भाषा

ENहिગુ
ग्रंथ पाठ

विनयसूत्र · अध्याय 5

5.1

। आस्त्रीण्वीरन्* कठिनम्* ।

5.2

। यथा त्रयम् एवम् आस्तीर्णस्य परंपरभोजनम् अपि निर्दोषं गणभोजनमन् आमन्त्र्यग्रामप्रवेशश् चीवरविज्ञपनञ् च ।

5.3

। साधारण्यम् अस्य शिष्टैः लाभस्य ।

5.4

। अनुत्थानम् अस्यावार्षि[44ब्1]कछिन्नवर्षपश्चिमवर्षस्थानान्तरोषितवर्षेषु भूम्यन्तरस्थेषु च ।

5.5

। विष्ठानम् एतत् प्राप्तौ ।

5.6

। भागिनो व्यन्त्यश्रामणेरभूम्यन्तरस्थालाभे ।

5.7

। नोत्क्षिप्तः ।

5.8

। तत्ताप्राप्तिवद् अधर्मपक्षेषु यातो भिन्नेषु ।

5.9

। मौलकालप्रवारणपर्यन्तवर्षानिमित्तकास्तारकादिनपर्यन्तसम्बन्धी चीवरलाभसंख्यं च त्रिचीवरम् ।

5.10

। सांघिकम् अमृदितम् अवि[44ब्2]लिखितम् अपैलोतिकम् ।

5.11

। न न वर्णितकम्* ।

5.12

। अपरिभुक्तं ।

5.13

। दृढम्* ।

5.14

। असंबन्धानिमपट्टिकगण्डूषकत्तढिकपरिषण्डन ।

5.15

। अनैःसर्गिकसन्ततिप्रस्कन्नगतप्रत्यागतम्* ।

5.16

। छिन्नस्यूतम्* ।

5.17

। निष्ठितं पञ्चकं ।

5.18

। उत्तरे वा ।

5.19

। अनास्तीर्णपूर्वञ् च ।

5.20

। आस्तीर्णम्* ।

5.21

। अनेकम् अपि ।

5.22

। यावत् तदास्तारकः ।

5.23

। चीवरान्तरा[44ब्3]धिष्ठानम् एतत् तस्माद् उद्धृत्याधिष्ठितानि ।

5.24

। रोचयेरन्* सामग्र्याम्* ।

5.25

। अनुषितम्* ।

5.26

। संमन्येरन्न् अन्तःसीम्नि ।

5.27

। आस्तारकञ् च ।

5.28

। यत्रास्योत्थानम्* ।

5.29

। तस्मै ददीत ज्ञप्त्य् आधावनस्यूतिरञ्जनेष्व् असौ पूर्वंगमः स्यात्* ।

5.30

। द्वित्रानुष्ठानेन ।

5.31

। निष्ठितं संपत्तौ द्वित्राणां स्वयं सूचीपदकानां दानम्* ।

5.32

। आदानस्वयंकृति तद् अन्तेष्व् आस्ता[44ब्4]रिष्याम्य् आस्तृणोम्य् आस्तृतं मयेति यथासंख्यं चित्तस्योत्पादनम्* ।

5.33

। नाद्यस्य हानाव् अनुत्थानम्* ।

5.34

। श्वो हम् आयुष्मन्तः कठिनम् आस्तरिष्यामि युष्माभिः स्वकस्वकानि चीवराण्य् उद्धर्तव्यानिईति सामग्र्याम् आरोचनम्* ।

5.35

। सन्निपातगतानुष्ठानम्* ।

5.36

। गन्धपुष्पार्चितं सुरभिधूपधूपित चांगेरिपटलकस्थम् एकं त्रिवानेकम् आदाय वृद्धा[44ब्5]न्ते वस्थितेनास्तृतेस् सम्पादनं प्रतिपदिः ।

5.37

। कार्तिकस्य ।

5.38

। त्रिर् उक्त्या ।

5.39

। आस्तृणोमीति ।

5.40

। प्रतिभिक्षुम् अग्रतः स्थित्वा आस्तृतमिति निवेदनम् ।

5.41

। साध्व् आस्तृतं सुष्ठ्व् आस्तृतं यो त्र लाभश् चानुशंसश् च सो ऽस्माकमितीतरः ।

5.42

। प्रत्यनुभूतिवद् अस्यानुमोदनम्* ।

5.43

। सम्मुखीभूतेन ।

5.44

। कालेन काल शोषयेद् आतापयेत्* स्फोटयेत्* ।

5.45

। न धूमरजोगारे [44ब्6] स्थापयेत्* ।

5.46

। न राज्ञः ।

5.47

। नातो विप्रवसेत्* ।

5.48

। नादायान्यत्र गच्छेत्* ।

5.49

। नाशुचिकुटिम्* प्रविशेत्* ।

5.50

। अभ्यवकाशे तिष्ठेत्* ।

5.51

। द्विविध उद्धारः स्वयं विवर्तीकृतृमश् च ।

5.52

। स्वयम् विवृत्तिः प्राप्तो सीमान्तरस्य कठिनेन ।

5.53

। उद्गतौ निरधिष्ठत्रे कर्त्व् अन्तःसीम्नो ऽरणस्य ।

5.54

। विच्छेदे तन्मण्डलान्तर्भावस्य ।

5.55

। तम् अत्र प्रति ।

5.56

। [45अ1] सीमातिक्रान्ताव् अस्य संपत्तिः ।

5.57

। अप्रत्यागमनचित्तेन ।

5.58

। अस्य चोत्पत्तौ बहिःसीम्नि ।

5.59

। अभावे चीवरकरणाभिप्रयेणानुस्यूतेस् तद् एव ।

5.60

। करिष्यत्ता विछित्तौ भावे ।

5.61

। पत्यागतेष ।

5.62

। त्रये करिष्यमाणस्यैतत् संस्थानम् आशासमुच्छेदे प्रारब्धनष्टौ निष्ठान इति ।

5.63

। उद्धर्तृनिश्चयवद् विमतिः ।

5.64

। न कर्मणो न्यङ् कारम् अनु[45अ2]त्तिष्ठेयुः ।

5.65

। फाल्गुनी तत्कालः ।

5.66

। अन्तरा ।

5.67

। मुषितकार्थतायाम् अर्वाचीनो पि ।

5.68

। आश्रुतेर् अस्मिन्न् अननुभूतेवन् तं प्रत्यनुवृत्तिर् अनुशंसे ।

5.69

। असत्वे नुस्यूतेः ।

5.70

। आछित्तेः मत्वे ।

5.71

। नानुद्धृते सर्वेषां तात्कालिकं लाभं भाजयेत्* ।

5.72

। यथाप्रवारणम् आस्तारः ।

5.73

। नापोषधान्ते ।

5.74

। उद्धारश् च ।

5.75

। तद्दिनत्वम् अ[45अ3]स्य ।

5.76

। उद्धृतत्वं पुनः पोषधे कृतौ ।

5.77

। पृथग् अस्यास्तीर्य भिन्नेषु संपत्तिः ।

5.78

। धर्मवादिनां स तद्यास्तारः ।

5.79

। कृते प्य् अत्रेतरैर् एषाम् आवासे लाभे र्हत्वम्* ।

5.80

। नोत्क्षिप्तकानां प्रकृतिस्थकावासे स्योत्थानम्* ।

5.81

। भावसन् निवेशनम् आस्तारः ।

5.82

। भवति छन्ददानवशात् सहितेन करणीयस्य शिष्टैः कृतौ कृतत्वम्* ।

5.83

। तद् अपच्युतिर् उद्धारः ।

5.84

। तस्माद् अ[45अ4]दत्वा च्छन्दं स्वप्नसमापत्योः संनिषण्णे स्यानुत्थानम् आस्तारस्योद्धृतेश् च प्राक् श्रुवणात्* ।

5.85

। उषितत्वम् एकसीमतायां तत्रावासान्तरोषितानाम् आस्तारे ।

5.86

। तत्स्थानत्वम् आस्तारकाले स्याम् अस्य ।

5.87

। यत् तद् आस्तृत्य पृथक् सीमकरणे चास्य स्थानम्* ।

5.88

। प्रत्यावासं पृथक्त्वे स्यैषाम् उद्धारः ।

5.89

। प्रतिपक्षं भिन्नतायाम्* ।

5.90

। नानुद्धृतिर् अना[45अ5]स्तारोद्धारः ।

5.91

। नानुत्थानकत्वाद् अपूरकत्वं ।

5.92

। नानास्तारत्वाद् उद्धारे ।

5.93

। निर्दोषम् आस्तृतकठिनस्य ।

5.94

। विनासांघाट्या ग्रामप्रवेशाद्य् आशृङ्गाटके निषादात्* ।

मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc