105

। हस्त्यश्वोष्टखरवेसरसन्नाहानां [46ब्1] राज्ञि निर्यातनं ।

6.106

। त्रये हिरण्यसुवर्णान्यकृताकृतानां ।

6.107

। रत्नानाञ् च ।

6.108

। स च्चेद् अन्यद् एतत् तदंशत्वेनार्थिरिक्तत्वे पि न चेद् एवम् एव बुद्धे मुक्तानां ।

6.109

। महारङ्गस्य च ।

6.110

। लेपस्य पिष्ट्वाभिर् गन्धकुड्यां दानं ।

6.111

। अतदौबोधिकस्य प्रतिमागन्धकुटिचैत्योपस्करणे विनियोगः ।

6.112

। बुद्धवचनलेखनसिद्धापयोर् धार्मिकस्य ।

6.113

। यानस्य प्रतिमायां ।

6.114

। ध्वजार्थं [46ब्2] तद्वंशानां ।

6.115

। यष्टीनाञ् च तद्योग्यानाम् ।

6.116

। अन्यासाम्नायुधानां संघे ।

6.117

। खक्खरकसूची शस्त्रकं कृत्वेषां शरणं ।

6.118

। यथार्हम् अन्यस्य सांघिकस्य निक्षेपभाजनं भोजनानि क्षेत्रगृहापणशयनासनायपस्कारलोहनापितकुलालतक्षा च वरुओडभाण्डदासीदासकर्मकरपौरुषयगोमहिष्यजैडकभैषज्यबुद्धशास्त्रपुस्तकानां सुसाध्यलेखा[46ब्3]नां प्रथमार्हत्वं ।

6.119

। शाटकपटकप्रावरकोप्यनत्पुलातैलकुतुपकरकुण्डिकान्य् अपुस्तकलेख्यवर्णकानां द्वितीयस्य ।

6.120

। तृतीयस्य पञ्चतिलव्रीहिम् उद्गमाषावरधान्यान्नपानानां ।

6.121

। समुत्वं मण्डलार्धमण्डलमेषु कुर्वीत्* ।

6.122

। मानार्थं तत्प्रमाणयष्टिधारणं ।

6.123

। पत्रमुखेषु च ।

6.124

। तत्प्रमाणशलाकाधारणं ।

6.125

। [46ब्4] पर्यन्तो स्य प्रकर्षे चत्वार्यङ्गुलानि ।

6.126

। काकवितस्तिर् वा ।

6.127

। अपकर्षे द्वे सार्धे वांगुष्ठोताराना ।

6.128

। न भूमौ चीवरं वितन्वीत्* ।

6.129

। कठिनस्ये तदर्थं करणं ।

6.130

। दारुमयं वंशमयं वा ।

6.131

। चतुरस्रकं कृतबन्धार्थं सूत्रकावकाशार्थं छिद्रं तदाख्यम्(अ) ।

6.132

। यावच् चीवरं ।

6.133

। शस्त्रकेन पाटकं ।

6.134

। धारयेद् एनं ।

6.135

। काकचञ्चुकाकारं कुक्कुटपक्षकाकारं वा ।

6.136

। [46ब्5] नान्यद् आयसात् ।

6.137

। न कमनमृष्टेन चित्रोपचित्रेण वा दण्डेन ।

6.138

। न षडलङ्गुलातिरिक्तस्य प्रमाणं ।

6.139

। नाष्टेत्य् अपरः ।

6.140

। निष्प्रयोज्नत्वं ऊनचतुरंलुस्य ।

6.141

। दत्तगोमयोपलेपे सेवनं ।

6.142

। अभावे गोमयस्य शिक्तसंमृष्टे ।

6.143

। सीव्येद् एनं ।

6.144

। सूच्यापि ।

6.145

। धारयेद् एनं ।

6.146

। नान्यां रीतिताम्रकंसमोमयीतः ।

6.147

। ताम्रायसोस्तीक्ष्णयोर् इत्य् अपरम् ।

6.148

। [46ब्6] धारयेद् अस्यागृहकं नाडिकं मुष्टिकं वा ।

6.149

। नैतद् अलज्जिश्रामणेरयोर् अधीनं कुर्वीत्* ।

6.150

। मधुसित्थम्रक्षिते सूचीशास्त्रकाणां कौटकाभक्षणायानतुके स्थापनं ।

6.151

। पाशकस्यानपगमाय चीवरे दानं वलकं दत्त्वा ।

6.152

। ग्रन्थिकायाश् च ।

6.153

। न रजकेन रक्तम् अरक्तं वा वस्त्रं शोचयेत् ।

6.154

। न तद्वत् स्वयं ।

6.155

। नास्यास्तरे न काष्ठभित्तके ।

6.156

। कुण्डा[47अ1] । ।लके शोचयेच्<<ल्>> लक्षणे सुखोदकेन सनैः ।

6.157

। परिवर्त्तनं हस्ताभ्यां ।

6.158

। अशक्तौ पदाभ्यां ।

6.159

। कल्पत एवं गृहिणं शोचनं ।

6.160

। अन्यथात्वं चरणम् अस्य रक्षेत ।

6.161

। सुधौस्युत रक्तं पंसुकूलं भारयेत ।

6.162

। नाशुचिम्रक्षितां चीवरं ।

6.163

। शोषणं साधुतायै संगुव्यरङ्गस्य छायातपे ।

6.164

। विना चीलैक्वाध्वनं ।

6.165

। आतृतीयाद् विशिष्टत्वं ।

6.166

। तस्माद् बहुनान्वित्वे [47अ2] त्रिर् आदानं ।

6.167

। हीनतरत्वं परस्य ।

6.168

। तस्मात् पृथग्स्थापनं ।

6.169

। लेखनमयं प्रथमम् इत्यादि ।

6.170

। पूर्वस्य च प्रथमम् उपयोगः ।

6.171

। संमृतितचीवरस्य च ।

6.172

। तस्माद् अपनीय कुण्डालके तन्मात्रमोल्लकस्य दानं ।

6.173

। प्रधरणं द्रवे ।

6.174

। चित्तलत्वम् अतिशुष्के ।

6.175

। तस्मात् मध्यस्य ।

6.176

। कान्तारिकायां साधुशोषणं ।

6.177

। ततापां अन्तलगनेनचर्प्यटकैः ।

6.178

। [47अ3] दुर्धराणां कक्षप्रज्ञप्तौ ।

6.179

। अनेकपार्श्वकतापैर् अङ्गस्य संपरिवर्त्तनं पुनः पुनः ।

6.180

। नवरङ्गस्य नवेष्व् एव साधु दानम् ।

6.181

। पुराणस्य पुराणेषु ।

6.182

। शोषणं नवानाम् आतपे ।

6.183

। पुराणानां छायायां ।

6.184

। पानीयोल्लकस्याचित्तलतायै दानं ।

6.185

। अपरेद्युः ।

6.186

। न मेध्यां चंक्रमे वा रङ्गकर्म कुर्युः ।

6.187

। न विहारे ।

6.188

। उपर्य् अस्य करणं ।

6.189

। [47अ4] नाचामनिकासामन्तके ।

6.190

। प्रलिप्ते तत्र प्रदेशे दानं ।

6.191

। शुद्धाप्रवालिप्तश् चेच् छोचनं ।

6.192

। प्रस्तुते चेद् वातवर्षागमः करणं प्रासादे ।

6.193

। प्रलिप्तेस् तत्र प्रदेशे कृते करणं ।

6.194

। गोमयेन मृदा वा ।

6.195

। नासंपन्नकल्पाकोटितप्रत्याकोटितचीवरपरिभुक्ति भजेत् ।

6.196

। नाशुचौ प्रदेशे ।

6.197

। न गुरुणा सति पराक्रमे भारेणाक्रमेत् ।

6.198

। नान्यपरिभोगेन परिभुञ्जीत्* ।

6.199

। नोच्चारप्रश्रावकरणं [47अ6] शुचिपरिकर्मणेषूत्तरासंघप्रावृत्तिं* भजेत्* ।

6.200

। नास्मिन् निपद्येत्* ।

6.201

। न पिण्डपातचर्याभोजनचैत्याभिवन्दनसामीचीकरणं संघसन्निपाताववादधर्मश्रवणानुभवनाद् अन्यस्यां व्यापृतौ सांघाट्याः ।

6.202

। नास्यां निशीदेन् निपद्येत् त्वा ।

6.203

। नाक्रम्यैनां ।

6.204

। नानयैने कस्य कस्य चिन् नियुञ्जीत्* ।

6.205

। न कायसंस्पर्शकं परिभुञ्जीत्* ।

6.206

। कक्षघर्मेण दक्षिण[47ब्1]स्यास्यां नाननसंपत्तिः ।

6.207

। तदभूत्यै तत्र प्रदेशे वस्त्रस्यास्यां दानं ।

6.208

। अध्यर्धहस्तवितस्तिकस्य ।

6.209

। उभयोः पार्श्वयोर् अष्टसूत्रेण लगनं ।

6.210

। कालेन कालम् अस्य शोचनं रञ्जनञ् च ।

6.211

। गैरिकेनास्यैतत् ।

6.212

। धारयेत् मुखपोच्चनम् ।

6.213

। श्रवत्कायः कायोद्घर्षणम् ।

6.214

। अभ्यन्तरे चीवराद् अस्य प्रावरणम् ।

6.215

। लग्नस्य कषायोदकेन क्षोदमिश्रेण गते म[47ब्2]यित्वा मन्दमन्दम् अपनयनं पूयशोणितस्य च ।

6.216

। कालेन कालम् अस्य शोचनं शोषणं रञ्जनञ् च ।

6.217

। धातुनास्यैतत् साधु ।

6.218

। न यत्र क्वचन चीवराणि स्थापयेत् ।

6.219

। वंशस्य तदर्थं समायोजनम् ।

6.220

। द्रोणिकायास् तदर्थम् ।

6.221

। क्रियमाणे विहारे ।

6.222

। न कृते छिद्रणम् ।

6.223

। निदर्शनम् विहारे परिगणे प्य् एतत् ।

6.224

। लतारज्वोरस्यस्य संपत्तिः ।

6.225

। वृषिकया साधु [47ब्3] वस्त्राणां नयनम् ।

6.226

। कुर्वीतैनां ।

6.227

। त्र्यध्यर्हहस्तकस्य द्विगुणीकृत्य सेवनम् ।

6.228

। मध्ये मुखकरणं ।

6.229

। जालकस्यात्र दानम् असूत्रकेन ।

6.230

। अपरेण बन्धनम् ।

6.231

। उपरि परिभुज्यमानानां स्थापनं ।

6.232

। अवलोक्य श्वो गमिष्यत्तायां ।

6.233

। गुरून् अनुज्ञातो गच्छेत् ।

6.234

। कृतस्वावाससेकादिः ।

6.235

। धर्म्यया वा कथयाध्वनि गच्छेद् आर्येण वा तूष्णीम्भावेन ।

6.236

। [47ब्4] विश्रामस्थाने गाथां भाषेद् आषाम् ।

6.237

। पानीयग्रहणस्य च ।

6.238

। यस्य तद् पानीयं तम् उद्दिश्य ।

6.239

। अपरां च देवतां ।

6.240

। वासस्य त्रिदण्डकम् ।

6.241

। धारयेत् कान्तारिकायां ।

6.242

। तत्प्रमाणमध्यर्धं शतम् उपादाय हस्तानाम् आशतात् ।

6.243

। देशानुरूप्येणेत्य् अपरं ।

6.244

। न विनैतया दुर्लभाकूपपानीये देशे चागारिकां चरेत् ।

6.245

। प्रस्फोटितचीवरो ध्वगः [47ब्5] स्नातवां प्रक्षालितपाणिपादो वा गृहीतपानीयः पोच्चितो पानकेस् त्रिचीवरं प्रावृत्य शान्तेर्यापथो विहारं प्रविशेत् ।

6.246

। चतुरो वृद्धान् वन्दित्वावतिष्ठेत् ।

6.247

। प्राकृते प्रदेशे न्यशब्दः ।

6.248

। प्रासादिकः सुसंवृतेर् यः सप्रभवेनास्य प्रतिशामनम् ।

6.249

। नाज्ञायमान प्रतिशामयेत् सतीर्थ्यम् अपि ।

6.250

। पिध्वीयतां द्वारं न देयं मृगयते निवार्यो गृह्णान इति प्रत्या[47ब्6]यितस्य प्रतीच्छ्याव्युपेक्षितवतोपहृतौ विश्वासवस्तुताञ् चोपनीतेन ममैवायं सहाय इत्यादि प्रतिपादनया दास्यत्वम् ।

6.251

। अभिज्ञानसंश्रयणम् अविदितस्यापरेण विशेषगताव् उपायः ।

6.252

। अर्प्यमाणयातेनान्ते चेत् प्रमीलनम् ।

6.253

। प्रश्नस्यानुप्रमादासंपत्तये करणं ।

6.254

। नाशने याचितस्याशुचिना ऽसंपत्तो शोचादिना चित्तग्रहणस्य मूल्यदानः ।

6.255

। [48अ1] । ।पात्रचीवरप्रतिग्रहणं ।

6.256

। आसनं प्रज्ञपनम् ।

6.257

। पादधावनेनोपनिमन्त्रणम् ।

6.258

। उदकेन च ।

6.259

। वन्दनम् ।

6.260

। सुखचर्याप्रश्नः ।

6.261

। यथाशक्ति संरञ्जनीयकरणं ।

6.262

। अनुरूपशयनासनदानम् ।

6.263

। संघस्थविरम् उपसंक्रामेत् ।

6.264

। निःश्रयग्रहणे स चेद् एनन् नियुञ्जीत ।

6.265

। वृद्धश् चेत् शयनासनस्यास्य दाने तद्वारिकम् ।

6.266

। न सहसा शयनासनं [48अ2] याचेत् ।

6.267

। परिषण्डादानम् अन्तस्य चीवरे ध्वस्तो प्रतिविधानं आरापदकैस् तत्संग्रहः ।

6.268

। परिवास्याभ्यवकाशे वृक्षाद्य् उपरि सप्ताष्टान्यहानि पञ्चाषातीत्य् अपरं शोचयित्वा शवचीवरं भुञ्जीत्* ।

6.269

। प्रवेदिते स्मशनिको हम् इत्य् उपनिमन्त्रितः प्रवेशं विहारकुलयोः परिभोगञ् चानुत्सृष्टस्वीकारस्य श्मशनिको भजेत्* ।

6.270

। न सांघिकं शयनासनं परिभुञ्जीत्* ।

6.271

। आव्यामा[48अ3]न्ताच् चैत्यं परिहरेत् ।

6.272

। धारयेन् मशकवारणम् ।

6.273

। ऊर्णां सणं कर्पासं नतुकं पत्रमञ्जरीञ् च ।

6.274

। न हस्त्यश्वगोबालादिकमयं ।

6.275

। सर्वत्राकमलमृष्टत्वं चित्रोपचित्रताचार्योशलिके दण्डे ।

6.276

। मशककुटिञ् च ।

6.277

। उपरि शटकषितननं* ।

6.278

। दण्डिकायां बन्धनेन ।

6.279

। चतुर्धिहस्तकस्य ।

6.280

। पटकेन परिवारणं द्वादशहस्तकेन ।

6.281

। सावष्टम्भं ।

6.282

। [48अ4] अथास्य शयनासने वष्टम्भः ।

6.283

। द्वारस्य करणं विकर्णकस्य ।

6.284

। वीजनं धर्मे प्रतिविधिः ।

6.285

। धारयेद् विधमनम् ।

6.286

। वारुटंटेतालवृन्तं वा ।

6.287

। न चित्रोपचित्रम् ।

6.288

। संघो न्यद् अपि ।

6.289

। चैत्ये मणिवालव्यव्जनस्योत्पन्नस्य दानम् ।

6.290

। श्रावकस्यापि ।

6.291

। धारयेद् वृषिबिम्बोपधानचतुरस्रकानि ।

6.292

। पुत्रदारलाभे दातृवशेन प्रतिपत्तिः ।

6.293

। मो[48अ5]चनं चेद्या[..]द् अस्यौष्टं तावतो निष्क्रयत्वम् ।

6.294

। कल्पये पुनर् निर्यातनम् ।

6.295

। वृक्षे निर्यातितस्यालङ्कारश् चेत् तस्यैवोत्सवे लंकरणोपस्थापनम् ।

6.296

। भित्तौ ल्लपने चेच् चित्रणाय ।

6.297

। न चेत् स्तम्भे च नवकर्मणे ।

6.298

। भूमौ ।

6.299

। अग्निशालायां प्रज्वालनिकाकरणं ।

6.300

। स्नेहलाभस्य वा ।

6.301

। भैषज्योपस्थापनं ग्लानकल्पिकशालायां ।

6.302

। भक्तशालायां [48अ6] भक्तकरणं ।

6.303

। पानकस्य पानीयमण्डले ।

6.304

। जेन्ताकशालायां जेन्ताकस्य स्नेहलाभस्य वा ।

6.305

। स्नेहलाभस्य मण्डलवाटे स्थापनशालायोः ।

6.306

। जातकेन खनं वा ।

6.307

। मेढीचंक्रमद्वारकोष्ठकप्रसादेषु भाजनम् ।

6.308

। पुष्करिण्या च ।

6.309

। स्थापनाम् अस्यां चातुर्दिशसांघिकत्वेनेत्य् अयं* ।

6.310

। कल्पते रत्नार्थं भिक्षणं ।

6.311

। उद्धोषणञ् च [48ब्1] ग्रहणे ।

6.312

। चक्रस्य दर्शनार्थं करणं घर्मवातवर्षोपद्रवेणास्पृष्ट्यै कूपगारस्य द्वारवन्त ।

6.313

। ष्टयवतः ।

6.314

। महस्यान्ते चक्रोस्य धारणं ।

6.315

। भाण्डगोपकेन लाभस्य गोपनम् ।

6.316

। नानुद्दिश्य द्वयं शास्तृपूजायां दत्ते भिक्षुणीनां सांघिके प्रवेशः ।

6.317

। पृथगासामत्रे कस्यां चक्रो श्रूयणे स्थूलात्ययः ।

6.318

। भाजनं भाण्डभाजकेन ।

6.319

। संमतिर् अस्य ।

6.320

। [48ब्2] नाथिक्रीय्याणां ।

6.321

। संघसन्निपाते वर्द्धनेन ।

6.322

। तस्यैवात्र सन्निपातगतम् अनुष्ठेयं संघस्थविरेण मूल्यस्य करणम् ।

6.323

। मध्यमस्य ।

6.324

। नातस्तस्य पात्यत्वम् ।

6.325

। निश्चित्य पुनर् अभूतिं* वर्द्धनस्य पातनम् ।

6.326

। नाक्रयिको वर्धयेत् ।

6.327

। न स्त्रियम् ।

6.328

। नादत्तमूल्यं परम् परिभुञ्जीत्* ।

6.329

। संस्कुर्वीत वा ।

6.330

। दशाद्यल्लाभिप्रभूत्ये दायादानां भाजनम्(अ) ।

6.331

। [48ब्3] दत्ते कस्यचिद् अविभक्ते वङ्गान् मृतौ तद्वर्ग्यगामित्वं तदंशस्य ।

6.332

। अर्हति निर्वाणाशयेन प्रव्रजितः शीलवां शतसाहस्रं वस्त्रं शतरसंभोजनं पञ्चसूतं कूटागारम् ।

6.333

। संघद्रव्यञ् च ।

6.334

। आशैक्षात् ।

6.335

। पृथग्जनो पि ।

6.336

। न दुःशीलः ।

6.337

। ऋणभूतं कुसीतस्य प्रतिग्रहोपजीवनम् ।

6.338

। अर्हः पौद्गलिकविहारतल्लाभोपजीव्यन्तस् सीमतायां संघलाभे ।

6.339

। [48ब्4] लयने च नियतस्य ।

6.340

। वारेणास्योद्देशः ।

6.341

। पात्रविपात्रककंसिकाविन्दुलाकुञ्चिकाशस्त्रकसूचीनखच्छेदनककटच्छ्वङ्गारस्थापनकुट्ठारीपचनिकासरकानामयोभाण्डेभ्यो भाजयितव्यता ।

6.342

। मृद्भाण्डेभ्यः पात्रविपात्रकपचनिकाघटिकाकरककुण्डककुण्डिकापानीयस्थालकानाम् ।

6.343

। मंचस्य रत्नमयादे[48ब्5]र् अयोमयात् तस्य परिवर्त्या ।

6.344

। न काष्ठमयस्य रंगस्य पंचकाद् अन्यस्य ।

6.345

। अक्वाथितस्य ।

6.346

। क्वथितस्य रञ्जनीये विनियोज्यत्वम् ।

6.347

। संघस्य यत् ।

6.348

। अविक्रियतास्यागमविहारतद्वस्तुशयनासनानां ।

6.349

। अनापेयत्वं ।

6.350

। अनधिष्ठेयता च ।

6.351

। योगं भक्ता छादनेन पित्रोर् उद्वहेत् ।

6.352

। न चेल् लाभस्य पात्रचीवराद् अतिरेकस्स् अमा[48ब्6]दाप्य ।

6.353

। असंपत्तौ भोजनोपनतेर् उपार्धस्यादानम् ।

6.354

। पषणंविभागज्ञानाय चीवराणां ।

6.355

। उपचयानामेषु दानं ।

6.356

। मपिटिप्यकस्तदास्यः ।

6.357

। उल्लपनकानाञ् च ।

6.358

। दशापाशात् तयोर् वर्धिकाकरणं ।

6.359

। नासांघाट्यां छिन्नाधिष्ठाननियमः नासत्वे तद्रूपाणां प्रत्ययानाम् इच्छन्न[49अ1] । ।या ग्रामान्तर्गृहयोर् अनयोपवेशः प्रवेशश् च ।

6.360

। एवं तीर्थ्यावसथे ।

6.361

। नैव सत्सूपवेशः ।

6.362

। न रोमविधं त्रिचीवरत्वेनाधितिष्ठेत् ।

6.363

। नैतत् प्रावृतिं भोजने भजेत्* ।

6.364

। स्वीकरणं विरलिकायाः ।

6.365

। चातुर्विध्यम् अस्याः ।

6.366

। और्णिका क्षोमिका दुकूलिका कार्यासिकेति ।

6.367

। अन्येषाञ् च लघूनां पटप्रवाराणां निकटरोमप्रभृतीनां ।

6.368

। कोचवस्य [49अ2] च ।

6.369

। न लोमस्य विहेठे स्यान्यथा प्रावृतिं भजेत्* ।

6.370

। नानेनैवं प्रावृते चंक्रम्येत् ।

6.371

। नार्याणीकोचवप्रावारचित्रचिलिमिलिकास्वीकृतिं* पुद्गलो भजेत्* ।

6.372

। प्रतीच्छेच् चंक्रमे चिलिमिलिकाप्रज्ञपनम् ।

6.373

। न नित्यम् एकयैव धारया चंक्रमणं ।

6.374

। शक्यतायां प्रतिसंस्करणम् ।

6.375

। सेवनदण्डकार्गडकदानैः ।

6.376

। अशक्यत्वे गोमयम्रदा तत्रैव चं[49अ3]क्रमे लेपनं ।

6.377

। धारणम् अन्येषां दानपतिविश्वासेन ।

6.378

। धारयेत् प्रतिविवसनसंकक्षिकाप्रतिसंकक्षिका ।

6.379

। परिस्कारचीवरञ् च ।

6.380

। नास्य शैक्ल्ये सदशापाशातायां वा दोषः ।

6.381

। न सांघिकस्य ।

6.382

। अधिष्ठाय तत्त्वेनानुज्ञाता चीवरधारणं धारयेद् उपरां विकल्पानेकम् अपि ।

6.383

। नास्थिरचित्तस्य विकल्पयेत् ।

6.384

। नानुपसंपन्नस्य ।

6.385

। न प्रत्य[49अ4]क्षम् ।

6.386

। न देशान्तरस्थतायां विकल्पस्य ध्वंसः ।

6.387

। ध्वंसश् च्युतौ ।

6.388

। ज्ञातौ ।

6.389

। विकल्पकस्यात्र स्वामित्वम् ।

6.390

। न निःसृष्टं स्वीकुर्वीत्* ।

6.391

। भिक्षौ निःसृजेत् ।

6.392

। न संघे ।

6.393

। नाव्यक्ते ।

6.394

। याचनम् अदाने ।

6.395

। ग्रहणञ् च वलेन ।

6.396

। गन्धैः पर्लिगुद्धस्य वाससः शोचयित्वा परिभोगः ।

6.397

। प्रस्फोट्य चूर्णैः ।

6.398

। स्नेहेन विरुक्षयित्वा ।

6.399

। न वर्षत्य् अभ्यवका[49अ5]शे सांघिकस्य ।

6.400

। नधावनरङ्गनपात्रकर्मकाष्ठपाटनादिकर्म कुर्त्वत्तायां ।

6.401

। सम्यक्त्वं संख्यम् अनुक्तौ साह्यस्य व्ययचायनिक्षेप्त्रे दानम्
न सानिक्षेप्ते मनोनुन्मत्तका तज्ञातितद्गृहादातुं प्रतिगृह्णीत्* ।

6.402

। प्रतिगृह्णीत प्रणायितात् पुत्रात् ।

6.403

। श्मशानाच् च प्रतिनिर्वर्त्तितम् ।

6.404

। प्रतिमृगयते दानम् अस्य ।

6.405

। ग्रहणं पुनर् लब्धौ स्तौपिकस्य वृत्तेर् मू[49अ6]लफलेक्षुभ्यो न्यस्य भक्तार्थस्योद्देशोपजीव्यस्य वा भाज्यत्वं स्वीकाराय ।

6.406

। वर्षिकेन सीम्ना लाभस्य प्रवेशः ।

6.407

। न छिन्नवर्षत्वेनर्तत्वम् ।

6.408

। नोक्षिप्तायां ।

6.409

। एकांशतैवावष्टम्भिद्रव्यो पि तस्य ।

6.410

। स्वसंख्यांशत्वम् अस्मिन्न् अवष्टम्भानां ।

6.411

। भूयस्त्वेनैवान्यत्रानेकत्रोपगतौ व्यवस्था ।

6.412

। वितृतीयांशत्वं श्रामणेरश्रामणेरिकयोर् लाभे ।

6.413

। साम्यम् अ[49ब्1]भ्यवहार्ये ।

6.414

। उपसंपत्प्रेक्षशिक्षमाणयोश् च ।

6.415

। पुद्गलशो भिक्षुणीनामंशहरता न संघशः ।

6.416

। नानवछिन्नं भोजनम् अनुलाभे भिक्षुणीनां भुक्तवत्वे तत्राप्रवेशः ।

6.417

। नासनोदकपिण्डपातेषु भिक्षो भिक्षुणीस्वीन ज्येष्ठत्वं ।

6.418

। आसनस्य वृद्धान्ते भिक्षुणीभिः सन्निषादे मुक्तिः ।

6.419

। करणं सभिक्षुतायाम् अशक्तौ तेषां भिक्षुण्या दक्षिणादेश[49ब्2]नस्य सामान्यञ् चारयिष्यतीति चारकम् आहारस्य प्रत्युपस्थितपादौ दानाय संघस्थविरो नियुञ्जीत् ।

6.420

। यथासंभावनम् इत्य् अवलोक्य पर्षदं प्रभूत्येल्पत्वे भक्तस्य तदाख्यानपूर्वकं ।

6.421

। यथाविभवनेत्य् अन्यथात्वे ।

6.422

। न चानुद्घोषिते संप्राप्तम् इति वृद्धान्त आदौ गृह्णीत् ।

6.423

। सज्जीकृतावाहारस्योद्दिष्टेभ्यो परेषाम् आगतौ तदावेदनम् ।

6.424

। [49ब्3] न त्रिचीवरदाने भिक्षुं प्रवर्तयेत् ।

6.425

। नैतज् जीवत्तायां ।

6.426

। प्रतिदाद्यत इत्य् अतो न्येन मनसा संघः प्रतिगृह्णीयात् ।

6.427

। सान्तरोत्तरेण मृतच्छोरणं ।

6.428

। मध्येन ।

6.429

। नावशिष्टेन ।

मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc